SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ उद्देशकः १, मूलं-६, [भा. १७७२] ४५१ संयमविराधा पन्नां कायानामुपमर्दादिना। तथा त्वरमाणत्वादेवन सूत्रं गुणयति, उपलक्षणत्वादर्थं च नानुप्रेक्षते, नैव प्रतिलेखनां वस्त्र-पात्रादेः करोति, अकालेऽविधिना वा करोति ।। एवमेतेमार्गे गच्छतांदोषाअभिहिताः। अथतत्रप्राप्तानांये दोषास्तानभिधित्सुरगाथामाह[भा.१७७३] चेइय आहाकम्म, उग्गमदोसा य सेह इत्थीओ। नाङग संफासण तंतु खुड्ड निद्धम्मकजा य॥ वृ- चैत्यानां स्वरूपं प्रथमतोवक्तव्यम्, तत आधाकर्म, तत उद्गमदोषाः, ततः शैक्षाणां पार्श्वस्थेषुगमनम्, ततः स्त्रीदर्शनसमुत्या दोषाः, ततो नाटकावलोकनप्रभवाः, ततः संस्पर्शनसमुत्थाः, तदनन्तरंतन्तवः-कोलिकजालं तद्विषयाः,तदनु "खुड्ड"त्ति पार्श्वस्थादिक्षुल्लकदर्शनसमुत्थाः,ततो निर्धर्मणां-लिङ्गिनांयानि कार्याणितदुत्थिताश्चदोषावक्तव्या इति द्वारगाथासमासार्थः।। अथैनामेव विवरीषुः प्रथमतश्चैत्यस्वरूपं व्याख्याति[भा.१७७४] साहम्मियाण अट्ठा, चउब्विहे लिंगओ जह कुटुंबी। मंगल-सासय-भत्तीइ जं कर्य तत्थ आदेसो।। कृचैत्यानिचतुर्विधानि, तद्यथा-साधर्मिकचैत्यानिमङ्गलचैत्यानिशाश्वतचैत्यानि भक्तिचैत्यानि चेति । तत्र साधर्मिकाणामय यत् कृतं तत् साधर्मिकचैत्यम् । साधर्मिकश्चात्र द्विधा-लिङ्गतः प्रवचनतश्चातत्रेह लिङ्गतोगृह्यते, स च यथा कुटुम्बी, कुटुम्बी नाम-प्रभूतपरिचारकलोकपरिवृतो रजोहरण मुखपोतिकादिलिङ्गधारीवारतकप्रतिच्छन्दः। तथा मथुरापुर्या गृहेषुकृतेषु मङ्गलनिमित्तं यद् निवेश्यते तद् मङ्गलचैत्यम् । सुरलोकादौ नित्यस्थयि शाश्वतचैत्यम् । यत्तु भक्त्या मनुष्यैः पूजा-वन्दनाद्यर्थंकृतंकारितमित्यर्थः तद्भक्तिचैत्यम् । तेन च भक्तिचैत्येन आदेशः' अधिकारः, अनुयानादिमहोत्सवस्य तत्रैव सम्भवादिति । एषा नियुक्तिगाथा ॥ अथैनामेव बिभावयिषुः साधर्मिकचैत्यं तावदाह[मा.१७७५] वारत्तगस्स पुत्तो, पडिमंकासी य चेइयहरम्मि। तत्थ य थली अहेसी, साहम्मियचेइयं तंतु॥ वृ-इहाऽऽवश्यके योगसङ्गमहेषु "वारत्तपुरेअभयसेण वारते' इत्यत्र प्रदेशे प्रतिपादितचरितो योवारत्तक इति नाम्ना महर्षि, तस्य पुत्रः स्वपितरि भक्तिभरापूरिततया चैत्यगृहं कारयित्वा तत्र रजोहरण-मुखवस्त्रिका-प्रतिग्रहधारिणीं पितुःप्रतिमामस्थापयत्, तत्र च 'स्थली' सत्रशाला तेन प्रवर्तिताआसीत्, तदेतत् साधर्मिकचैत्यम् । अस्यच साधर्मिकचैत्यस्यार्थाय कृतमस्माकंकल्पते अथ मङ्गलचैत्यमाह[भा.१७७६] अरहंतपइट्टाए, महुरानयरीए मंगलाइंतु। गेहेसुचच्चरेसुय, छनउईगामअद्धेसु । वृ-मथुरानगर्यां गृहे कृते मङ्गलनिमित्तमुत्तरङ्गेषुप्रथममर्हप्रतिमाः प्रतिष्ठाप्यन्ते, अन्यथा तद् गृहं पतति, तानि मङ्गलचैत्यानि । तानि च तस्यां नगर्यां गेहेषु चत्वरेषु च भवन्ति । न केवलं तस्यामेव किन्तु तत्पुरीप्रतिबद्धाये षत्रवतिसङ्ख्याका ग्रामार्धास्तेष्वपि भवन्ति । इहोत्तरापथानां ग्रामस्य ग्रामार्द्ध इति संज्ञा । आह च चूर्णिकृत्- गामद्धेसु त्ति देसभणिती, छन्नउईगामेसु त्ति भणियं होइ, उत्तरावहाणं एसा भणिइत्ति॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy