________________
४४
बृहत्कल्प-छेदसूत्रम् -१
अस्या (अ) क्षरगमनिका-'लिङ्गत्रयम्' इयं स्त्र अयं पुमान् इदं कुलम् | 'वचनत्रिकम्' एकवचनं द्विवचन बहुवचनमिति । 'कालत्रिकम्' अकरोत् करोति करिष्यति च । परोक्षवचनं यथा स इति । प्रत्यक्षवचनम् एष इति । उपनयः-स्तुति अपनयः-निन्दा तयोश्चतुष्कमुपनयाऽपनयचतुष्कम्, यथा-रूपवती स्त्रीत्युपनयवचनम्, कुरूपा स्त्रीत्यपनयवचनम्, रूपवती स्त्री किन्तु दुःशीलेत्युपनया-ऽपनयवचनम्, कुरूपा स्त्री किन्तु सुशीलेत्यपनयोपनयवचनम् । तथा अन्यच्चेतसि निधाय विप्रतारकबुध्या अन्य बिभणिषुरपि सहसा यच्चेतसि तदेव यद्वस्ति तत् षोडशमध्यात्मवचनम् ॥ [मा.१६५] वयणेणाऽऽयरियाई, इक्केगुत्तो बहूहि वयणेहिं ।
वयण खओवसमिएष वयणेसु उ नत्थि अनुओगो।। वृ-वचनेनानुयोगो यथा-कोऽप्याचार्य केनाऽप्याचार्येण भिक्षुणा श्रावकेण वा भणितः 'अनुयोगमिच्छाकारेण कुरु' ततःसोऽनुयोगं करोति । वचनैरनुयोगः बहुभिराचार्यादिभिर्भणितोऽनुयोगंकरोति।अथवावचनेनानुयोगोनाम आचार्यादीनामन्यतम एकेन वचनेनानुयोगं करोति, यथा-समभावःसामायिकमिति।कश्चिद्बहुभिर्वचनैः सविस्तरमिति । वचनेक्षायोपशमिके स्थितस्यानुपयोगो वचनेऽनुयोगः । वचनेष्वनुयोगो नास्ति, क्षयोपशमभावस्य सर्वत्राप्येकत्वेन बहुत्वासम्भवात् । यदि वा व्यक्तिविवक्षया बहुष्वाचारदिषु वचनेषु स्थितस्यानुयोगो बहुवचनेष्वनुयोगः । सम्प्रति भावानुयोगं षट्प्रकारमाह[भा.१६६] भावस्सेगतरस्स उ, अनुयोगो जो जहडिओ भावो।
दोमाइसन्निकासे, अनुयोगो होति भावाणं ।। वृ-भावस्यानुयोगः औदयिकादीनांभावानामन्यतमोयो यथास्थितो भावस्तस्य कथनम्। भावानामनुयोगो द्विकादीनां भावानां सन्निकारो-संयोगे यावन्तो भङ्गा भवन्ति तेषां कथनम् ।। [भा.१६७] भावेन संगहाईअन्नयरेणं दुगाइभावेहि।
भावम्मिखओवसमे, भावेसु य नस्थि अनुयोगो॥ वृ-भावेनानुयोगः सङ्ग्रहादीनां पञ्चानां भावानामन्यतमेन । ते च सङ्गहादयः पञ्च भावा इमे-पंचहिं ठाणेहिं सुयं वाइज्जा, तंजहा-संगहट्टयाए, उवग्गहठ्ठयाए, निजरयाए, सुयपज्जवजाएणं, अव्वुच्छित्तीए या तत्र-कथंममैते शिष्याः सूत्रार्थसङ्ग्राहकाः सम्पत्स्यन्ते? इति सङ्ग्रहार्थता, कथं नुनामगीतार्थाबूत्वा वस्त्राधुत्पादनेन गच्छरोपग्रहकराभविष्यन्ति? इत्युपग्रहार्थता, ममाप्येतान् वाचयतः कर्मनिर्जरा विपुला भविष्यतीति निर्जरार्थता,तथा श्रुतपर्यवजातं श्रुतपर्यायराशिर्ममापि वृद्धिंयास्यतीति चतुर्थं श्रुतपर्यवजातंकारणम्, श्रुतस्य शिष्यपरम्परागतयाअव्यवच्छित्तिर्भूयादिति पञ्चममव्यवच्छित्तिकारणम्॥भावैरनुयोगःएतेषांपञ्चानांभावानां द्विवादिभिभावः । भावेऽनुयोगः क्षायोपशमिके । भावेषु त्वनुयोगो नास्ति, क्षायोपशमिकभावस्यैकत्वात्।। [भा.१६८] अहवा आयाराइसु, भावेसु उ एस होइ अनुओगो।
सामित्तं आसज्जव, परिणामेसुंबहुविहेसुं। वृ-अथवा भावेष्वप्येषोऽनुयोगो भवति । केषु? इत्याह-आचारादिषु द्वादशस्वङ्गेषु ये भावास्तेषु, अथवा स्वामित्वमासाद्य ये औदयिकादयो बहवः परिणामास्तेषु, यदि वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org