SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ उद्देशकः १, मूलं-६, [भा. १९२३] ४८५ [भा.१९२३] नंदीतूरं पुन्नस्स, दंसणं संख-पडहसदो य । भिंगार छत्त चामर, एवमादी पसत्थाई॥ वृ-अनयोव्यार्खया प्राग्वत् । [भा.१९२४] आवडणमाइएमुं, चउरो भासा हवंतऽनुग्घाया। एवं ता वच्चंते, पत्ते य इमे भवे दोसा॥ वृ-'आपतनं द्वारादौ शिरसो घट्टनम, आदिशब्दात् प्रपतनं प्रस्खलनं वा सातम्, अपरेण वा वस्त्रादौ गृहीत्वा पश्चान्मुख आकृष्टः, 'कुत्र वा व्रजसि?' इत्यादि भणितः, गच्छतामेव वा केनापि क्षुतम्, एवमादिष्वपशकुनेषु जातेषु यदि गच्छति तदा चत्वारो मासा अनुद्धाता भवन्ति । एवं तावद् व्रजतो मन्तव्यम् । अथ वैद्यगृहं प्राप्तस्ततइमे दोषाः परिहर्तव्या भवन्ति । तानेव प्रतिपादयन् व्यापारद्वारमाह[भा. १९२५]साड-ऽन्भंगण-उव्वलण-लोय-छारु-कुरुडे य छिंद-भिंदंतो। सुहआसण रोगविहिं, उवएसो वा वि आगमणं ।। वृ- एकशाटकपरिधानो यदा वैद्यो भवति तदा न प्रष्टव्यः । एवं दैलादिना अभ्यङ्गनं कल्कलोध्रादिना वा उद्वर्त्तनं लोचकर्म वा-कूर्चमुण्डनादिलक्षणं कारयन्, क्षारस्य-भस्मन उत्कुरुटकस्य कचवरपुञ्जकस्य उपलक्षणत्वाद् बुसादीनां वा समीपे स्थितः, कोष्ठादिकं वा रप्फकादिना वा दूषितं कस्याप्यङ्गं छिन्दानः, घटम् अलाबुकं वा भिन्दानः, शिराया वा भेदं कुर्वाणोनप्रच्छनीयः, अथग्लानस्यापिकिञ्चित्छेत्तव्यंततश्छेदन-भेदनयोरपि प्रष्टव्यः। अथासौ शुभासने उपविष्टः रोगविधि वैद्यशास्त्रपुस्तकंप्रसन्नमुखःप्रलोकयति, अथवा रोगविधि-चिकित्सा तां कस्यापि प्रयुआन आस्ते ततो धर्मलाभयित्वा प्रष्टव्यः । स च वैद्यः पृष्टः सन्नुपदेशं वा दद्याद् ग्लानसमीपे वा आगमनं कुर्यात् ।। अथ सङ्गारश्च गृहिणामिति द्वारं व्याख्यानयति[भा.१९२६] पच्छाकडे य सन्नी, दंसणऽहाभद्द दानसड्डेय। मिच्छद्दिडि संबंधिए अपरतित्थिएचेव॥ वृ- 'पश्चात्कृतः' चारित्रं परित्यज्य गृहवासं प्रतिपन्नः, 'संज्ञी' गृहीतानुव्रतः, "दंसण"त्ति दर्शनसम्पन्नोऽविरतसम्यग्दृष्टिः, 'यथाभद्रकः' सम्यक्त्वरहितः परं सर्वज्ञशासने साधुषु च बहुमानवान्, 'दानश्राद्धः' दानरुचि, 'मिथ्याष्टिः' शाक्यादिशासनस्थः, 'सम्बन्धी ग्लानस्यैव स्वजनः, 'परतीर्थिकः' सरजस्क-परिव्राजकादि परं भद्रकः । एतेषां सङ्केतः क्रियते, यथावैद्यस्यपाइँवयं गच्छामः, भवद्भिस्तत्र सन्निहितैर्भवितव्यम्, यदसौ ब्रूयात्तद्युष्माभिसर्वमपि प्रतिपत्तव्यम् ॥ ये वैद्यसमीपे प्रस्थापितास्ते वैद्यस्येदं कथयन्ति[भा.१९२७] वाहि नियाण विकारं, देसं कालं वयं च धातुंच। ___ आहार अग्गि-धिबल, समुइंच कहितिजा जस्स ॥ वृ-'व्याधि' जरादिकं रोगं 'निदानं’ रोगोत्थानकारणं 'विकारं' प्रवर्द्धमानरोगविशेषं 'देश' ग्लानत्वोत्पत्तिनिबन्धनप्रवात-निवातादिप्रदेशरूपं 'कालं'रोगोत्थानसमयं पूर्वाह्नदिकं 'वयश्च' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy