________________
उद्देशकः १, मूलं-६, [भा. १९३१)
४८७
तस्सऽप्पणो य थाम, नाउं भावं च अनुमन्ना ।। । वृ-तस्य ग्लानस्य 'कोऽपि' सज्ञातको वैद्यो भणेत्-निजकैरौषधैरहं ग्लानस्य रोमि क्रियाम्, प्रेषयतमदीये गृहे ग्लानमिति । ततो गुरुभि पृष्टेन ग्लानेन तस्यात्मनश्च 'स्थाम' वीर्यंतोलनीयम्किमेष वैद्य औषधानि पूरयितुं समर्थो न वा?, अहमपि किं धृत्या बलवान् ? आहोश्चिदबलवान् ?, भावो नाम-किमेष धर्महेतोश्चिकित्सां चिकीर्षु स्वगृहे मामाकारयति ? उताहो उनिप्क्रामणाभिप्रायेण? इति । यद्यसौ गृहस्थ औषधपूरेण समर्थो यदि च स्वयं धृत्या बलवान् यदि च धर्महेतोः सज्ञातकस्तमाकारयति तत एवं तस्यात्मनश्च वीर्यं भावंच ज्ञात्वा गुरूणामनुज्ञां गृहीत्वा तत्र गन्तव्यं नान्यथेति ।।
अथासौ वैद्यो ब्रूयात्[भा.१९३२] जारिसयं गेलनं, जाय अवस्था उ वट्टए तस्स ।
अश्रूण न सक्का, वोत्तुं तंवच्चिमो तत्थ ।। वृ-याशंयुष्माभिट्ट 'ग्लान्यं ग्लानत्वमाख्यातं याच' याशीतस्यावस्था वर्ततेतदेतददृष्ट्वा न शक्यते किमप्यौषधादि वक्तुम् उपदेष्टुम्, ततः 'तत्रैव' ग्लानसमीपे व्रजाम इति ।।
एवं भणित्वा प्रतिश्रयमागतस्य तस्य यो विधि कर्त्तव्यस्तमभिधित्सुरिगाथामाह[भा.१९३३] अब्भुट्ठाणे आसन, दायन भद्दे मती य आहारो।
गिलाणस्सय आहारे, नेयव्वो आनुपुब्बीए॥ वृ-प्रथममभ्युत्थानविषयो विधिर्वक्तव्यः, तत आसनविषयः, ततो ग्लानस्य दर्शना यथा क्रियते, ततः “भद्दे" त्ति भद्रको वैद्यो यथा चिकित्सामेवमेव करोति, इतरस्यतु भृतिः' मज्जनादिकं चिकित्सावेतनम्आहारश्च यथा दातव्यः, ग्लानस्य च यथाआहारे यतना कर्त्तव्यातथा सर्वोऽपि विधिरानुपूर्व्या प्ररूप्यमाणो ज्ञातव्य इति समुदायार्थः ।।
अवयवार्थं तुप्रतिद्वारमभिधित्सुराह[भा.१९३४) अब्भुट्टाणे गुरुगा, तत्थ वि आणाइणो भवे दोसा ।
मित्यत्त रायमादी, विराधना कुल गणे संघे ।। वृ-आचार्यो यदि वैद्यस्यागतस्याभ्युत्थानं करोति तदा चत्वारोगुरुकाः।तत्राप्याज्ञादयो दोषा भवेयुः । तथा मिथ्यात्वं राजादयो व्रजेयुः, आदिग्रहणेन राजामात्यादिपरिग्रहः । ते हि चारपुरुषादिमुखादाचार्य वैद्यस्याभ्युत्थितं श्रुत्वा स्वयं वा दृष्ट्वा चिन्ययेयुः-अमी श्रमणा अस्माकमभ्युत्थानं नकुर्वन्ति, अस्मभृत्यस्यतुनीचतरस्येत्थमम्युत्तिष्ठन्ते, अहो! दुईष्टधर्माणोऽमी इति।प्रद्विष्टा वायत्तस्यैवाचार्यस्य यदि वा कुलस्य गणस्य सङ्घस्य वा विराधनां कुर्युः तनिष्पन्न प्रायश्चित्तम् ।। [भा.१९३५] अनब्भुट्ठाणे गुरुगा, तत्थ वि आणाइणो भवे दोसा।
मिच्छत्त सो व अन्नो, गिलाणमादीविराधनया ।। वृ-अथैतद्दोषभयादाचार्यो नोत्तिष्ठति तत्रापि चतुर्गुरुकाः । तत्राप्याज्ञादयो दोषा भवन्ति । 'स वा' वैद्योऽन्यो वा तं दृष्ट्वा मिथ्यात्वं गच्छेत्, यथा-अहो ! तपस्विनोऽप्यमी गर्वमुद्वहन्ति । प्रद्विष्टो वा वैद्यो ग्लानस्य क्रियां न कुर्याद् अपप्रयोगं वा कुर्यात्, एवं ग्लानविराधना । आदि
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org