SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ ४६४ बृहत्कल्प-छेदसूत्रम् -१-१/६ अथवा "संकामिय" त्ति तदनेषणाकृतं द्रव्यं स दाता अन्यस्मै परिवेषयेत्स यदि दद्यात्तत एवं सङ्क्रामितंसत्कल्पते।एतच्च ग्रहणं गीतार्थस्यानुज्ञातम्, यतोगीतार्थस्तद्रव्यमित्थं गृह्णानोऽपि संविग्नो भवति ।। एतदेवान्त्यपदं भाष्यकारो भावयति[भा.१८२७) गीयत्थग्गहणेणं, अत्तट्ठियमाइ गिण्हई गीतो। संविग्गग्हणेणं, तंगिण्हंतो वि संविग्गो॥ वृ-गीतार्थग्रहणेन कृतेनैतद् ज्ञापितं यद् आत्मार्थितम्, आदिशब्दात् सङ्क्रामितं च तद् आगमप्रमाणतोगीतार्थएव गृह्णाति नागीतार्थः । संविग्नग्रहणेन तु तद् आत्मार्थितादिगृह्णानोऽपि गीतार्थसंविग्नोभवतिनासंविग्न इत्युक्तं भवति ॥ इत्थं पुनः पुरतः कृतमपिन पुरःकर्मभवतीति दर्शयति[भा.१८२८] पुरतो वि हुजं धोयं, अत्तट्ठाए न तं पुरेकम्मं । तं उदउल्लं ससिणिद्धगं व सुक्खे तहिं गहणं ।। वृ-यत् 'पुरतोऽपि' साधोरगतोऽप्यात्मार्थं धौतं तत् पुरःकर्म न भवति, किन्तु तद् उदका सस्निग्धं वा मन्तव्यम् । 'उदका' बिन्दुसहितम्, 'सस्निग्धं' बिन्दुरहितम् । तस्मिन्नुभयेऽपि 'शुष्के' परिणते ग्रहणं कर्तव्यम् ।। पुरःकर्मोदकायोर्विशेषमाह[भा.१८२९] तुल्ले वि समारंभे, सुक्के गहणेक्क एक्क पडिसेहो । अन्नस्थ छूढ ताविय, अत्तढे होइ खिप्पंतु। वृ-उदकार्द्र-पुरःकर्मणोस्तुल्येऽप्य'कायसमारम्भे एकस्मिन् उदकामे॒शुष्केसतिग्रहणं भवति 'एकस्मिन्' पुरःकर्मणि पुनः शुष्केऽप्यनात्मार्थिते ग्रहणस्य प्रतिषेधः । तथाहि-संयतार्थं द्वाभ्यां पृथक्पृथक्पङ्क्तौ पुरःकर्म कृतम्, तच्च परिणतम् उदकार्द्र-सस्निग्धौ न स्तः, परं येनात्मार्थितं तस्य हस्तात् कल्पते, येन तुनात्मार्थितंतस्य हस्ताद् न कल्पते। एवंचिरकालिकेपुरःकर्मण्युक्तम्। यत्रतुहस्तोमात्रकंवा तत्क्षणमेव 'अन्यत्र' तक्रादौनाशुकद्रव्ये प्रक्षिप्तमग्निनाया तापितं तत्रात्मार्थिते क्षिप्रमपि ग्रहणं कर्त्तव्यम् ॥ गतं कस्येति द्वारम् । अथारोपणाद्वारमाह[भा.१८३०] चाउम्मासुक्कोसे, मासिय मझेय पंचग जहन्ने । पुरकम्मे उदउल्ले, ससिणिद्धाऽऽरोवणा भणिया ॥ उदकसमारम्भे पुर-कर्मोत्कृष्टमपराधपदम्, उदका, मध्यमम्, सस्निग्धं जघन्यम् । उत्कृष्टे चत्वारोमासालघवः, मध्यमेलघुमासिकम्, जघन्येपञ्चरात्रिन्दिवानि।एवंपुरःकर्मोदकासस्निग्धेषु यथाक्रममारोपणा भणिता॥ अथ परिहरणाद्वारमाह[भा.१८३१] परिहरणा वि य दुविहा, विहि-अविहीए अ होइ नायव्वा । पढमिल्लुगस्स सव्वं, बिइयस्स य तम्मि गच्छम्मि ।। [भा.१८३२] तइयस्स जावजीवं, चउथस्स यतंन कप्पए दव्वं । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy