________________
४८६
बृहत्कल्प-छेदसूत्रम् -१-१/६
शैशव तारुण्यादिकं 'धातुंच' वातादीनां धातूनामन्यतमो यस्तस्योत्कटो वर्त्तते तं 'चः समुच्चये 'आहारम्' अल्पभोजित्वादिलक्षणम् अग्निबलं-जाठरो वह्निरस्य मन्दः प्रबलो वा इत्येवं धृतिबलंसात्त्विकः कातरो वाऽयमित्येवं तथा "समुई "ति प्रकृति सा च या यस्य जन्मतः प्रभृति तां च कथयन्ति ॥
अथोपदेशद्वारमाह[भा. १९२८]
कलमोदनो य खीरं, ससक्करं तुलियाइयं दव्वे ।
भूमिघरेट्टग खेत्ते, काले अमुगीइ वेलाए ।
[भा. १९२९] इच्छानुलोम भावे, न य तस्सऽहिया जहिं भवे विसया । अहवन दित्तादीसुं, पडिलेमा जा जहिं किरिया ।।
वृ- अनन्तरोक्तंव्याधि - निदानादिकं श्रुत्वा वैद्यः स्वगृहस्थित एव द्रव्यादिभेदात् चतुर्विधमुपदेशं दद्यात् । तद्यथा- द्रव्यतः कलमशालिरोदनस्तथा क्षीरं च सशर्करमस्य दातव्यम्, तथा तूलिकायां शाययितव्यः, आदिशब्दाद् गोशीर्षचन्दनादिना विलेपनीय इत्यादि । क्षेत्रतो भूमिगृहे पक्केष्टकागृहे वाऽयं स्थापनीयः । कालतोऽमुकस्यां वेलायां प्रथमप्रहरादौ भोजनमयं कारणीयः ।
भावतो यदस्य स्वकीयाया इच्छाया अनुलोमम्- अनुकूलं तदेव कर्त्तव्यम्, नास्यज्ञा कोपनीयेति भावः, तथा यत्र 'तस्य' ग्लानस्य विषयाः 'अहिताः' अनिष्टाः क्रन्दित-विलपितादिरूपा गीतवादित्रगोधरा वा शब्दादयो न भवन्ति तत्र स्थापनीय इति शेषः । ' अहवण'त्ति अथवा 'हप्तादिषु' धप्तचित्तप्रभृतिषु प्रतिलोमा क्रिया कर्त्तव्या । तत्र इप्तचित्तस्यापमानना, यथा अपमानादिनाऽ पहृतचित्तस्य दर्पातिरेकज उन्मादः शाम्यति, क्षिप्तचित्तस्यापमानादिपोहृतचित्तस्य सम्मानना; यक्षाविष्टस्य तु यथायोगमपमानना सम्मानना वा विधेया; ज्वरादौ वा रोगे विशोषणादिका क्रिया या यत्र युज्यते सा तत्र विधेयेति ॥
अथ तुलनाद्वारमाह
[भा. १९३०] अपडिहणंता सोउं, कयजोगाऽ लंभि तस्स किं देभो । जहविभवा गच्छा, जा लंभो ताव जूर्हति ॥
वृ-वैद्येन दीयमानमुपदेशम् 'अप्रतिघ्नन्तः' तद्वचनमविकुट्टयन्तः श्रुत्वाऽऽत्मानं तोलयन्तिकिमेतत् कलमशाल्यादिकं लप्स्यामहे न वा ? इति । यदि विज्ञायते 'ध्रुवं लप्स्यामहे' ततो न किमपि भणन्ति । अथ न तस्य ध्रुवो लाभः ततो भणन्ति यथा युष्माभिरुपदेशो दत्तस्तथा वयं योगं करिष्यामः परं यदि कृतेऽपि योगे न लभामहे ततस्तस्य किं दद्मः ? ; अपि च वैद्यकशास्त्रे 'यथाविभवा' विभवानुरूपा चिकित्सा भणिता, यस्य याध्शी विभूतिस्तस्य तदनुरूपैरौषधैः पथ्यैश्च चिकित्सा क्रियते इत्यर्थः; अतो यूयमपि जानीथ, यथा- अस्माकं सर्वमपि याचितं लभ्यते नायाचितम् अतो यदा कलमशाल्यादिकं याच्यमानमपि न प्राप्यते तदा किं तादव्यम् ? इति । एवं वैद्योपदेशमपसर्पयन्तस्तावद् " जूहंति "त्ति देशीशब्दत्वाद् आनयन्ति यावद् यस्य द्रव्यस्य कोद्रव - कूरादेर्भुवः प्रतिदिनभावी लाभो भवतीति ॥
अथ तुलनामेव प्रकारान्तरेणाह
[ भा. १९३१] नियएहि ओसहेहिं, कोइ भणेज्जा करेमऽहं किरियं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org