________________
४८०
बृहत्कल्प-छेदसूत्रम् -१-१/६ ___असंथरनेसणमादी, छन्नं कडजोगि गीयत्थे ॥ वृ-प्रथमतस्तत्रैव ग्रामे ग्लानप्रायोग्यमन्वेषणीयम् । तत्र यदि न लभ्यते तदाऽन्यग्रामेऽपि । अथासावन्यग्रामो दूरतरस्ततः “वुत्थंतर"त्ति 'अन्तरा' अपान्तरालग्रामे उषित्वा द्वितीये दिने आवयन्ति । अथैवमप्यसंस्तरणं भवति ततः “संथरंत जयणाए"त्ति अकारप्रश्लेषादसंस्तरतोग्लानस्यार्थाय 'यतनया' पञ्चकपरिहाण्या गृह्णन्ति । अथ ग्लानार्थंव्यापूतानांप्रतिचरकाणामसंस्तरणं ततः “एसमाइ"त्ति एषणादोषेषु आदिशब्दाद् उद्गमादिदोषेषु च पञ्चकपरिहाम्या यतितव्यम् । अथ प्रतिदिवसं ग्लाननायोग्यं न लभ्यते ततः 'छन्नम्' अप्रकटं कृतयोगी गीतार्थो वा तत्यायोग्यं द्रव्यं परिवासयति । इह आकर्णितच्छेदश्रुतार्थ प्रत्युच्चारणाऽसमर्थ कृतयोगी । यस्तु च्छेदश्रुतार्थं श्रुत्वा प्रत्युच्चरयितुमीशः स गीतार्थ उच्यते । एष द्वारगाथासमासार्थः ।।
अथैनामेव विवरीषुराह[भा.१९०३] पडिलेह पोरुसीओ, वि अकाउं मग्गणा उ सग्गामे।
खित्तंतो तद्दिवसं, असइ विणासे व तत्थ वसे ।। वृ-अपिशब्दः सम्भावनायाम् । यदि सुलभं द्रव्यं ततः प्रत्युपेक्षणां सूत्रार्थपौरुष्यौ च कृत्वा स्वग्रामेऽनवभाषितस्य मार्गणा कर्त्तव्या। अथैवंन लभ्यते ततोऽर्थपौरुषीं हापयित्वा, यद्येवमपि न लभ्यते ततः सूत्रपौरुषी परिहाप्योत्पादनीयम् । अथ तथापिन लभ्यते दुर्लभं वा तद् द्रव्यं ततः प्रत्युपेक्षणां द्वे अपिच पौरुष्यौ अकृत्वा स्वग्रामेऽनवभाषितं मार्गयन्ति। अथ स्वनामेऽनवभाषितं नलभ्यते ततः क्षेत्रान्तः' सक्रोशयोजनक्षेत्राभ्यन्तरेपरग्रामे पौरुषीद्वयमपिकृत्वा अनवभाषितमुत्पादयन्ति, अत्राप्यर्थपौरुष्यादिहापना तथैव द्रष्टव्या अथ तत्राप्यनवभाषितं न लभ्यते ततः स्वक्षेत्रे स्वग्राम-परग्रामयोरवभाषितमुत्पाद्य तद्दिवसमानयन्ति । अथ स्वक्षेत्रे तद्दिवसं न प्राप्यते ततः परक्षेत्रादपितद्दिवसमानेतव्यम्।अथ क्षेत्रबहिर्वतिनो यतो ग्रामादेरानीयते तद्न प्रत्यासन्नं किन्तु दूरतरं न तद्दिवसं गत्वा ततः प्रत्यायातुं शक्यते, विनाशि वा तद् द्रव्यं दुग्धादिकम्; ततः प्रत्यासन्नग्रामस्यासति विनाशिनिवा द्रव्ये ग्रहीतव्ये अपराह्ने गत्वा तत्र रात्रौ वसेत्, उषित्वा च सूर्योदयवेलायां गृहीत्वा द्वितीये दिने तत्रानयन्ति । अथ दवीयस्तरं तत् क्षेत्रमविनाशि द्रव्यं च ग्रहीतव्यम्ततोऽपान्तरालग्रामेरजन्यामुषिताः सूर्योदयेतवगत्वा तद्रव्यंगृहीत्वा भूयः समागच्छन्ति।
एतदेवाह[भा.१९०४] खित्तबहिया व आने, विसोहिकोडिं वतिच्छितो काढे।
पइदिवसमलभंते, कम्मं समइच्छिओ ठवए । वृ-क्षेत्रबहिर्वा गत्वा प्रथममनवभाषितं ततोऽवभाषितं पूर्वं तद्दिवसे ततो द्वितीयेऽपि दिवसेऽनन्तरोक्तया नीत्या यथायोगमानयेत् । एष विधिरेषणीयविषयो भणितः । अथैषणीयेन नासौ ग्लानः संस्तरतिततः सक्रोशयोजनक्षेत्रस्यान्तः स्वग्राम-परग्रामयोः पञ्चकपरिहाण्यातदप्राप्ती क्षेत्रबहिरपि पञ्चकपरिहाण्या तद्दिवसं ग्लानप्रायोग्यमुत्पादयन्ति । एवं यदा प्रायश्चित्तानुलोम्येन क्रीतकृताऽभ्याहृतादिका विशोधिकोटी व्यतिक्रान्तो भवति तदा “काढि''त्ति ग्लानयोग्यमौषधादिकमन्येन स्वयं वायतनयाक्वाथयेत्। एवं प्रतिदिवसमसमलम्यमाने यदा आधाकर्मापि समतिक्रान्तो भवति, तदपिप्रतिदिवसं न प्राप्यत इत्यर्थः, ततो विशुद्धमविशुद्धं वा ग्लानप्रायोग्यं
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only