________________
४७७
उद्देशक : १, मूलं-६, [भा. १८८७]
सर्वस्य सर्वकार, स्वार्थविघाती परस्य हितकारी ।
सर्वस्य च विश्वासी, मूर्यो यो नाम विज्ञेयः॥ एवं तत्रतस्य भणतस्त्रिविधं प्रायश्चित्तं भवति । तद्यथा-यद्याचार्य एवं ब्रवीति ततश्चतुर्गुरु, उपाध्यायो ब्रवीति चतुर्लघु, भिक्षुर्ब्रवीति मासगुरु ।। अथापमानद्वारमाह[मा.१८८८] भत्तादिसंकिलेसो, अवस्स अम्हे वि तत्थ न तरामो।
काहिंति केत्तियाणं, तेणं चिय तेसु अन्ना ।। कृतथैव ग्लानं श्रुत्वा केचिद्भणन्ति-व्रजामोग्लानप्रतिजागरणार्थम् । अपरेब्रुवते-तत्राऽन्येऽपि ग्लानं श्रुत्वा बहवः प्रतिचारकाः समाया भविष्यन्ति ततो महान् भक्त-पानादिसंक्लेशो भविता, 'अवश्यम्' असन्दिग्धं वयमपितत्र गताः 'नतरामः' न निर्वहामः, ग्लानप्रतिचारणार्थमागतानां कियतां वा ते वास्तव्या विश्रामणादि प्राघूर्णककर्म करिष्यन्ति ? यतः ते 'तेनैव' ग्लानेन 'तेषु' कार्येषु अद्दनाः' आकुलीभूताः॥ [भा.१८८९] अम्हेहि तहि गएहिं, ओमाणं उग्गमाइणो दोसा ।
एवं तत्थ भणंते, चाउम्मासा भवे गुरुगा ।। वृ-तथा-अस्माभिरपि तत्र गतैर्नियमाद् ‘अवमानम्' अवमम् 'उद्गमदोषाश्च' आधाकर्ममिश्रजातप्रभृतयः आदिशब्दादेषणादोषाश्च भविष्यन्ति । एवं तत्र तेषां भणतां चत्वारो मासा गुरुका भवेयुः।
अथ लुब्धद्वारमाह[भा.१८९०] अम्हे मो निज्जरट्ठी, अच्छह तुब्भे वयं से काहामो।
अस्थि य अभाविया णे, ते विय नाहिति काऊण ।। वृ- मासकल्पस्थितैः साधुभिः श्रुत्, यथा-अमुकत्र ग्रामे ग्लानः सञ्जातोऽस्ति । तच्च क्षेत्रं वसति-पानक-गोरसादिभि सर्वैरपि गुणैरुपेतम्, ततस्ते लोभाभिभूतचेतसश्चिन्तयन्ति'ग्लानमिषमन्तरेण न शक्यते क्षेत्रमिदं प्रेरयितुम्, अतो गच्छामो वयम्' इति चिन्तयित्वा तत्र गत्वा भणन्ति-वयं 'निर्जरार्थिनः' ग्लानवैयावृतत्यकरणेन कर्मक्षयमभिलषमाणा इहायाताः स्मः, अतो यूयं तिष्ठथ वयं "से" तस्य ग्लानस्य वैयावृत्यं करिष्यामः, सन्ति चास्माकमभाविताः शैक्षास्तेऽपि चास्मान् वैयावृत्त्यं कुर्वतो दृष्टवा ज्ञास्यन्ति ।। [भा.१८९१] एवं गिलाणलक्खेण संठिया पाहुण त्ति उक्कोसं ।
मग्गंता चमढिंती,तेसिं चारोवणा चउहा॥ वृ-एवं ग्लानसम्बन्धि यद् लक्ष्यं-मिषं तेन तत्र संस्थिताः सन्तः प्राधूर्णका इति कृत्वा लोकाद् 'उत्कृष्टं' स्निग्ध-मधुरद्रव्यं लभन्ते, अथ न स्वयं लोकः प्रयच्छति ततः ‘मार्गयन्तः' 'प्राधूर्णका वयम्' इति मिषेमावभाषमाणास्तत् क्षेत्रं चमढयन्ति, चमढिते च क्षेत्रे ग्लानप्रायोग्यं न लभ्यते ततस्तेषामियं चतुर्विधाऽऽरोपणा कर्त्तव्या। तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतश्च ।।
तत्र द्रव्यतस्तावदाह[भा.१८९२] फासुगमफासुगेवा, अचित्त चित्ते परित्तऽनंते य।
असिनेह-सिनेहकए, अनहारा-55हार लहु-गुरुगा ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org