________________
४६३
उद्देशक : १, मूलं- ६, [भा. १८२२ ]
इत्यनेन चत्वारो भङ्गाः सूचिताः एवमन्यः पुरुष इत्यनेनापि चत्वारो भङ्गाः सूच्यन्ते, एवमेत्ते
अष्टौ भङ्गाः ॥
एनामेवाष्टभङ्गी स्पष्टयति
,
[ भा. १८२३] सो तं ताए १ अन्नाए बिइअओ २ अन्न तीए ३ दो वऽन्ने ४ | एमेव य अन्नेन वि, भंगा खलु होंति चत्तारि ।।
वृ- स पुरुषस्तद् द्रव्यं तस्यां पङ्क्ताविति प्रथमः १ । स पुरुषस्तद् द्रव्यमन्यस्यां पङ्क्ताविति द्वितीयः २ । स पुरुषोऽन्यद् द्रव्यं तस्यां पङ्क्ताविति तृतीयः ३ । स पुरुषोऽन्यद् द्रव्यमन्यस्यां पङ्क्ताविति चतुर्थ ४, अत्र च 'द्वे अपि' द्रव्य पङ्क्ती अन्ये इति । एवमेव चान्यपुरुषपदेनापि चत्वारो भङ्गा भवन्ति । तद्यथ-अन्यः पुरुषस्तद् द्रव्यं तस्यां पङ्क्तौ ५ अन्यः पुरुषस्तद्द्रव्यमन्यस्यां पङक्तौ ६ अन्यः पुरुषोऽन्यद् द्रव्यं तस्यां पङ्क्तौ ७ अन्यः पुरुषोऽन्यद् द्रव्यमन्यस्यां पङ्क्तौ ८ ॥ एतेषां मध्याद् येषु यथा कल्पते तदेतद् दर्शयति
[भा. १८२४] कप्पइ समेसु तह सत्तमम्मि तइयम्मि छिन्नवावारे । अत्तट्ठियम्मि दोसुं, सव्वत्थ य भयसु कर-मत्ते ॥
वृ- 'समेषु' द्वितीय - चतुर्थ - षष्ठाऽष्टमेषु भङ्गेषु ग्रहीतुं कल्पते । तथाहि द्वितीये तावदन्यस्यां पङ्क्तौ सङ्क्रान्तत्वेन तद् द्रव्यमपि वक्ष्यमाणनीत्या चतुर्थे तु द्रव्यान्तरत्वेनान्यस्यां पङ्क्तौ दीयमानत्वेन च षष्ठे तुपुरुषान्तरेणापरस्यां पङ्क्तौ तद् दरव्यं दीयत इति हेतोः अष्टमे तु तिसृणामपि पुरुष- द्रव्य - पङ्क्रतीनामन्यत्वेन परिस्फुटमेव कल्पत इति । तथा सप्तमेऽपि भङ्गे कल्पत एव, पुरुषान्तरेणान्यद्रव्यस्य दीयमानत्वात् । तृतीये तु च्छिन्नव्यापारे सति कल्पते, यः साधुदानार्थं हस्तमात्रकप्रक्षालनव्यापारः कृतः स यदा व्यापारान्तरेण च्छिन्नो भवति तदा तेनैव पुरुषेणान्यद् द्रव्यं तस्यां पङ्क्तौ दीयमानं कल्पत इति भावः । 'द्वयोः प्रथम-पञ्चमयोर्यदि तद् द्रव्यं तेनात्मार्थितं भवति ततः कल्पते नान्यथा । 'सर्वत्र च' अष्टस्वपि भङ्गेषु कर मात्रके 'भज' विकल्पय, यदि हस्तो वा मात्रकं वा सस्निग्धमुदकार्द्रं वा न भवति ततः कल्पते अन्यथा तु नेत्येवं भजना कर्त्तव्येत्यर्थः ॥ अथ किमर्थं पुरः कर्म करोति ? इत्याह
[ भा. १८२५ ] अच्चुसिण चिक्कणे वा, कूरे धुविडं पुनो पुनो देइ ।
आयमिऊणं पुव्वं, दइज जइणं पढमयाए ॥
वृ-परिवेषणं कुर्वतो यद्यत्युष्णश्चिक्कणो वा कूरस्तत एकत्र हस्तदाहभयादपरत्र हस्ते विलगनात् कुण्डकादिस्थितेनोदकेन स दाता पुनः पुनः 'धीत्वा' हस्तमार्द्रीकृत्य 'ददाति' परिवेषयतीत्यर्थः, साधोरप्यागतस्य तथैव यदि भिक्षां ददाति तदा पुरःकर्म भवति । यदि वा पूर्वम् 'चम्य' हस्तं मात्रकंवा प्रक्षाल्य प्रथमत एव यतीनां दद्यात् ततोऽन्येभ्यः परिवेषयेत् तदाऽपि पुरः कर्म - भवति ।। एवं पुरः कर्मणि कृते यद् यत्र कल्पते तदेतद् निर्युक्तिगाथया दर्शयति
[भा. १८२६] दाऊण अन्नदव्वं, कोई दिज्जा पुनो वि तं चेव । अत्तट्ठिय-संकामियगहणं गीयत्थसंविग्गे ॥
वृ-तद् अनेषणाकृतं द्रव्यं मुक्त्वा अन्यस्यान्यद् द्रव्यं 'दत्त्वा' परिवेष्य कश्चित् 'तदेव' अनेषणाकृतं द्रव्यं पुनरपि तस्यामन्यस्यां वा पङ्क्तौ साधूनां दद्यात्, एवं छिन्नव्यापारे आत्मार्थितं सत् कल्पते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org