________________
उद्देशक : १, मूलं-६, [भा. १८१३] 'कुर्म' करिष्याम इति ।।
"अद्धाणनिग्गयादी' इति पदं व्याख्यानयति[भा.१८१४] अद्धाणनिग्गयादी, थाणुप्पाइयमहं व सोऊण।
गेलन-सत्यवसगा, महाणदी तत्तिया वा वि॥ वृ-अध्वनिर्गताः-अध्यानमतिलङ्घय सहसैव तत्र प्राप्ताः, आदिशब्दादन्यदप्येवंविधं कारणं गृह्यते । स्थानौत्पातिकमहो नाम-तत्रापूर्वकोऽप्युत्सवविशेषः सहसैव श्राद्धैः कर्तुमारब्धः तं वा श्रुत्वा । यदि वा ये क्षेत्रं प्रत्युपेक्षितुं प्रेष्यनते ते तदानीं ग्लाना-ऽग्लानप्रतिचरणव्यापृता वा । अथवा सार्थवशगाः-ते तत्र सार्थमन्तरेण गंतुं न शक्यते । महानदी वा काचिदपान्तराले तामभीक्ष्णमुत्तरतां बहवो दोषाः । तावन्मात्रा एव वा ते साधवो यावतां मध्यादेकस्याप्यन्यत्र प्रेषणं न संगच्छते । अत एतैः कारणैरप्रत्युपेक्षितेऽपि प्रविशतां न कश्चिद् दोषः ॥
अत्र यतनामाह[भा.१८१५] समणुनाऽसइ अन्ने, विपुच्छिउंदानमाइ वर्जिति ।
दव्वाई पेहंता, जइ लग्गंती तह वि सुद्धा ।। वृ- यदि 'समनोज्ञाः' साम्भोगिकाः पूर्वप्रविष्टाः सन्ति ततस्तैः सह भिक्षामटन्ति । अथ न सन्ति समनोज्ञास्ततः 'अन्यानपि' अन्यसाम्भोगिकानपि पृथ्वा दानश्राद्धकुलानि वर्जयन्ति, तेष्वाधाकर्मादिदोषसम्भवात्। शेषेषु कुलेषु पर्यटन्तः “दव्वादी पेहंत"त्तिद्रव्यतः क्षेत्रतः कालतो भावतश्च शुद्धमन्वेषयन्तो यद्यपि कमपि स्थापनादिकं दोषं “लगन्ति प्राप्नुवन्ति तथापि शुद्धाः, क्षपकवदशठपरिणामतया श्रुतज्ञानोपयोगप्रवृत्तत्वादिति॥
गतं “परिहरणा अनुयाने' इति द्वारम् । अथपुरःकर्मद्वारमाह[भा.१८१६] पुरकम्पम्मि य पुच्छा, किं कस्साऽऽरोवणा य परिहरणा।
एएसिंतुपयाणं, पत्तेयपरूवणं वोच्छं। वृ- पुरःकर्मणि पृच्छा कर्तव्या । तद्यथा-किं पुरःकर्म ? कस्य वा पुरःकर्म ? का वा पुरःकर्मण्यारोपणा? कथं पुरःकर्मणः परिहरणं क्रियते ? एतेषां चतुर्णामपि पदानां प्रत्येकमहं प्ररूपणां वक्ष्ये।। .
तत्र किमिति द्वारस्य प्ररूपणां चिकीर्षु प्रेर्यमुत्थापयत्राह[भा.१८१७] जइ जंपुरतो कीरइ, एवं उट्ठाण-गमनमादीनि ।
होंति पुरेकम्मं ते, एमेवय पुव्वकम्मे वि।। वृ-परःप्राह-यदि साधोभिक्षार्थिनीगृहाङ्गणमागतस्य यत् 'पुरतः अग्रतः क्रियतेतत्पुरःकर्मेति व्यवह्रियते, एवं 'ते' तव यानि दायकस्योत्थान-गमनादीनि कर्माणि साधोरग्रतः क्रियमाणानि तानि सर्वाण्यपि पुरःकर्म भवति । अथ पूर्वार्थवाचकः पुरःशब्द इहाधिक्रियते तत आह-एवमेव चपूर्वकर्मण्यपि द्रष्टव्यम् । किमुक्तं भवति ?-'पुरः-साधोरागमनात्पूर्व कर्मपुरःकर्म' इत्यस्यामपि व्युत्पत्तौ यान्युत्थानादीनि पूर्वं कृतानि तानि पुरःकर्म प्राप्नुवन्ति ।।
यदि नामैवं ततः का नो हानि ? इति चेद् उच्यते[भा.१८१८] एवं फासुमफासुं, न विजए न विय काइ सोही ते ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org