________________
४९८
बृहत्कल्प-छेदसूत्रम् -१-१/६
तदर्थंग्लानोग्रामनीयते।नगरेवादुग्धादीनिदुर्लभद्रव्याणि क्षीणानि अतस्तेषामर्थाय आभ्यन्तराःनगरवास्तव्यसाधवो ग्लानमन्यत्रनयन्ति । इतरेपुनः' ग्रामीणग्लानप्रतिचरका ग्लानस्य गोरसेन उपलक्षणत्वादन्येन ताशेन श्लेष्मजनकद्रव्येण सिम्भः-श्लेष्मा तस्योदयो जातः पित्तं वा क्षुभितमिति परिभाव्य तदुपशामकद्रव्याणामुत्पादनार्थं ग्लानं नगरं नयन्ति।
अथवा नागरग्लानचालनायामिदं कारणम्{मा.१९७७] परिहीनं तंदव्वं, चमढिजंतं तुअनमन्नेहिं ।
कालाइक्कतेण य, वाही परिवदिओ तस्स ।। कृअन्यान्यग्लानसङ्घाटकैःस्थापनाकुलेषुचमढ्यमानंसत्परिक्षीणं तद्रव्यं ग्लानप्रायोग्यम्, अथवा वैधेन ग्लानस्योपदिष्टम्-सवारमेव भवता भोक्तव्यम्; तदानींच नगरेन लभ्यते ततस्तेन कालातिक्रान्तेन तस्य व्याधि सुष्ठुतरं परिवर्द्धितः॥
एवमादीनि कारणानि विज्ञाय ते परस्परं भणन्ति[भा.१९७८] उक्खिप्पऊ गिलाणो, अन्नं गामं वयं तु नेहामो।
नेऊण अन्नगाम,सव्वपयत्तेण कायव्वं ।। वृ- उत्क्षिप्यतां ग्लानः, यतस्तमन्यं ग्रामं वयं नेष्याम इत्येकवाक्यतया निश्चित्य सवारमेव तैर्निर्गन्तव्यम् । यतः प्रत्युषसि शीतलायां वेलायां नीयमानो ग्लानो न परिताप्यते। किञ्च
प्रत्युषसिहता मार्गाः, परिहासहताः स्त्रियः
मन्दबीजं हतं क्षेत्र, हतं सैन्यमनायकम् ।। ततो नीत्वा ग्लानमन्यं ग्रामसर्वपरयत्नेन प्रतिचरणं कर्तव्यमिति ।। गतं चालनाद्वारम। अथ सङ्क्रामणाद्वारमाह[भा.१९७९] सो निजई गिलाणो, अंतर सम्मेलणा य संछोभो।
नेऊण अन्नगाम, सव्वपयत्तेण कायव्वं ॥ वृ-एमुक्षिप्य यंग्रामं सः' नागरग्लानो नीयतेततो ग्रामादन्यो ग्लानो नगरमानीयमानोऽस्ति तेषामुभयेषामपि साधूनाम् 'अन्तरा' अपान्तराले सम्मिलना भवति ततः परस्परं वन्दनं कृत्वा निराबाधं पृष्टवा ग्लानयोः संछोभ' सङ्क्रामणं कुर्वन्ति, नागरा ग्रामीणग्लानं गृह्णन्ति ग्रामीणास्तु नागरग्लानमित्युक्तं भवति । नीत्वा चान्यं ग्रामं सर्वप्रयलेन प्रतिचरणमुभयैरपि कर्त्तव्यम् ।।
किं पुनरभिधाय ते ग्लानसङ्क्रामणां कुर्वन्ति? इति उच्यते[भा.१९८०] जारिस दव्वे इच्छह, अम्हे मुत्तूण ते न लब्मिहिह ।
__इयरे वि भणंतेवं, नियत्तिमो नेह अतरते ।। वृ-नागराग्रामेयकान्ब्रुवते-'याशानि' तिक्त-कटुकादीनि द्रव्याणि ग्लानार्थमिच्छत 'तानि' तादृशानि अस्मान् ‘मुक्त्वा' विना न लप्स्यध्वे । 'इतरेऽपि' ग्रामेयका नागरान् एवं भणन्तियूयमस्माभिर्विना दुग्धादीनिन लप्स्यध्ये।ततस्ते द्वयेऽपिपरस्परमभिदधति-यद्येवंततोनिवमिहे,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org