________________
उद्देशक : १,मूलं-६, (भा. १८६१]
४७१
[भा.१८६१] का भयणा जइ कारणि, जयणाए अकप्प किंचि पडिसेवे ।
तो सुद्दो इहरा पुन, न सुज्झए दप्पओ सेवं ।। वृका पुनः ‘भजना?' विकल्पना? । सूरिराह-कारणे यतनया पुरःकर्मादि किञ्चिदकल्प्यं यदि प्रतिसेवेत ततः शुद्धः । इतरथा पुनः' अयतनया दर्पतो वा सेवमानो न शुध्यति ।
अथ पुरःकर्मवर्जने कारणमुपदर्शयति[भा.१८६२] समणुनापरिसंकी, अवि य पसंगं गिहीण वारिता ।
गिण्हंति असढभावा, सुविसुद्धं एसियं समणा ।। वृ-समनुज्ञा नाम-पुरःकर्मकृतंगृह्णतामप्कायविराधनानुमतिस्तत्परिशङ्किनः-तद्दोषभीताः पुरःकर्म परिहरन्ति । अपिच यदिपुरःकर्मकृतांभिक्षांग्रहीष्यामस्ततो गृहिणां भूयःपुरःकर्मकरणे प्रसङ्गो भवति अतस्तं 'वारयन्तः' तद्ग्रहणेनार्थात् प्रतिषेधयन्तोऽशठभावाः सन्तः श्रमणाः सुविशुद्धमेषणीयं गृह्णन्ति।
अथ हस्तद्वारं विवृणोति[भा.१८६३] किं उवघातो हत्थे, मत्तेदव्वे उदाहु उदगम्मि।
तिन्नि वि ठाणा सुद्धा, उदगम्मिअनेसणा भणिया॥ वृ-शिष्यः प्रश्नयति-पुरःकर्मणि कृते किं हस्ते 'उपधातः' अनेषणीयता ? उत मात्रके ? आहोश्चिद् द्रव्ये ? उताहो उदके ? । सूरिराह-हस्त-मात्रक-द्रव्याणि त्रीण्यपि स्थानानि 'शुद्धानि'नैतान्यनेष-णीयानि, किन्तूदकेऽनेषणीयता भणिता ।। अत्रीपपत्तिमाह[भा.१८६४] जम्हा तु हत्थ-भत्तेहि कप्पती तेहि चेव तं दव्वं ।
अत्तट्ठिय परिभुत्तं, परिणत तम्हा दगमनेसिं॥ वृ-यस्मात्ताभ्यामेव हस्त-मात्रकाभ्यांतदेवद्रव्यमात्मार्थितसत्परिमुक्तशेषवापरिणतेऽकाये कल्पते, तस्मादुदकमेबानेषणीयं न हस्त-मात्रक-द्रव्याणीति ॥
एवमशनादिविषयो विधिरुक्तः । सम्प्रति। नियुक्तिगाथया वस्त्रविषयं तमेवाह[भा.१८६५] कि वा उवघातो धोए, स्ते चोक्खे सुइम्मि व कयम्मि ।
अत्तट्ठिय संकामिय गहणं, गीयत्थ संविग्गे ।। वृ. 'धौतं' मलिनं सत् प्रक्षालितम्, 'रक्तं' धातुप्रभृतिभिर्द्रव्यै रक्तीकृतम्, 'चोक्खं' रजकपाश्र्वादतीवोज्ज्वलं कारितम्, 'सुचिकम्' अशुच्यादिनोपलिप्तं सत् पवित्रीकृतम्, एतानि साध्वधू वस्त्रे कृतानि भवेयुः । ततश्च शिष्यः पृच्छति-किं धौते उपघातः? उत रक्ते ? उताहो चोक्खे? आहोश्चित् शुचीकृते? |अत्रापि तदेव निर्वचनम्, नैतेषांचतुर्णामेकतरस्मिन्नप्युपघातः, । किन्तूदक एव । यत एतदपि साधुना प्रतिषिद्धं सद् यद्यात्मार्थितं सङ्क्रामितं वा अन्यस्मै दत्तं ततो गीतार्थसंविग्नस्य ग्रहणं भवति नान्यस्य ।। किमर्थमेतद् ग्रहणम् ? इति चेद् उच्यते. [भा.१८६६] गीयत्थग्गहणेणं, अत्तट्ठियमाइ गिण्हई गीतो।
संविग्गग्हणेणं,तंगिण्हतो वि संविग्गो॥ वृ-गीतार्थग्रहणेनैतद् ज्ञाप्यते-आत्मार्थितं सङ्क्रामितं वा गीतार्थो गृह्णाति नागीतार्थ :! संविग्नग्रहणेन तु-'तद् आत्मार्थितादिकं गृह्णन्नपि 'संविग्नः' मोक्षाभिलाष्येव असौ नासंविग्न Jain Education International
For Private & Personal Use Only
www.jainelibrary.org