________________
उद्देशक ः १, मूलं-६, [भा. १९७२]
४९७ [भा.१९७२] अनुयत्तणा उ एसा, दव्वे विज्जे य यन्निया दुविहा।
इत्तो चालणदारं, वुच्छं संकामणं चुभओ॥ वृ-ग्लानप्रायोग्यद्रव्यविषयावैद्यविषया चैषाद्विविधाऽवर्तना वर्णिता!इतऊर्ध्वंचालनाद्वारं सङ्क्रामणद्वारं च 'उभयतः' ग्लानद्वयविषयं वक्ष्ये ॥ [भा.१९७३] विज्जस्स व दव्वस्स व, अट्ठा इच्छंते होइ उक्खेवो ।
___ पंथो य पुव्वदिट्ठो, आरक्खिओ पुष्वभणिओ उ ।। वृ-वैद्यस्य वा 'द्रव्यस्य' औषधादिलक्षणस्य वा अर्थाय यदि ग्लान इच्छति ग्रामान्तरं गन्तुं तदातस्य 'उत्क्षेपः' चालना कर्तव्या। यदि रात्रौ गन्तव्यं भवति तदापन्थाः पूर्वमेव दृष्टः कर्त्तव्यः। आरक्षिकश्च पूर्वमेव 'वयं रात्री ग्लानं गृहीत्वा गमिष्यामः, भवता चौरादिशक्रया न ग्रहीतव्याः' इति भणितः कर्तव्य इति ।।
अथास्या एव नियुक्तिगाथायाः पूर्वार्द्धं भावयति[भा.१९७४] चउपाया तेगिच्छा, इह विजा नत्थि न वि यदव्वाई।
अमुगत्थ अस्थि दोन्नि वि, जइ इच्छसि तत्थ वच्चामो ।। वृ-क्वापि क्षेत्रे वैद्याऔषधानि वानसन्ति ततोग्लानप्रतिचरका ब्रुवीरन्-चिकित्सा चतुष्पादा पूर्वोक्तनीत्या भवति, तत्रेह क्षेत्रे वैद्या न सन्ति नापि च 'द्रव्याणि' औषधादीनि अत्र सन्ति, अमुकत्र ग्रामे नगरे वा द्वे अपि विद्येते, अतो यदि त्वमिच्छसि ततस्तत्र व्रजाम इति ।। ग्लानः प्रतिभणति[भा.१९७५] किं काहिइ मेविज्जो, भत्ताइअकारयं इहं मझं।
तुब्भे वि किलेसेमि य, अमुगत्थ महं हरह खिप्पं ।। वृ-आर्या ! यदि नाम अत्र वैद्यो भवति ततः किं ममासी करिष्यति? उपलक्षणमिदम्, तेन यद्यौषधान्यपि भवेयुस्तान्यपि मे किं करिष्यन्ति ? यतो भक्तादिकमकारकं ममेह विद्यते, तस्मिश्चाकारके युष्मानपि मुधैव परिक्लेशयामि। यत उक्तम्
भेषजेन विना व्याधि, पथ्यादेव निवर्त्तते।
नतुपथ्यविहीनस्य, भेषजानां शतैरपि। ततो माममुकत्र ग्रामे नगरे वा क्षिप्रं 'हरत' नयत, येन मे तत्र भक्तादि कारकं स्यात् । एवंब्रुवाणोऽसौ ग्रामान्तरं प्रति चालयितव्यः ।।
चालनायामेव कारणान्तरमाह[भा.१९७६] सानुप्पगभिक्खट्ठा, खीणे दुद्धाइयाण वा अट्ठा ।
अभितरेतरा पुन, गोरससिंभुदय-पित्तट्ठा ।। वृ- नागरं ग्लानं सानुप्रगे-प्रत्यूषवेलायां लभ्यते या भिक्षा सा सानुप्रगभिक्षा तदर्थं ग्रामं नयन्ति । नगरे हि प्राय उत्सूरे भिक्षा लभ्यते, तावती च वेलां प्रतीक्षमाणस्य ग्लानस्य कालांतिक्रान्तभोजित्वेनजाठराग्निमान्द्यमुपजायते, अतः सानुप्रगे-सवारमेव भिक्षायन्द्रामे लभ्यते | 1832
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org