________________
बृहत्कल्प-छेदसूत्रम् - १-१/६
नागरादिग्रहणमिति । “उण्होदगाइया बुद्धि 'त्ति उपवासं कर्तुमसहिष्णुर्यदिरोगेणामुक्तः पारयति तत एष क्रम - उष्णोदके प्रक्षिप्य क्रूरसिक्थानि अमलितानि ईषन्मलितानि वा सप्त दिनानि एकं वा दिनं दीयन्ते । ततः " किंचि" त्ति उष्णोदके मधुरोल्लणं स्तोकं प्रक्षिप्य तेन सह ओदनं द्वितीये सप्तके दिने वा दीयते । एवं तृतीये " बहु "त्ति बहुतरं मधुरोल्लणं उष्णोदकेप्रक्षिप्य दीयते । "भागि”त्ति चतुर्थे सप्तके दिने वा त्रिभागो मधुरोल्लणस्य द्वौ भागादुष्णोदकस्य, "अद्धे "ति पञ्चमे सप्तके दिने वा अर्द्ध मधुरोल्लस्यार्द्धमुष्णोदकस्य, षष्ठे " ओमि "त्ति त्रिभाग उष्णोदकस्य द्वौ भागौ मधुरोल्लस्य, सप्तमे सप्तके दिने वा "जुत्तं" ति 'युक्तं किञ्चिन्मात्रमुष्णोदकं शेषं तु सर्वमपि मधुरोल्लणमित्येवं दीयते । तदनन्तरं द्वितीयाङ्गैरपि सहापथ्यान्यवगाहिमादीनि परिहरन् समुद्दिशति यावत् पुरातनमाहारं परिणमयतुं समर्थ सम्पन्न इति । एषा उष्णोदकादिका वृद्धिर्द्रष्टव्या । इह च सर्वत्राप्येक दिनं विशेषचूर्णि बृहद्भाष्याभिप्रायेण दिनसप्तकं तु चूर्ण्यभिप्रायणेति मन्तव्यम् ॥ अथ " अट्टम" त्ति पदं व्याख्यानयन्नाह
४८२
[ भा. १९०९] जाव न मुक्को ता अनसनं तु मुक्के वि ऊ अभत्तट्ठो ! असहुस्स अट्ठ छट्ट, नाऊण रुयं व जं जोगं ॥
वृ- यावदसौ ज्वर-चक्षूरोगादिना रोगेण न मुक्तस्तावद् 'अनशनम्' अभक्तार्थलक्षणं कर्तव्यम् । मुक्तेनापि चैकं दिवसमभक्तार्थो विधेयः । अथासावसहिष्णुस्ततोऽष्टमं वा षष्ठं वा करोति । ज्ञात्वा वा 'रुजं' रोगविशेषं यद् यत्र योग्यं शोषणमशोषणं वा तत् तत्र कार्यम् ॥ यद्येवं कुर्वाणानामसौ रोग उपशाम्यति ततः सुन्दरम् अथ नोपशाम्यति ततः को विधिः ?
इत्याह
[ भा. १९१०] एवं पि कीरमाणे, विजं पुच्छे अठायमाणम्मि । विजाण अट्ठगं दो, अनिड्डि इड्डी अनिडियरे ।।
वृ- एवमपि क्रियमाणे यदि रोगो न तिष्ठति-नोपशाम्यति ततस्तस्मिन्नतिष्ठति वैद्यं पृच्छति । अथ कियन्तो वैद्या भवन्ति ? इत्याह- वैद्यानां खल्वष्टकं मन्तव्यम् । तत्र द्वौ वैद्यौ नियमाद् 'अनृद्धिकौ' ऋद्धिरहिती, 'इतरे' षड् वैद्या ऋद्धिमन्तो अनृद्धिमन्तो वा ॥
तदेव वैद्याष्टकं दर्शयति[भा. १९११]
संविग्गमसंविग्गे, दिट्ठत्थे लिंगि सावए सन्नी ।
अस्सन डि गइरागई य कुसलेण तेगिच्छं ॥
वृ- 'संविग्नः' उद्यतविहारी १ 'असंविग्नः तद्विपरीतः २ 'लिङ्गी' लिङ्गावशेषमात्रः ३ 'श्रावकः' प्रतिपन्नाणुव्रतः ४ 'संज्ञी' अविरतसम्यग्दृष्टि ५ 'असंज्ञी' मिथ्यादृष्टि, स च त्रिधा -अनभिगृहीतमिध्यादृष्टि ६ अभिगृहीतमिध्याधष्टि ७ परतीर्थिकश्चेति ८ । “इड्डी गइरागई कुसले" त्ति व्याख्यातार्थम् ॥
अनन्तरोक्तक्रमविपर्यासे प्रायश्चित्तमाह
[ भा. १९१३] वोचत्थे चउलहुगा, अगीयत्थे चउरो मासऽनुग्घाया । चउरीय अनुग्घाया, अकुसलें कुलसेण करणं तु ।।
वृ-संविग्नगीतार्थं मुक्त्वा असंविग्नगीतार्थेन कारयति एवमादिविपर्यस्तकरणे चत्वारो लघवः ।
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International