________________
उद्देशक : १, मूलं -६, (भा. १७८७ ]
ततो भगवतां भक्ति कृता न भवति, तस्यां चाभक्त्यां चत्वारो गुरुकाः ।। अथ क्षुल्लकद्वारं निर्द्धर्मकार्यद्वारं च व्याख्यानयति
[भा. १७८८]
घट्टाइ इयरखुड्डे, दहुं ओगुंडिया तहिं गच्छे । उक्कुट्टधर-धणाईववहारा चेव लिंगीणं ॥
४५५
[भा. १७८९] छिंदंतस्स अनुमई, अमिलंत अछिंदओ य उक्खिवणा । छिद्दाणि य पेहंती, नेव य कजेसु साहिजं ॥
वृ- इतरे-पार्श्वस्थास्तेषां ये क्षुल्लका घृष्टाः, आदिग्रहणात् “मट्ठा तुप्पोट्ठा पंडुरपडपाउरणा" इत्यादि, तानित्थम्भूतान् ध्ष्ट्वा संविग्नक्षुल्लकाः 'अवगुण्डिताः' मलदिग्धदेहाः परिभग्नाः सन्तः 'तत्र' तेषां लिङ्गिनामन्तिके गच्छेयुः । तेषां च तत्र मिलितानां परस्परमुत्कृष्टगृहधनादिविषयाः 'व्यवहाराः' विवादा उपढौकन्ते, ते च व्यवहारच्छेदनाय तत्र संविग्नानाकारयन्ति, ततो यदि तेषां व्यवहारश्छिद्यते तदा भवति परिस्फुटस्तेषां गृह-धनादिकं ददतः साधोरनुमतिदोषः । उपलक्षणमिदम्, तेन येषां तद् गृह-धनादिकं न दीयते तेषामप्रीतिक-प्रद्वेषगमनादयो दोषाः । अथ लिङ्गिनामेतद्दोषभयात् प्रथमत एव न मिलन्ति न वा व्यवहारपरिच्छेदं कुर्वन्ति ततः 'उत्क्षेपणा' उद्घाटना साधूनां भवति, सङ्घाद् बाह्यीकरणमित्यर्थः । 'छिद्राणि च ' दूषणानि ते कषायिताः सन्तः साधूनां प्रेक्षन्ते । नैव च ते 'कार्येषु' राजद्विष्ट ग्लानत्वादिषु 'साहाय्यं' तन्त्रिणक्षममुपष्भं कुर्वते । यत एते दोषा अतो निष्कारणे न प्रवेष्टव्यमनुयानमिति स्थितम् । कारणेषु तु समुत्पन्नेषु प्रवेष्टव्यम् । यदि न प्रविशति तदा चत्वारो लघवः ॥
कानि पुनस्तानि ? इत्युच्यते[भा. १७९०]
चेयपूया रायानिमंतणं सन्निवाइ खमग कही।
संकिय पत्त पभावण, पवित्ति कज्जाइँ उड्डाहो ।।
वृ- अनुयानं गच्छता चैत्यपूजा स्थिरीकृता भवति । राजा वा कश्चिदनुयानमहोत्सवकारकः सम्प्रतिनरेन्द्रादिवत् तस्य निमन्त्रणं भवति । 'संज्ञी' श्रावकः स जिनप्रतिमायाः प्रतिष्ठापनां चिकीर्षति । तथा वादी क्षपको धर्मकथी च तत्र भावनार्थं गच्छति । शङ्कितयोश्च सूत्रार्थयोस्तत्र निर्णयं करोति । पात्रं वा तत्राव्यवच्छित्तिकारकं प्राप्नोति । प्रभावना वा राजप्रव्रजितादिभिस्तत्रगतैर्भवति । प्रवृत्तिश्चाचार्यादीनां कुशलवार्त्तारूपा तत्र प्राप्यते । कार्याणि च कुलादिविषयाणि साधयिष्यन्ते । उड्डाहश्च तत्रगतैर्निवारयिष्यत इति । एतैः कारणैर्गन्तव्यमिति द्वारगाथासमासार्थः ॥
अथ विस्तरार्थं विभणिषुश्चैत्यपूजा - राजनिमन्त्रणद्वारे विवृणोति - भा. (१७९१] सद्धावुड्डी रन्नो, पूयाए थिरत्तणं पभावणया ।
पडिघातो य अणत्थे, अत्था य कया हवइ तित्थे |
वृ- कोऽपि राजा रथयात्रामहोत्सवं कारयितुमनास्तन्निमन्त्रणे गच्छद्भिस्तस्य राज्ञः श्रद्धावृद्धि कृता भवति । चैत्यपूजायां स्थिरत्वं प्रभावना च तीर्थस्य सम्पादिता भवति । यच्च जैनप्रवचनप्रत्यनीकाः शासनावर्णवाद-महिमोपघातादिकमनर्थं कुर्वन्ति तस्य प्रतिघातः कृतो भवति । तीर्थे च 'आस्था' स्वपक्ष-परपक्षयोरादरबुद्धिरुत्पादिता भवतीति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org