________________
४७०
बृहत्कल्प-छेदसूत्रम् - १-१/६ घास प्रथमभङ्गे साधर्गृह्णतोऽपि यदि न भवति, एवं 'खुः' अवधारणे पुरः कर्मकृतः कर्मबन्धो दायकग्राहकयोरस्थितस्तटस्थ एव तिष्ठति, यथा लोके ब्रह्मवध इति । इमं लोइयं उदाहरणंइंदे उडंकरिसिपत्ती रूववती दिट्ठा । तओ अज्झोववन्नो तीए समं अहिगमं गतो सो तओ निग्गच्छंतो रिसिणा दिट्ठो | रुट्टेण रिसिणा तस्स सावो दिन्नो । जम्हा तुमे अगम्मा रिसिपत्ती अभिगया तम्हा ते बंभवज्झा उवट्टिया । सो तीए भीओ कुरुखेत्तं पविट्ठो। सा बंभवज्झा कुरुखेत्तस्स पासओ भमइ । सो वि तओ तब्भया न नीति । इंदेन विना सुन्नं इंदट्ठाणं । ततो सव्वे देवा इंदं मग्गमाणा जाणिऊण कुरुखेत्ते उवट्ठिया भणंति- एहि, सणाहं कुरु देवलोगं । सो भणइ-मम इओ निग्गच्छंतस्सबंभवज्झा लग्गइ। तओ सा देवेहिं बंभवज्झा चउहा विहत्ता-एको विभागो इत्थीणं रिउकाले ठिओ, बिइओ उदगे काइयं निसिरंतरस, तइओ बंभणस्स सुरापाणे, चउत्थो गुरुपत्तीए अभिगमे । सा बंभवज्झा एएसु ठिया । दंडो वि देवलोगं गओ । एवं तुब्भं पि पुरेकम्मकओ कम्मबंधदोसो ब्रह्महत्यावद् वेगलो भवति ।। पर एवाह
[ भा. १८५७ ] संपत्तीइ वि असती, कम्मं संपत्तिओ वि य अकम्पं । एवं खु पुरेकम्मं, ठवणामित्तं तु चोएइ ॥
वृ- यदि सम्प्राप्तावसत्यामपि द्वितीयभङ्गे साधोः पुरः कर्म भवति, सम्प्राप्तावपि च प्रथमभङ्गे यदि 'अकर्म' पुरः कर्म न भवति, ततः एवं 'खुः' अवधारणे इत्थमेव मदीयमनसि प्रतिष्ठितं यदेतत् पुरः कर्म तत् स्थापनामात्रमेव, तुशब्दस्यैवकारार्थत्वात् प्ररूपणामात्रमेवेदमिति 'नोदयति' प्रेरयति । अत्रोच्यते यत् तावदुक्तम्- "एवं पुरः कर्मकृतः कर्मबन्धस्तटस्थ एव तिष्ठति' तत्र तिष्ठतु नाम, न काचिदस्माकं क्षतिरुपजायते, तथा चात्र स्वदुक्तमेव दृष्टान्तमनूद्यास्माभि स्वाभिमतमर्थं साधयितुमिदमुच्यते
[ भा. १८५८ ]
इंदेन बंभवञ्झा, कया उ भीओ अ तीए नासंतो । तो कुरुखेत्तपविट्टो, सावि बहि पडिच्छए तं तु ॥
[ भा. १८५९ ] निग्गय पुनो वि गिण्हे, कुरुखेत्तं एव संजमो अम्हं ! जाहे ततो नीइ जीवो, घेप्पइ तो कम्मबंधेणं ॥
वृ- इन्द्रेण ब्रह्महत्या कृता, ततो भीतः सन् तस्या नश्यन् कुरुक्षेत्रं प्रविष्टः । साऽपि ब्रह्महत्या 'तम्' इन्द्रं बहि प्रतीक्षते । यद्यसौ कुरुक्षेत्रान्निर्गच्छति ततो निर्गतं तमिन्द्रं पुनरपि ब्रह्महत्या गृह्णाति । एवमस्माकमपि संयमः कुरुक्षेत्रम्, कर्मबन्धस्तु ब्रह्महत्यास देशः, ततो यदा संयमकुरुक्षेत्राद् द्वितीय-तृतीयभङ्गयोरशुभाध्यवसायपरिणतो जीवो निर्गच्छति ततो गृह्यतेऽसौ कर्मबन्धेन ब्रह्महत्याकल्पेन, अनिर्गतस्तु प्रथम- चतुर्थभङ्गयोर्न गृह्यते ॥ यच्चोक्तम्- “स्थापनामात्रं पुरः कर्म" तदपि न सङ्गच्छते, कुतः ? इति चेद् उच्यते
[भा. १८६०]
जे जे दोसाययणा, ते ते सुत्ते जिनेहि पडिकुट्ठा । ते खलु अमायरंतो, सुद्धो इहरा उ भइयव्वो ।
वृ-यानि यानि दोषाणां प्राणातिपातादीनामायतनानि-स्थानानि पुरः कर्मप्रभृतीनि तानि तानि सूत्रे 'जिनैः ' भगवद्भिः 'प्रतिक्रुष्टानि' निषिद्धानि । अतः 'तानि खलु' दोषायतनानि अनाचरन् साधुः शुद्धो मन्तव्यः । इतरथा तु' समाचरन् 'भक्तव्यः' विकल्पयितव्यः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org