________________
४८१
उद्देशक : १, मूलं-६, [भा. १९०४] द्रव्यमुत्पाद्यस्थापयेत् । ये तु ग्लानस्य प्रतिचरकास्ते यदि ग्लानकार्यव्यापृताः परक्षेत्रं वा व्रजन्तः स्वार्थमहिण्डमाना न संस्तरन्ति तत एषणादिदोषेषु पञ्चकपरिहाणियतनया गृह्णन्ति ।।
यत् तद् ग्लानार्थ रिवास्यते तत् कीशे स्थाने स्थाप्यते? इत्याह[भा.१९०५]उव्वरगस्स उ असती, चिलिमिणि उभयं च तं जह न पासे ।
__ तस्सऽसइ पुराणादिसु, ठविति तदिवस पडिलेहा ।। दृ- कृतयोगिना गीतार्थेन वा तद् अन्यस्मिन् गृहापवरके स्थापनीयम् । अथ नास्ति पृथगपवरकस्ततो वसतावेव योऽपरिभोग्यः कोणकस्तत्र चिलिमिलिकया आवृत्त्य 'उभयं' ग्लाना-ऽगीतार्थलक्षणं यथा न पश्यति तथा स्थाप्यम् । यदि ग्लानस्ततपश्यतितदास यदा तदा तस्याभ्यवहारं कुर्यात् । अगीतार्थस्य तु तद् दृष्ट्वा विपरिणामा-ऽप्रत्यवादयो दोषा भवेयुः । "तस्सऽसइ"त्ति 'तस्य' अपरिभोग्यस्थानस्याभावे पुराणः-पश्चात्कृतस्तस्य गृहे दिशब्दाद् मातापितृसमानेषु गृहेषु स्थापयन्ति । तस्य च तत्र स्थापितस्य तद्दिवसं प्रत्युपेक्षणा कर्त्तव्या । तद्दिवसं नाम प्रतिदनम् । यदुक्तं देश्याम्-तदिवसं अनुदिअहे इति ॥
अथ “आनेउं दोहि वी कुजा" इत्यस्यव्याख्यानमाह[भा.१९०६] फासुगमफासुगेण व अचित्तेतर परित्तऽनंतेनं ।
आहार-तद्दिनेतर, सिहेण इअरेण वा करणं । वृ-प्राशुकेन अप्राशुकेन वा अचित्तेन 'इतरेण वा' सचित्तन परीत्तेन अनन्तेन वा आहारेण अनाहारेण वा तदैवसिकेन 'इतरेण वा परिवासितेन सस्नेहेन 'इतरेण वा अस्नेहेन ग्लानस्य चिकितसायाः करणमनुज्ञातम ।।
गता ग्लानानुवर्तना । अथ वैद्यानुवर्तनामभिधित्सुः प्रस्तावना रचयत्राह[भा.१९०७] विजं न चैव पुच्छह, जाणंता बिति तस्स उवदेसो।
दट्ठ-पिलगाइएसुव, अजानगा पुच्छए विघ्नं ।। वृ ग्लानो ब्रूयात्-यूयं वैद्यं नैव पृच्छथ, आत्मच्छन्देनैव प्रतिचरणं कुरुथ । ततो यदि साधवो जानन्तःचिकितिसायां कुशलास्ततो ब्रुवते अस्माद्यः प्रागेव पृष्टस्तस्यैवायमुपदेश इति । यद्वा प्रतिश्रयात्रिर्गत्य किनयन्तमपिभूमागंगत्वा मुहूर्तमात्रंतत्र स्थित्वासमागत्यब्रुवते-अयंवैद्येनोपदेशो दत्त इति । तथा दष्टं-सर्पडङ्गः पिलग-गण्डःआदिग्रहणेन शीतलिका दुष्टवातो वेत्यादिपरिग्रहः, एतेष्वपि यदि ज्ञास्ततः स्वमेव कुर्वन्ति । अथाज्ञास्ततो वैद्यं पृच्छन्ति ।
अत्र शिष्यः पृच्छति[भा.१९०८] किह उप्पन्नो गिलाणो, अट्ठम उण्होदगाइया वुड्डी ।
किंचि बहु भागमद्धे, ओमे जुत्तं परिहरंतो॥ वृ'कथं ?' केन हेतुना ग्लान उत्पन्नः? इति । सूरिराह-भूयांसः खलु रोगातक्रा यदशाद् ग्लानत्वमुपजायते । तत्र “शुष्यतस्त्रीणि शुष्यन्ति, चक्षुरोगो ज्वरो व्रणः ।" इति वचनाद्यदि ज्वरादिको विशोषणसाध्यो रोगः ततो जघन्येनाप्यष्टमं कारयितव्यः । यच्च यस्य रोगस्य पथ्यं तत् तस्य कार्यम्, यथा-वातरोगिणो घृतादिपानं पित्तरोगिणः शर्करायुपयोजनं श्लेष्मरोगिणो [1831
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org