SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ ४६२ बृहत्कल्प-छेदसूत्रम् -१-१/६ हंदि हु बहूणि पुरतो, कीरंति कयाणि पुव्वं च ।। वृ- ‘एवं' द्विधाऽपि समासे क्रियमाणे प्राशुकमप्राशुकं वा 'न विद्यते' न ज्ञायते, सर्वस्या अप्युत्थान-गमनादिचेष्टायाः पुर-कर्मत्वप्राप्तेः । अज्ञायमानेच प्राशुका-ऽप्राशुकविभागेशोधिरपि काचिन्नास्ति ते तवाभिप्रायेण, तस्याश्चाभावे चारित्रस्याप्यभाव इति भावः । 'हन्दि' इत्युपप्रदर्शने । 'हुः' इत्यामन्त्रणे । ततश्चैवम्-हे आचार्या ! बहूनि पुरतः क्रियन्ते बहूनि च दायकेन पूर्व कृतानि तानि सर्वाण्यपिपुरः कर्म प्राप्नुवन्ति ॥ अत्र सूरि प्रतिवचनमाह[भा.१८१९] कामं खलु पुरसद्दो, पञ्चक्ख-परोक्खतो दुहा होइ । तह वियन पुरेकम्म,पुरकम्मं चोदग! इमं तु॥ कृ-'कामम् अनुमतं खलुशब्दोऽवधारणेअनुमतमेवास्माकंयत्पुरःशब्दःप्रत्यक्ष-परोक्षयोर्द्विधा भवति-यदा 'पुरः-अग्रतः कर्मपुरःकर्म' इति व्युत्पत्तिराश्रीयते तदा प्रत्यक्षार्थवाचकः पुरःशब्दः, यदातु 'पुरः-पूर्वं कर्म पुरःकर्म' तदापरोक्षार्थवाचकः । एवंपुरःशब्दस्यप्रत्यक्ष-परोक्षार्थवाचकतया यद्यप्युत्थानादीनि पुरःकर्म प्राप्नुवन्ति तथापि तानि पुरःकर्म न भवति, किन्तु पुरःकर्म हे नोदक ! 'इदं वक्ष्यमाणं भवति ॥ तदेवाह[भा.१८२०] हत्थं वा मत्तं वा, पुटिव सीतोदएण जंधोवे । समणठ्ठाए दाया, पुरकम्मं तं विजाणाहि ।। वृ-हस्तंवामात्रकं वा 'पूर्व भिक्षादानात्प्रथमं शीतोदकेन सन्चित्तजलेन यदाताश्रमणार्थं 'धावति प्रक्षालयति तत्पुरःकर्मविजानीहि नशेषमुत्थान-गमनादिकम्, तथासमयपरिभाषया रूढत्वात ॥ गतं किमिति द्वारम् । अथ कस्येति द्वारस्य प्ररूपणामाह[भा.१८२१] कस्स त्ति पुरेकम्म, जइणोतं पुन पभू सयं कुजा । अहवा पभुसंदिट्ठो, सो पुन सुहि पेस बंधूवा ।। वृ-कस्य पुनः पुरःकर्म भवति? इति पृच्छायांनिर्वचनं यतेः' तत्परिहारिणः साधोः पुरःकर्म मन्तव्यम्, तदितरेषां दोषत्वेनानभ्युपगमात् । तत् पुनः' पुरःकर्म 'प्रभुः गृहस्वामी स्वयमेव कुर्यात्, अथवा 'प्रभुसन्दिष्टः' प्रभुणा आदिष्टः । “स पुनः' प्रभुसन्दिष्टस्त्रिधा, तद्यथा- 'सुहृद्' मित्रम्, 'प्रेष्यः' दासी-दासादि, 'बन्धुः' माता-भगिन्यादि। अथ पुरःकर्मणः सम्भवमाह[भा.१८२२] दमए पमाणपुरिसे,जाए पंतीए तान मोत्तूणं । सो पुरिसोतं वऽन्नं, तंदव्वं अन्नो अन्नं वा ।। वृ-सङ्खड्यांपङ्क्तिपरिवेषणे नियुक्तः कोऽपि 'द्रमकः' कर्मकरः, एतेन प्रभुसन्दिष्टग्रहणम् 'प्रमाणपुरुषो वा' देयद्रव्यस्वामी, अनेन च प्रभुग्रहणम्, ततश्च दाता प्रभुर्वा प्रभुसन्दिष्टो वा यस्यांपङक्तौ पुरःकर्मकृतवान्तामुक्त्वा यद्यन्यांपङ्क्ति सङ्क्रामति तदा यदि परिणतहस्तस्ततः कल्पते । अत्र चाष्टौ भङ्गा भवन्ति-स पुरुषस्तां पङ्किमन्यां वा पकि तद् द्रव्यमन्यद् द्रव्यं वा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy