________________
४६८
बृहत्कल्प-छेदसूत्रम् -१-१/६ जइ जाणगा उ साहू, परिभोत्तुंजे सुहं होइ॥ वृ-एकेनपुर-कर्मणि समारब्धेयधन्यः स्वयं ददाति यदि च 'ज्ञायकाः' गीतार्था साधवस्ततः परिभोक्तुं “जे" इतिपादपूरणे सुखं भवति, परिभोक्तव्यं तदिति भावः । अथवा[भा.१८४७] गीयत्थेसु वि भयणा, अन्नो अन्नं व तेण मत्तेणं ।
विष्परिणयम्मि कप्पइ, ससिणिद्धदउल्ल पडिकुट्ठा । वृ-गीतार्थेष्वपि भजना कार्या। कथम् ? इत्याह-'अन्यः' पुरुषोऽन्यद्वा तद्द्वा द्रव्यं तेन' पुरःकर्मकृतेन मात्रकेण यदि ददाति तदा विपरिणतेऽप्काये आत्मार्थिते च सति कल्पते । यदि तु सस्निग्धमुदका वा दायकस्य पाणितलं भवति ततः प्रतिकुटा सा भिक्षा, न कल्पत इत्यर्थः ।।
अथ कल्पस्थिकाद्वारं व्याख्याति[भा.१८४८] तरुणीउ पिंडियाओ, कंदप्पा जइ करे पुरेकम्मं ।
पढम-विइयासुमोत्तुं, सेसे आवज चउलहुगा ।। वृ-काश्चित् 'तरुण्यः' युवतयः 'पिण्डिताः' एकत्र मिलिताः साधु समायान्तं दृष्ट्वा परस्पर जल्पन्ति एतेषां तावदेतदर्थं धौतेनहस्तेनमात्रकेणवादीयमानंन कल्पते, अतः पश्यामस्तवदेनम्, अस्माभिस्वलीकृतः किमेष करोति?' इत्येकया तासं मध्यादुत्थाय पुरःकर्म कृतम्, ततः साधुः प्रतिनिवर्तितुंलग्नः; द्वितीयाब्रवीति-प्रतीक्षस्व भगवन् ! अहं ते दास्यामि; ततो भूयोऽप्यागतस्य तस्यतयाऽपिपुरःकर्मकृतम्: ततः प्रतिनिवर्तमानं यदि तृतीया काचिदाकारयति तदा ज्ञातव्यम्, यथा-एता मां खलीकुर्वन्ति; अतोन प्रतिनिवर्तितव्यम् । अतएवाह-यदिताः कन्दात्पुरःकर्म कुर्वीरन्ततः प्रथम-द्वितीये तरुण्यौ मुक्त्वा शेषाभिराकारितः प्रतिनिवर्तमान आपद्यते चतुर्लघुकम् ॥ अथवारणललिताशनिकद्वारं व्याचष्टे[भा.१८४९] पुरकम्मम्मि कयम्मी, जइ भन्नि मा तुमं इमा देउ ।
संकापदं व होजा, ललितासणिओ व सुव्वत्तं ।। वृ-पुरःकर्मणि कृते यदि साधुना दात्री भण्यते ‘मा दास्त्वम् इयं ददातु ततः सा चिन्तयतिअहं विरूपा वृद्धा वा अतो नास्मैप्रतिभामि, इयंतुसुरूपा यौवनमधिरूढा प्रतिभासते।शङ्कापदं वा तस्याश्चेतसि भवेत्-किमेष एतया सह घटितो यदेवमस्याः पाश्र्वाद भिक्षां ग्रहीतुमिच्छति? यदि वा ब्रूयात्-भवान्सुव्यक्तं ललिताशनिको लक्ष्यते यदेवं यथाभिलषितां परिवेषिकामभिका. झसि ।। अथ गत्वेतिद्वारं व्याख्यानयति [भा.१८५०] गंतूणपडिनियत्तो, सो वा अन्नो व से तयं देइ ।
अन्नस्स व दिजिहिई, परिहरियव्वं पयत्तेणं॥ कृ-कृतपुरःकर्मादायकोभिक्षांददानः साधुना प्रतिषिद्धश्चिन्तयति-'यदेष साधुरस्यांगृहपङ्कतो गत्वा प्रतिनिवृत्तः समायास्यति तदा दास्यामि' इति तद् द्रव्यं स वा अन्यो वा दायकः "से" तस्या साधोर्ददाति तदा न कल्पते । अथ यथेष न गृह्णाति ततः 'अन्यस्य' साधोर्दास्यते इति सङ्कल्पयति ततस्तेनापि परिहर्त्तव्यं तद् भक्तं प्रयत्लेन । एषा नियुक्तिगाथा ।।
अस्या एव भाष्यकारो व्याख्यानमाह[भा.१८५१] पुरकम्मम्मि कयम्मी, पडिसिद्धो जइ भणिज्ज अन्नस्स।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org