________________
४९६
बृहत्कल्प-छेदसूत्रम् -१-१/६ राजद्विष्टे वा साते सति । 'असति वा' सर्वथैव स्त्राणामलाभे व्यवहारः क्रियते, व्यवहारेण च निर्जितस्य नप्रयच्छन्ति, व्यवहारेणवा कारणिकैर्दाप्यमानाःप्रमाणहीनानि 'अदशाकानि वस्त्राणि दर्शयन्ति-अस्माकमीशान्येव स्वाधीनानि न सन्ति।
अथ द्रविणजातं मार्गयति वैधे विधिमाह[भा.१९६९] कब्बड्डुगमादी तंबे, रुप्पे पीते तहेव केवडिए ।
हिंडण अनुट्ठादी, पूइयलिंगे तिविह भेदो॥ वृ-कपर्दकादयोमार्गयित्वा तस्य दीयन्ते। ताम्रमयंवा नाणकंय व्यवह्रियते, यथा-दक्षिणापथे काकिणी । रूपमयं वा नाणकं भवति, यथा-भिल्लमालेद्रम्मः । पीतं नामसुवर्णं तन्मयं वा नाणकं भवति, यथा-पूर्वदशे दीनारः । “केवडिको नाम' यथा तत्रैव पूर्वदेशे केतराभिधानो नाणकविशेषः । एतेषामप्युत्पादनं कुर्वता सङ्घाटकेन वृन्देन वा हिण्डनं तथैव कर्त्तव्यम् । अलब्धेऽनुशिष्टयादीनि प्रयोक्तव्यानि । लिङ्गमिति पदं व्याख्यायते-पूजितम्-अर्चितं यल्लिङ्गंतत्र त्रिविधो भेदः कर्तव्यः । किमुक्तं भवति?-तस्मिन् देशे यत्त्रयाणां स्वलिङ्ग-गृहिलिङ्ग-कुलिङ्गानां मध्यात् पूजितं तेन लिङ्गेन द्रविणजातमुत्पादयन्ति वैद्यं वा प्रज्ञापयन्ति ।। द्वितीयपदे द्रविणजातमपिन दद्यात्, कथम् ? इत्याह[भा.१९७०] बिइयपदे कालगए, देसुट्ठाणे व बोहियादीसु
असिवादी असईइव, ववहारऽहिरनगा समणा ॥ वृ-द्वितीयपदे वैये ग्लाने वा कालगते सति, देशस्य वा बोधिकादिभयेनोत्थाने-उद्वसने, अशिवादौवा सञ्जाते, 'असत्तायां वा' सर्वथैवालाभेऽर्थजातं वैद्यस्य न दद्यात् । व्यवहारे च समुपस्थिते ब्रुवते-अहिरण्यकाः श्रमणा भवन्तीति तावत् सर्वत्रापि सुप्रतीतम्, परं तथाप्येतेनारब्धैरस्माभिस्तदपि द्रविणजातं गवेषयितुमारब्धम्, ततो लोको ब्रवीति-न वर्तते शिष्टानां यतिभ्यो हिरण्यादि दातुम् । यत उक्तम्
गृहस्थस्यान्नदानेन, वानप्रस्थस्य गोरसात्।
यतीनां च हिरण्येन, दाता स्वर्ग न गच्छति ।। इति । एवं व्यवहारो लभ्यते ।। अथ कल्याणकपदं व्याख्यानयति[भा.१९७१] पउणम्मिय पच्छित्तं, दिज्जइ कल्लाणगंदुवेण्हं पि।
बूढे पायच्छित्ते,पविसंती मंडलिं दो वि।। वृ-ग्लाने प्रगुणीभूते सति 'द्वयोरपि ग्लान-प्रतिचरवर्गयोः 'कल्याणकं प्रायश्चित्तं दीयते। इहैवमविशेषेणोक्तेऽपि ग्लानस्य पञ्चकल्याणकं प्रतिचरकाणां त्वेककल्याणकं दातव्यम्, आदेशान्तरेण वा द्वयोरपिपञ्चकल्याणकं मन्तव्यम् ।आहचनिशीथचूर्णिकृत्-आदेसन्तरेण वा दुण्ह वि पंचकल्लाणं ति । ततो व्यढे प्रायश्चित्ते 'द्वावपि' ग्लान-प्रतिचरकवर्गौ भोजनादिमण्डली प्रविशतः॥
अथोपसंहरन्नाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org