________________
४७२
इति सूच्यते ॥ उत्स्पर्शनद्वारं व्याचष्टे - [भा. १८६७ ]
बृहत्कल्प - छेदसूत्रम् - १- १/६
एमेव य परिभुत्ते, नवे य तंतुग्गए अधोयम्मि । उप्फुसिऊणं देंते, अत्तट्ठिय सेविए गहणं ॥
वृ- यद् वस्त्रं गृहिणा परिधानादिना परिमलितं तत् परिभुक्तं भण्यते, तद्विपरीतं नवं-तन्तुभ्य उद्गतमात्रम् । ततः परिभुक्तं वा नवं वा तन्तूद्गतमधौतं सद् यद् 'उत्स्पृश्य' उदकेनाभ्युक्षणं दत्त्वा ददाति तत्राप्येवमेव द्रष्टव्यम्, न कल्पत इत्यर्थः । अथात्मार्थितमात्मना वा सेवितं परिभुक्तं ततो ग्रहणं कर्त्तव्यम् ॥
अथ विनेयानुग्रहार्थं प्रसङ्गतः पश्चात्कर्मण्यपि विधिमाह
[भा. १८६८ ]
समस, य सावसेसे य निरवसेसे य । हत्थे मत्ते दव्वे, सुद्धमसुद्धे तिगट्ठाणा ॥
वृ- इह भिक्षादातुः सम्बन्धी हस्तः संसृष्टो वा भवेदसंसृष्टो वा, येन च कांस्थिकादिना मात्रकेण भिक्षां ददाति तदपि संसृष्टमसंसृष्टं वा, द्रव्यमपि सावशेषं वा स्यान्निरवशेषं वा; अतः संसृष्टाऽ संसृष्ट- सावशेष - निरवशेषपदैर्हस्त-मात्रक द्रव्यविषयैरष्टौ भङ्गा भवन्ति । तद्यथा-संसृष्टये हस्तः संसृष्टं मात्रकं सावशेषं द्रव्यं १ संसृष्टो हस्तः संसष्टं मात्रकं निरवशेषं द्रव्यं २ संसृष्टो हस्तोऽसंसृष्टं मात्रकं सावशेषं द्रव्यं ३ संसृष्टये हस्तोऽसंसृष्टं मात्रकं निरवशेषं द्रव्यं ४, एवमसंसृष्टेनापि हस्तेन चत्वारो भङ्गाः प्राप्यन्ते ८ । एतस्यामष्टभङ्गयां यानि ' त्रीणि स्थानानि' हस्तमात्रक - द्रव्यरूपाणि तैर्यत्र पश्चात्कर्मदोषो न भवति ते भङ्गकाः शुद्धा इतरे अशुद्धाः ॥
अमुमेवार्थं स्पष्टयति
[ भा. १८६९ ]
पढमे भंगे गहणं, सेसेसु य जत्थ सावसेसं तु । अन्ने उ अग्गहणं, अलेव-सुक्खेसु ऊ गहणं ॥
वृ- अस्यामष्टभङ्गयां यः प्रथमो भङ्गस्त्रिभिरपि पदैः शुद्धस्तत्र ग्रहणं भवति । शेषेष्वपि भङ्गकेषु यत्र सावशेषं द्रव्यं भवति तत्र ग्रहीतुं कल्पते, पश्चात्कर्मासम्भवात् । 'अन्येषु' निरवशेषपदयुक्तेषु भङ्गकेष्वग्रहणम्, न कल्पते ग्रहीतुमिति भावः । इयमत्र भावना-इहहस्तो मात्रकं वा द्वे वा स्वयोगेन संसृष्टे वा भवतामसंसृष्टे वान तद्वशेन पश्चात्कर्म सम्भवति, किं तर्हि ? द्रव्यवशे । तथाहि-यत्र द्रव्यं सावशेषं तत्रैते साध्यर्थं खरण्टिते अपि न दात्री प्रक्षालयति, भूयोऽपि परिवेषणसम्भवात्; यत्र तु निरवशेषं द्रव्यं तत्र साधुदानानन्तरं नियमतो हस्तं मात्रकं वा प्रक्षालयति । ततो द्वितीयादिषु समेषु भङ्गेषुपश्चात्कर्मसम्भवान्न कल्पते, प्रथमादिषु तु भङ्गेषु तदसम्भवात् कल्पते ग्रहीतुमिति । यदि चैतेष्वपि यद् 'अलेपकृतं' सक्तु-भण्डकादि यच्च 'शुष्कं ' सप्रसङ्गं पुरः कर्मद्वारम् । अथ ग्लान्यद्वारं बिभावयिषुराह
[भा. १८७० ]
सासउवस, सग्गामे परउवस्सए चेव । खेत्तंतो अन्नगामे, खेत्तबहि सगच्छ परगच्छे || [भा. १८७१] सोऊण ऊ गिलाणं, उम्मग्गं गच्छ पडिवहं वा वि । माओ वा मग्गं, संकमई आणमाईणि ॥
वृ- स्वग्रामे स्वोपाश्रये तिष्ठता श्रुतम्, यथा- अमुकन्त्र ग्लान इति, स्वग्रामे वा परेषां साधूनामुपाश्रये
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org