SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १, मूलं-६, [भा. १७९६ ] अथ प्रभावनाद्वारमाह [भा. १७९७ ] जाइ-कुल- रूव-धण बलसंपन्ना इड्डिमंतनिक्खता । जयणाजुत्ता य जई, समेच्च तित्थंपभाविंति ॥ ४५७ , वृ- जाति-मातृकः पक्षः कुलं पैतृकः पक्षः, रूपम आकृति, धनं-गणिम-धरिम-मेयपारिच्छेद्यभेदाच्चतुर्द्धा तदतिप्रभूतं गृहस्थावस्थायामासीत्, बलं सहयोधिप्रभृतीनामिव सातिशयं शारीरं वीर्यम्, एतैर्जात्यादिभिर्गुणैः सम्पन्ना ये च 'ऋद्धिमन्निष्क्रान्ताः' राजप्रव्रजितादयो ये च 'यतनायुक्ताः' यथोक्तसंयमयोगकलिता यतयस्ते 'समेत्य' तत्रागत्य तीर्थं प्रभावयन्ति ॥ अपि च [भा. १७९८ ] जो जेन गुणेनऽ हिओ, जेन विमा वा न सिज्झए जं तु । सो तेण तम्मि कज्जे, सव्वत्थामं न हावेइ ॥ वृ- 'यः' आचार्यादि 'येन' प्रावचनिकत्वादिना गुणेन 'अधिकः' सातिशयः 'येन वा ' विद्यासिद्धादिना विना यत् प्रवचनप्रत्यनीकशिक्षणादिकं कार्यं न सिध्यति सः 'तेन' गुणेन तस्मिन् कार्ये 'सर्वस्थाम' सकलमपि वीर्यं न हापयति किन्तु सर्वया शक्त्या तत्र लगित्वा प्रवचनं प्रभावयतीति भावः । उक्तञ्च प्रावचनी धर्मकथी, वादी नैमित्तिकस्तपस्वी च । जिनवचनज्ञश्च कवि, प्रवचनमुद्भावयन्त्येते ॥ -प्रवृत्तिद्वारमाह [ भा. १७९९ ] साहम्मि - वायगाणं, खेम सिवाणं च लब्भिइ पवित्तिं । गच्छिहिति जहिं ताई, होहिंति न वा वि पुच्छइ वा ॥ वृ-तत्रान्येषां साधर्मिकाणां चिरदेशान्तरगतानां वाचकानां वा - आचार्याणां तत्र प्राप्तः प्रवृत्तिं लप्स्यते । तथा क्षेमं परचक्राद्युपप्लवाभावः शिवं व्यन्तरकृतोपद्रवाभावः तयोः, उपलक्षणत्वात् सुभिश्र - दुर्भिक्षादीनां चागामिसंवत्सरभाविनां प्रवृत्तिं तत्र नैमित्तिकसाधूनां सकाशाद् लप्स्यते । यदि वा यत्र देशे स्वयं गमिष्यति तत्र तानि क्षेमादीनि भविष्यन्ति न वा ? इति साधर्मिकादीन् पृच्छति ॥ कार्योड्डाहद्वारद्वयमाह [ भा. १८०० ] कुलमादीकज्जाई, साहिस्सं लिंगिणो य सासिस्सं । जे लोगविरुद्धाई, करेंति लोगुत्तराई च ।। वृ- कालुदीनि-कुल-गण-सङ्घसत्कानि कार्याणि तत्र गतः साधयिष्यामि । लिङ्गिनश्च तत्र गतः 'शासिष्यामि' हितोपदेशदानादिना शियिष्यामि, ये लिङ्गिनो लोकविरुद्धानि लोकोत्तरविरुद्धानि च प्रवचोड्डाहकारीणि कार्याणि कुर्वन्तीति ॥ आह यद्येतानि कारणानि भवन्ति ततः किं कर्त्तव्यम् ? इत्याह [ भा. १८०१ ] एएहि कारणेहिं, पुव्वं पडिलेहिऊण अइगमणं । अद्धाणनिग्गयादी, लग्गा सुद्धा जहा खमओ ॥ वृ-‘एतैः’ चैत्यपूजादिभिः कारणैरनुयानं प्रवेष्टव्यमिति निश्चित्य पूर्वं प्रत्युपेक्ष्य ततोऽतिगमनं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy