________________
५००
बृहत्कल्प-छेदसूत्रम् -१-१/६ वृ-उपेक्षायां ग्लानो भक्त-पानमौषधं वा अवभाषणेनोत्पाद्य स्थापयति न शक्नोम्यहं दिने दिने पर्यटितुंततश्चत्वारो गुरवः । तेन परिवासितेन शीतलत्वाद् अनागाढपरितापनादीन्युपजायन्ते प्रायश्चित्तयोजना प्राग्वत् ।। [भा.१९८७]उवेहोभासण करणे, परितावण महय मुच्छ किच्छ कालगए।
चत्तारि छच लहु-गुरु, छेदो मूलं तह दुगंच॥ वृ- उपेक्षायां कृतायां यदि ग्लानोऽवभाष्य स्वयमेवीषधादिकं करोति गृहस्थैर्वा कारयति तदा चत्वारो गुरवः । स्वयंकुर्वतश्चिकित्साधनभिज्ञैर्गृहस्थैर्वा चिकित्सां कारयतोऽनागाढपरितापादीनि भवन्ति । शेषं प्राग्वत्।। [भा.१९८८] वेहानस ओहाणे, सलिंगपडिसेवणं निवारिते ।
गुरुगा अनिवारिते, चरिमं मूलं च जंजस्य ।। कृ-अप्रतिजागरितोग्लानोयदि निर्वेदन वैहायसंमरणमभ्युपगच्छतिततस्तेषामप्रतिजागरकाणां 'चरमं पाराश्चिकम् । अथ 'अवधावनम्' उप्रव्रजनं करोति ततो मूलम् । स्वलिङ्गस्थितो यद्यकल्प्यप्रतिसेवनां करोति ततश्चतुर्गुरुकाः । यदि तं तथा प्रतिसेवमानं निवारयति तदापि चतुर्गुरुकाः । अथ न निवारयति ततो यद् यत्र अप्राशुकेऽनेषणीये वा गृह्यमाणे प्रायश्चित्तं तत् तत्र प्राप्नोति॥
अथ निर्द्धा येषु स्थानेषु ग्लानं त्यजेत् तान्याह[भा.१९८९] संविग्गा गीयत्थाऽसंविग्गा खलु तहेव गीयत्था ।
संविग्गमसंविग्गा, नवरं पुन ते अगीयत्था ॥ [भा.१९९०] संविग्ग संजईओ, गीयत्था खलु तहेवऽगीयत्था ।
गीयत्व अगीयत्था, नवरं पुन ता असंविग्गा॥ वृ-संयताश्चतुर्द्धा, तद्यथा-संविग्ना गीतार्थाः १ असंविग्ना गीतार्था २ संविग्ना अगीतार्थाः ३ असंविग्ना अगीतार्थाश्च ४ इति।
संयत्योऽपिचतुर्विधाः, तद्यथा-संविग्नागीतार्था १ संविग्नाअगीतार्थाः २ असंविग्नाअगीतार्थाः ३असंविग्ना अगीतार्थाश्च ४ इति ।
एतेष्वष्टसु स्थानेषु ग्लानं परित्यजतः प्रायश्चित्तमाह[भा.१९९१] चउरो लहुगा गुरुगा, छम्मासा होति लहुग गुरुगा य ।
छेदो मूलं च तहा, अनवदुप्पो य पारंची। वृ-प्रथमे स्थाने ग्लानंपरित्यजति चत्वारो लघुकाः। द्वितीये चत्वारो गुरुकाः।तृतीये षण्मासा लघवः । चतुर्थे षण्मासा गुरवः । पञ्चमेच्छेदः । षष्ठे मूलम् । सप्तमेऽनवस्थाप्यः । अष्टमे पाराञ्चिको भवति॥
यदि वा[भा.१९९२] संविग्ग नीयवासी, कुसील ओसन्न तह य पासत्था।
संसत्ता विंठाया, अहछंदा चेव अट्ठमगा॥ वृ-संविग्नाः १ नित्यवासिनः २ कुशीलाः ३ अवसन्नाः ४ पार्श्वस्थाः ५ संसक्ताः ६वेण्ठकाः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org