________________
बृहत्कल्प-छेदसूत्रम् - १-१/६
वृ- क्षेत्रोद्वेजनादोषेण ग्लानप्रायोग्यमलभामाना यदि प्राशुकमवभाषन्ते परिवासयन्ति वा ततश्चत्वारो लघुकाः । अथाप्राशुकमवभाषन्ते परिवासयन्ति वा ततश्चत्वारो गुरुकाः । इह च प्राशुकमेषणीयम् अप्राशुकमनेषणीयम् । आह च निशीथचूर्णिकृत् इह फासुगं एसणिजं ति । अचित्ते अवभाष्यमाणे परिवास्यमाने वा चतुर्लघु। सचित्ते चतुर्गुरु । एवं परीत्ते चतुर्लघु । अनन्ते चतुर्गुरु । अस्नेहे चतुर्लघु । सस्नेहे चतुर्गुरु । अनाहारे चतुर्लघु । आहारे चतुर्गुरु ॥। उक्तं द्रव्यनिष्पन्नं प्रायश्चित्तम् । अथ क्षेत्रनिष्पन्त्रमाह
४७८
[भा. १८९३ ] लुद्धस्सऽ बभंतरतो, चाउम्मासा हवंति उग्घाता । बहिया य अनुग्घाया, दव्यालंभे पसज्जणया ॥
वृ- उत्कृष्टद्रव्यलोभेन क्षेत्रमुद्वेजयतो लुब्धस्य क्षेत्राभ्यन्तरतो ग्लानप्रायोग्येऽलभ्यमाने चत्वारो मासा उद्धाताः । क्षेत्रसय बहिरलभ्यमाने त एव चत्वारो मासाः 'अनुद्धाताः' गुरवः । अत्र च ग्लानप्रायोग्यस्य द्रव्यस्यालाभे 'प्रसजना' प्रायश्चित्तस्य वृद्धि प्राप्नोति ॥ कथम् ? इत्याह[ भा. १८९४] खेत्तबहि अद्धजोअण, वुड्डी दुगुणेण जाव बत्तीसा ! गुरुगादी चरिमं, खेत्ते काले इमं होइ ॥
वृ- क्षेत्राद् बहिरर्द्धयोजनं गत्वा ततो यदि ग्लानप्रायोग्यं द्रव्यमानयति तदा चतुर्गुरव एव । योजनादानयति षड् लघवः । योजनद्वयादानयति षड् गुरवः | योजनचतुष्टयादानयति च्छेदः । योजनाष्टकादानयति मूलम् । योजनषोडशकादानयति अनवस्थाप्यम् । द्वात्रिंशद् योजनानि गत्वा ग्लानप्रायोग्यमानयति पाराञ्चिकम् । अत एवाह- क्षेत्रबहिरर्द्धयोजनादारभ्य द्विगुणेन परिमाणेन क्षेत्रस्य वद्धिस्तावत् कर्त्तव्या यावद् द्वात्रिंशद् योजनानि । एषु च चतुर्गुरुकादिकं 'चरमं' पाराञ्चिकं यावत् प्रायश्चित्तम् । इत्थं क्षेत्रविषयं प्रायश्चित्तमुक्तम् । 'काले' कालविषयम् 'इदं' वक्ष्यमाणं भवति ॥
तत्र तावत् प्रकारान्तरेण क्षेत्रनिष्पन्नमेवाह
[भा. १८९५] अंतो बहिं न लब्भइ, ठवणा फासुग महय मुच्छ किच्छ कालगए । चत्तारि छ च लहु-गुरु, छेदो मूलं तह दुगं च ॥
वृ- क्षेत्रस्यान्तर्वा बहिर्वा ग्लानप्रायोग्यं न लभ्यत इति कृत्वा प्राशुकस्य 'स्थापनां' परिवासनां करोति चतुर्लघु । तेन परिवासितेन भक्तेन ग्लानो यद्यनागाढं परिताप्यते ततश्चतुर्गुरुकम् । महतीं दुःखासिकामाप्नोति षड्लघु । मूर्च्छामूर्च्छ षड्गुरु । कृच्छ्रप्राणे च्छेदः । कृच्छोच्छ्वासे मूलम् । समवहते- मारणान्तिकसमुद्धातं कुर्वाणे ग्लानेऽनवस्थाप्यम् । कालगते पाराञ्चिकम् ।। अथ कालनिष्पन्नमाह
[भा. १८९६ ] पढमं राइ ठविते, गुरुगा बिइयादिसत्तिहिं चरिमं । परितावणाइ भावे, अप्पत्तिय-कूवणाईया ।।
वृ- प्रथमां रात्रिं परिवासयतश्चतुर्गुरुकाः । द्वितीयां रात्रिमादौ कृत्वा सप्तभी रात्रिभिश्चरमम् । तद्यथा-द्वितीयां रजनीं परिवासयति षड् लधवः, तृतीयस्यां षड् गुरवः, चतुर्थ्यां छेदः, पञ्चम्यां मूलम्, षष्ठयामनवस्थाप्यम्, सप्तम्यां पाराञ्चिकम् । अथ भावनिष्पन्नमाह-'परितावणाइ" इत्यादि पश्चार्द्धम् । परितापनादि भावनिष्पन्नं मन्तव्यम् । तथा स परितापितः सन्नप्रीतिकं करोति चतुर्लघु,
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International