________________
उद्देशक : १, मूलं - ६, [ भा. १८५१]
दाहं ति पडिनियत्ते, तस्स व अन्नस्स व न कप्पे ॥
वृ- पुरः कर्मणि कृते प्रतिषिद्ध दायको यदि भणेत् अन्यस्मै साधवे दास्यामीति । ततः प्रतिनिवृत्तस्य तस्य वा अन्यस्य वा न कल्पते । तथा
[ भा. १८५२ ] भिक्खयरस्सऽनस्स व, पुव्वं दाऊण जइ दए तस्स । सो दाया तं वेलं, परिहरियव्वो पयत्तेणं ॥
वृ- पुरः कर्मणि कृते पूर्वमन्यस्य भिक्षाचरस्य भिक्षां दत्त्वा पश्चादच्छिन्नव्यापारः तस्य' साधोर्भिक्षां दद्यात् स दाता तस्यां वेलायां प्रयत्नेन परिहर्त्तव्य इति ।
अमुमेवार्थं किञ्चिद्विशेषयुक्तमाह
४६९
[ भा. १८५३ ] अत्रस्स व दाहामी, अन्नस्स व संजमस्स न वि कप्पे । अत्तट्ठिए व चरगाइणं च दाहं ति तो कप्पे ॥
वृ- अन्यस्मै वा साधवे दास्यामीति यदि सङ्कल्पयति तदा अन्यस्यापि संयतस्य नैव कल्पते। अथ आत्मार्थयति 'चरकादीनां वा दास्यामि' इति सङ्कल्पयति ततः परिणते हस्ते मात्रके वा कल्पते ॥ अथ कर्मेति द्वारं विवृणोति
[भा. १८५४ ] दव्वेण य भावेण य, चउक्कभयणा भवे पुरेकम्मे । सागरिय भावपरिणय, तइओ भावे य कम्मे य ॥
वृ- द्रव्येण च भावेन च 'चतुष्कभजना' चतुर्भङ्गीरचना पुरः कर्मणि भवति । तद्यथा-द्रव्यतः पुरः कर्म न भावतः १ भावतः पुरः कर्म न द्रव्यतः २ द्रव्यतोऽपि भावतोऽपि पुरःकर्म ३ न द्रव्यतो न भावतः पुरः कर्म ४ । अथामीषां भावना- “सागरिय” त्ति ये शौचवादिनोऽ भाविताश्च गृहस्थास्ते पुरः कर्मणि कृते यदि न गृह्यते ततः 'अशुचयोऽमी' इति मन्येरन्; इत्थं सागारिकभयात् पुर- कर्मकृतेन हस्तादिना भक्तादिकं गृहीत्वाऽपि परिष्ठापयत द्रव्यतः पुरःकर्म भवति न भावत इति । "भावपरिणय'त्ति भिक्षामवतरन् 'पुरः कर्मकृतमपि भक्तादिकं ग्रहीष्ये' इति भावेन परिणतस्तथापि पुरः कर्मकृतं ग्रहीष्यामि' इति भावपरिणतो भिक्षामवतीर्ण प्राप्तं च तेन पुरः कर्मकृतमिति तृतीयभङ्गो द्रष्टव्यः ॥
[ भा. १८५५ ] सुनो चउत्थ भंगो, मज्झिल्ला दोन्निवी पडिक्कुट्टा । सपत्तीइ वि असती, गहणपरिणते पुरेकम्मं ।।
वृ- चतुर्थस्तु (भङ्गः ) पुरः कर्म प्रतीत्योभयथाऽपि शून्यः, अयं चात्र निरवद्यः प्रतिपत्तव्यः । 'मध्यमौ' द्वितीय-तृतीयभङ्गौ द्वावपि 'प्रतिक्रुष्टौ ' प्रतिषिद्धौ, भावस्याविशुद्धत्वात् । प्रथमभङ्गस्तु शुद्ध इव मन्तव्यः, प्रयोजनापेक्षत्वात् । द्वितीयभङ्गे तु ''संपत्तीइ वि असई गहणपरिणए पुरेकम्मं "ति द्रव्यतः सम्प्राप्तावसत्यामपि भावतो ग्रहणपरिणतस्य पुरः कर्म भवति ॥
अस्यैव नियुक्तिगाथाद्वयस्य भावार्थमाक्षेप परिहाराभ्यां स्पष्टयितुमाह
[ भा. १८५६ ] पुरकम्मम्मि कयम्मी, जइ गिण्हइ जइ य तस्स तं होइ । एवं खु कम्मबंधो, चिट्ठइ लोए व बंभवहो ।
वृ- पुरः कर्मणि कृते यदि गृह्णाति, यदि च 'तस्य' यतेः 'तत्' पुरः कर्मग्रहणं प्रतिभावो भवति तदा तृतीयभङ्गो भवतीति वाक्यशेषः । आह पुरः कर्मदोषस्तावद् दायकस्य न भवति, कृतोऽपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org