________________
पीठिका- [भा. १५९]
क्षेत्रेणानुयोगमाह[भा.१६०] जंबुद्दीवपमाणं, पुढविजियाणं तु पत्थयं काउं।
एवं मविजमाणा, हवंति लोगा असंखिज्जा ।। वृ-जम्बूद्वीपप्रमाणं प्रस्थकं पृथिवीकायिकानां मापनाय कृत्वाजम्बूद्वीपप्रमाणेन प्रस्थकेन ते पृथिवीकायिकामाप्यन्ते, मापयित्वामापयित्वा चालोकेप्रक्षिप्यन्ते, एवं माप्यमाना असङ्ग्येया लोका भवन्ति, असङ्ख्येयलोकाकाशप्रमाणलोकखण्डमापूरयन्तीत्यर्थः ॥क्षेत्रैरनुयोगमाह[भा.१६१] खित्तेहि बहू दीये, पुढविजियाणं तु पत्थयं काउं।
एवं मविजमाणा, हवंति लो असंखिज्जा ।। वृ-क्षेत्रैरनुयोगो यथा-'बहून्' त्रिप्रभृतीन् द्वीपान् पृथिवीकायिकानां मापकरणाय प्रस्थकं कृत्वा तेन पृथिवीकायिकान् मापयेत्, मापयित्वा मापयित्वा चालोके प्रक्षिपेत्, ते चैवंमाप्यमाना असङ्खयेया लोका भवन्ति ।। सम्प्रति क्षेत्रे क्षेत्रेषु चानुयोगमाह[भा.१६२] खित्तम्मि उ अनुयोगो, तिरियंलोगम्मि जम्मि वा खेते।
अड्डाइयदीवेसुं, अद्धछवीसाए खित्तेसु ॥ वृ-क्षेत्रेऽनुयोगोयथा-तिर्यग्लोकेऽनुयोगोयस्मिन् वा ग्रामेनगरे उपाश्रये वा । क्षेत्रेष्वनुयोगो यथा-अर्द्धतृतीयेषु द्वीपेषु यदि वाऽर्द्धषड्विंशतिषुजनपदेषु ।।अधुना कालस्य कालानां कालेन कालैः चानुयोगमाह[भा.१६३] कालस्स समयरूवण, कालाण तदादि जाव सव्वद्धा।
कालेनऽनिलवहारो, कालेहि उ सेसकायाणं॥ वृ-कालस्यानुयोगो यत् समयस्य प्ररूपणा । कालानामनुयोगो यत् समयादीनां-समयाऽऽवलिकाप्रभृतीनां यावत् सद्धिा तावत् प्ररूपणम् । कालेनानुयोगः अनिलानां-वायुकायिकानामपहारः, यथा-वायुकायिकवैक्रियशरीराणि बद्धानि पल्योपमस्यासङ्खयेयभागमात्रेण कालेनापहियन्ते।कालैरनुयोगः 'शेषकायानां' पृथिवीकायिकादीनाम्, यथा-औदारिकशरीराणि बद्धानिअसङ्घयेयाभिरुत्सर्पिण्यवसर्पिणीभिरपहियन्त इति ।।अधुना काले कालेषु चानुयोगमाह
[मा.१६४/१]कालम्मि बिइयपोरिसि, समासु तिसुदोसु वा वि कालेसु ।
वृ-कालेऽनुयोगः द्वितीयस्यां पौरुष्याम् । कालेष्वनुयोगः अवसर्पिण्यां तिसृषु समासु, तद्यथा-सुषमदुःषमायाः पश्चिमे भागेदुःषमसुषमायांदुःषमायामिति; उत्सर्पिण्यांद्वयोः समयो:दुःषमासुषमायां सुषमादुःषमायां च ।। उक्तः षट्प्रकारोऽपि कालानुयोगः, सम्प्रति वचनस्य वचनानां चानुयोगमाह
[भा.१६४/२] वयणस्सेगवयाई, वयणाणं सोलसण्हं तु॥
वृ. “वयणस्से"त्यादि । वचनास्यानुयोगः ‘एकवचनादेः' एकवचन-द्विवचनबहुवचनानामन्यतमस्य, यथा-ईशमेकवचनमित्यादि । वचनानामनुयोगःत्रयाणामप्येकवचनादीनां स्वरूपकथनं षोडशानां वा वचनानाम् । तानि च षोडश वचनान्यमूनि
लिंगतियं वयणतियं, कालतियंतह परुक्ख पच्चखं । उवनय-ऽवणयचउक्वं, अज्झत्थिययं तु सोलसमं ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org