________________
४९९
उद्देशक : १. मूलं-६, [भा. १९८०] यूयममुम् 'अतरन्तं' ग्लानं नयत, वयं युष्मदीयं नयाम इति ।।
एवं सङ्क्रामणां कृत्वा तत्रच ग्रामे नगरे वा नीत्वा सर्वप्रयत्लेन प्रतिचरणा विधेया । न पुनर्निधर्मतयेत्थं चिन्तनीयं भणनीयं वा[भा.१९८१] देवा हुने पसन्ना, जमुक्का तस्स ने कयंतस्स ।
सो हुअइतिक्खरोसो, अहिगं वावारणासीलो॥ [भा.१९८२] तेनेव साइया मो, एयस्स वि जीवियम्मि संदेहो।
पउणो विन एसऽम्हं, ते वि करिजा न व करिना ।। वृ. “हुः' अवधारणे, नूनं "ने" अस्माकं देवाः प्रसन्नाः यद् मुक्ता वयं तस्मात कृतान्तात, गाथायां पञ्चम्यर्थे षष्ठी। इह कृतान्तशब्देन कृतं-निष्पादितं बह्वपि कार्यमन्तं नयतीति व्युत्पत्त्या कृतघ्न उच्यते, यद्वा कृतान्तः-यमस्तत्तुल्यत्वादसावपि कृतान्तः । अत एवाह- स हि 'अतितीक्ष्णरोषः' पुनःपुना रोषणशीलोदीर्घरोषी वेत्यर्थः । अधिकम् अत्यर्थं व्यापारमाशीलः' कृताकृतेषु कार्येषुभूयो भूयो नियुङ्क्ते । यद्वा तेनैव ग्लानेन ‘सादिताः' खेदं प्रपिता वयमतोऽस्य कर्तुं न शक्नुमः ।अथवाएतस्यापिजीविते सन्देहस्ततः किं निरर्थकमात्मानं परिक्लेशयामः?, प्रगुणीभूतोऽपि चैष नास्माकं भविष्यि, तेऽप्यस्मदीयस्य कुर्युर्वा न वा, अतो वयमपि न कुर्महे । एवमादीनि ब्रुवाणानां तेषां निर्धर्माणामाचार्येण शिक्षा दातव्या न तूपेक्षा विधेया॥
यत आह[भा.१९८३] जो उ उवेहं कुज्जा, आयरिओ केणई पमादेणं ।
आरोवणा उ तस्सा, कायव्वा पुव्वनिद्दिट्ठा ।।। वृ- 'यस्तु' यः पुनराचार्य केनापि प्रमादेन प्रमत्तः सन्नुपेक्षां कुर्यात् तस्यारोपणा पूर्वनिर्दिष्टा कर्तव्या, चत्वारो गुरव इत्यर्थः ।।
अथवेयमारोपणा[भा.१९८४] उवेहऽप्पत्तिय परितावण महय मुच्छ किच्छ कालगए।
___चत्तारिछच्च लहु-गुरु, छेओ मूलं तह दुगंच ॥ वृ-यो ग्लानस्योपेक्षां करोति तस्य चत्वारो गुरुकाः। उपेक्षायां कृतायां यद्यप्रीतिकं ग्लानस्य जायतेततोऽपिचत्वारो गुरवः ।अनागाढपरितापेचतुर्लघु आमाढपरितापे चतुर्गुरु महादुःखे षडलघु । मूर्छायां षड्गुरु। कृच्छ्रमाणे च्छेदः । कृच्छ्रोच्छ्वासे मूलम् । समवहतेऽनवस्थाप्यम् । कालगते पाराञ्चिकम्॥ [भा.१९८५] उवेहोभासण परितावण महय मुच्छ किच्छ कालगए।
चत्तारि छच लहु-गुरु, छेओ मूलं तह दुगंच ।। वृ-उपेक्षायां स ग्लानः स्वयमेव गत्वा गृहस्थानवभाषते चत्वारो लघवः । तस्य तत्र गच्छतः शीत-वाता-ऽऽतपैः परिश्रमेण वाऽनागाढपरितापनादीनि जायन्ते ततः प्रायश्चित्तमनन्तरगाथोक्तनीत्या द्रष्टव्यम् ॥ [भा.१९८६]उवेहोभासण ठवणे, परितावण महय मुच्छ किच्छ कालगए।
___ चत्तारिछच्च लहु-गुरु, छेदो मूलं तह दुगं च ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org