________________
उद्देशक : १, मूलं - ६, [ भा. १९६४ ]
अथ वैद्यस्य दानं दातव्यं तत्र विधिमाह[ भा. १९६५ ]
आगंतु पउण जायण, धम्मावण तत्थ कइयदितो । पासादे कूवादी, वत्थुक्कुरुडे तहा ओही ॥
वृ- ग्लाने प्रगुणे जाते सति आगन्तुकवैद्यो यदा दक्षिणां याचते तदा तस्यानुशिष्टिर्दातव्यायथा न वर्त्तते यतीनां हस्ताद् वेतनकं ग्रहीतुम्, मुधाकृतममीषां बहुफलं भवति, अपि च 'धर्मापणः ' धर्मव्यवहरणहट्टोऽयमस्माकम्, अतो यदत् सम्भवति तदेव ग्रहीतव्यम् । क्रयिकध्यन्तश्च तत्रोच्यते । यथा- केनचित् क्रयिकेण गान्धिकापणे रूपकान् निक्षिप्य भणितम्-ममैतैः किञ्चिद् भाण्डजातं दद्याः । ततः सोऽन्यदा तत्रापणे मद्यं मार्गयितुं लग्नः । वणिजा प्रोक्तः ममापणे गन्धपण्यमेव व्यवह्रियते, नास्ति मम मद्यम्, अतस्त्वं गन्धपण्यं गृहाणेति । एवमस्माकमपि धर्मापणाद् धर्मं गृह्णातु भवान्, नास्ति द्रविणजातम् ।। इत्युक्ते यदि नोपरमते ततः शैक्षेण प्रव्रजता यद् निकुञ्जादिषु परिष्ठापितं तदानीय दीयते । तस्याभावे यद् उत्सन्नस्वामिकं कापि प्रासादे कूपे वा आदिशब्दाद् निर्धमनादिषु वा निधानं तथा शटितपतितं यद् वास्तु-गृहं तद् उत्कुरुटमिवेति कृत्वा वास्तूत्कुरुटमुच्यते तत्र वा यद् निधानं तद् अवधिज्ञानिन उपलक्षणत्वाद् दशपूर्विप्रभृतीनां वा पार्श्वे पृष्टवा ततः प्रासादादिस्थानादानीय वैद्यस्य दातव्यम् ॥
वास्तव्यवैद्यस्य दानविधिमाह
४९५
[भा. १९६६ ] वत्थव्व पउण जायण, धम्मादानं पुनो अनिच्छंते । सचैव होइ जयणा, रहिए पासायमाईया ॥
वृ- प्रगुणीभूते ग्लाने वास्तव्यवैद्योऽपि यदि याचनं कुरुते ततस्तस्यापि धर्म एवादानं द्रव्यं तद्दातव्यम् । “पुनो अनिच्छंते" त्ति 'पुनः ' भूयो भूयः प्रज्ञाप्यमानोऽपि यदि धर्मादानं नेच्छति तदा पश्चात्कृतादिभिर्गृहस्थै रहिते सैव प्रासादादिका यतना कर्त्तव्या या अनन्तरगाथायामभिहिता ॥
द्वयोरप्यागन्तुक - वास्तव्यवैद्ययोरुपधिं याचतोर्विधिमाह
[ भा. १९६७ ] उवहिम्मि पडगसाडग, संवरणं वा चि अत्थुरणगं वा । दुगभेदादाहिंडणऽनुसट्ठि परलिंग हंसाई ।।
घृ- 'उपधौ' उपकरणे ‘पटशाटक:' परिधानं 'संवरणं' प्रच्छदपट: ' आस्तरणं' प्रस्तरणकं तूली वा यद्येतानि मार्गयति ततस्तथैव धर्मापणध्ष्टान्तः क्रियते । अथ नोपरमते ततो द्विकंसाधुयुग तल्लक्षणो यो भेदः प्रकारसतेन आदिशब्दाद् वृन्देन वा हिण्डित्वा पटशाटकादिकमुत्पाद्य वैद्यस्य प्रयच्छन्ति । अथ सर्वथैव न प्राप्यते ततोऽनुशिष्टिः- धर्मकथादीनि प्रयोक्तव्यानि । तथाऽप्यनुपरतस्य परलिङ्गं कृत्वा हंसादिप्रयोगेणोत्पाद्य प्रयच्छन्ति ॥
द्वितीयपदे न दद्यादपि, यत आह
[भा. १९६८ ]
बिइयपदे कालगए, देसुट्ठाणे व बोहिगाईसु ।
असिवाई असईइ व, ववहारऽ पमाण अदसाई ||
वृ-द्वितीयपदे वैद्ये ग्लाने वा कालगते सति वस्त्रादिकं न दय्दादपि । यद्वा बोधिकाः-प्लेच्छास्तेषाम् आदिशब्दात् परचक्रस्य वा भयेन 'देशस्योत्थाने' उद्वसीभवने । अशिवे वा आदिग्रहणाद् दुर्भिक्षे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org