________________
४५६
बृहत्कल्प-छेदसूत्रम् -१-१/६
अथ संज्ञिद्वारं वादिद्वारं चाह[भा.१७९२] एमेव य सन्नीण वि, जिणाण पडिमासु पढमपट्ठवणे ।
मा परवाई विग्छ, करिज वाई अओ विसइ ॥ वृ- संज्ञिनः-श्रवकाः केचिद् जिनानां प्रतिमासु प्रथमतः “पट्टवणे''त्ति प्रतिष्ठापनं कर्तुकामास्तेषामपि एवमेव राज्ञइव श्रद्धावृध्यादिकंकृतंभवति।तथामापरवादी प्रस्तुतोत्सवस्य विघ्नं कार्षाद् अतो वादी प्रविशति॥
परवादिनिग्रहे च क्रियमाणे गुणानुपदर्शयति[मा.१७९३] नवधम्माण थिरत्तं, पभावणा सासणे य बहुमानो ।
अभिगच्छंति यविदुसा, अविग्घ पूया य सेयाए ।। कृ'नवधर्मणाम् अभिनवश्रावकाणां स्थिरत्वं' स्थिरीकरणम्। शासनस्य च प्रभावना भवति, यथा-अहो! प्रतपति पारमेश्वरं प्रवचनं योशा वादलब्धिसम्पन्ना इति । बहुमानश्चान्येषामपि शासने भवति । तथा तं वादिनं 'अभिगच्छन्ति' अभ्यायान्ति 'विद्वांसः' सहृदयास्तद्वाग्मिताकौतुकाकृष्टचिताः, तेषां च सर्वविरत्यादिप्रतिपत्या महाँल्लाभो भवति । परवादिना च निगृहीतेन 'अविघ्न' निप्रत्यहं पूजा कृता सती स्वपक्ष-परपक्षयोरिह परत्र च श्रेयसे भवति ।।
अथ क्षपकद्वारमाह[भा.१७९४] आयाविति तवस्सी, ओभावणया परप्पवाईणं ।
जइ एरिसा विमहिम, उविंति कारिंति सहाय।। वृ-तत्र 'तपस्विनः' षठा-ऽष्टमादिक्षपकाआतापयन्ति । ततश्च 'अपभावना' लाघवं परप्रवादिनां' परतीर्थिकानां भवति,तेषांमध्ये ईशानां तपस्विनामभावात् । श्राद्धाश्चचिन्तयन्ति-यदि तावदीशा अपि भगवन्तोऽस्माभि क्रियमाणां 'महिमां' चैत्यपूजां द्रष्टुभायान्ति, तत इत ऊर्ध्वं विशेषत एव तस्यां यलं विधास्याम इति प्रवर्द्धमानश्रद्धाका महिमां कुर्वन्ति कारयन्ति च ।
अथ कथिकद्वारमाह[भा. १७९५] आय-परसमुत्तारो, तित्थविवडी य होइ कहते ।
अन्नोन्नाभिगमेण य, पूया थिरया य बहुमाणो ।। वृ-क्षीराश्रवादिलब्धिसम्पन्न आक्षेपणी-संवेजनी-निवेदनीभेदात् चतुर्विधांधर्मकथां कथयन् धर्मकथीत्युच्यते । तस्मिन् धर्मं कथयति आत्मनः परस्य च संसारसागरात् समुत्तारः-निस्तरणं भवति। तीर्थविवृद्धिश्चभवति,प्रभूतलोकस्य प्रव्रज्याप्रतिपत्तेः। तथा देशनाद्वारेणपूजाफलमुपवर्ण्य 'अन्यान्याभिगमेन' अन्यान्यश्रावकबोधनेन पूजायां स्थिरता बहुमानश्च कुतो भवति ।।
अथ शङ्कितःपात्रद्वारे व्याख्याति[भा.१७९६] निस्संकियं च काहिइ, उभएजं संकियं सुयहरेहिं ।
अव्वोच्छित्तिकरं वा, लब्मिहि पत्तं दुपक्खाओ ।। वृ-'उभये' सूत्रे अर्थे च यत् तस्य शङ्कितंतत्तत्र श्रुतधरेभ्यः पाश्र्वानिःशङ्कितं करिष्यति। अव्यवच्छित्तिकारकं वा पात्रं द्विपक्षाद् लप्स्यते । द्वौ पक्षौ समाहृतौ द्विपक्षम्, गृहस्थपक्षः संयतपक्षश्चेत्यर्थः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org