________________
४५८
बृहत्कल्प - छेदसूत्रम् - १-१/६
कार्यम्। अथाध्वनिर्गताः-ते अध्वानमतिलङ्घय सहसैव तत्र प्राप्ताः, आदिशब्दादपूर्वोत्सवादिवक्ष्यमाणकारणपरिग्रहः, एवंविधैः कारणैरप्रत्युपेक्षितेऽपि क्षेत्रे गताः सन्तो यथोक्तां यतनां कुर्वाणा अपि यदि 'लग्नाः' अशुद्ध भक्तादिग्रहणदोषमापन्नास्तथापि शुद्धाः । यथा 'क्षपकः' पिण्डनिर्युक्तौ प्रतिपादितचरितः शुद्धं गवेषयन्नपि निगूढबाह्याकारया तथाविधश्राद्धिकया च्छलितः समाधाकर्मण्यपि गृहीते शुद्धः, अशठपरिणामत्वादिति नियुक्तिगाथासमासार्थः ॥
अथैनामेव विवृणोति
[भा. १८०२ ]
नाऊणय अइगमणं, गीए पेसिंति पेहिउं कजे । उवसय भिक्खायरिया, बाहिं उभामगादीया ।।
[ भा. १८०३ ] सम्भाविक इयरे वि य, जाणंती मंडवाइणो गीया । सेहादीण य घेरा, वंदनजुत्तिं बहिं कहए |
वृ- चैत्यपूजादिके कार्ये समुत्पन्नेऽनुयानक्षेत्रं प्रत्युपेक्षितुं गीतार्थान् प्रेषयन्ति । ततो ज्ञात्वा सम्यक् क्षेत्रस्वरूपमतगमनं कर्तव्यम् । किं पुनस्तत्र प्रत्युपेक्ष्यम् ? इत्याह- मौलग्रामे उपाश्रयः, 'बहि' बाह्यग्रामेषु च उद्रामकाख्या भिक्षाचर्या, आदिशब्दात् तस्यां गच्छतामपान्तराले विश्रामस्थानं मौलग्रामे च भिक्षा- विचारभूमिप्रभृतिकं प्रत्युपेक्ष्यम् । तथा सद्भाविकानितराँश्च मण्डपादीन् गीतार्था जानन्ति, यथा- अमी सद्भावतः स्वार्थं मण्डपाः कृताः, अमी तु संयतार्थं परं कैतवप्रयोगेणास्मानित्थं प्रत्याययन्ति, आदिग्रहणात् पीठिकादिपरिग्रहः । इत्थं तैः प्रत्युपेक्षिते सूरयः सबाल-वृद्धगच्छसहिता अनुयानक्षेत्रं प्रविशन्ति । स्थविराश्च बहिरेव वर्त्तमानाः शैक्षादीनां ‘वन्दनयुक्ति' पार्श्वस्थादिवन्दनविधिं कथयन्ति मा भूदन्यथा तद्वन्दने तेषां विपरिणाम इति । अथ चैत्यवन्दनविधिमाह
+
[भा. १८०४] निस्सकडमनिस्से वा, वि चेइए सव्वर्हि थुई तिनि । वेलं च चेइयाणि य, नाउं एक्किक्विया वा वि ॥
वृ- 'निश्राकृते' गच्छप्रतिबद्धे 'अनिश्राकृते वा' तद्विपरीते चैत्ये सर्वत्र तिः स्तुतयो दीयन्ते । अथ प्रतिचैत्यं स्तुतित्रये दीयमाने वेलाया अतिक्रमो भवति, भूयांसि वा तत्र चैत्यानि, ततो वेलां चैत्यानि वा ज्ञात्वा प्रतिचैत्यमेकैका स्तुतिर्दातव्येति ॥
अथ समवसरणविषयं विधिमाह
[भा. १८०५ ] निस्सकडे ठाइ गुरू, कइवयसहिएयरा वए वसहिं । जत्थ पुन अनिस्सकडं, पूरिंति तहिं समोसरणं ।।
वृ- निश्राकृते चैत्ये 'गुरु' आचार्य कतिपयैः परिणतसाधुभिः सहितश्चैत्यमहिमावलोकनार्थं तिष्ठति, 'इतरे' शैक्षादयस्ते 'मा पार्श्वस्थादीन् भूयसा लोकेन पूज्यमानान् दृष्टवा तत्र गमनं कार्षु' इति कृत्वा गुरुभिरनुज्ञाता वसतिं व्रजेयुः । यत्र पुनः क्षेत्रे अनिश्राकृतं चैत्यं तत्राचार्या समवसरणं पूरयन्ति, सभामापूर्य धर्मकथां कुर्वन्तीत्यर्थः ॥
आह किं संविग्नैस्तत्र धर्मकथा कार्या ? आहोश्चिदसंविग्नैरपि ? उच्यते[ भा. १८०६ ] संविग्गेहि य कहणा, इयरेहि अपच्चओ न ओवसमो । पव्वज्जाभिहाविय, तेसु वए सेहभादी वा ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org