________________
४५०
बृहत्कल्प-छेदसूत्रम् -१-१/६ वृ-'स्नानं इह वर्षान्तः प्रतिनियतदिवसभावी भगवत्प्रतिमयाः स्नात्रपर्वविशेषः, अनुयानंरथयात्रा, आदिशब्दात् कुल-गण-सङ्घकार्यपरिग्रहः, तेषु स्नाना-ऽनुयानादिषु सङ्घमीलकेषु साम्प्रतमपि शतशः' शतसङ्ख्याः 'सहस्रः' सहस्रसङ्याः साधवः समवसृताः सन्तो यथा 'यतन्ते' आधाकर्मादिदोषशोधनायांप्रयत्नं कुर्वतेतथाजिनकालेऽपिते भगवन्तः 'शोधितवन्तः एषणाशुद्धिं कृतवन्त इत्यर्थः ॥ . ___ भूयोऽपिपरः प्राह-ननुच सरइव सागरः, खद्योत इव प्रद्योतनः, मृगइव मृगेन्द्रः' इत्यादिवदैदंयुगीनसमवसरणसत्कमेषणाशुध्धुपमानं तीर्थकरकालभाविनीमेषणा-शुद्धिमुपमातुमभिधीयमानं हीनत्वान्न समीचीनम्, अत आह[भा.१७७०] पच्चक्खेण परोक्खं, साहिजइ नेवएस हीनुवमा।
जं पुरिसजुगे तइए, वोच्छिन्नो सिद्धिमग्गो उ ।। वृ-इह 'प्रत्यक्षेण' उपमानवस्तुना परोक्षम्' उपमेयं वस्तु साक्षादनुपलभ्यमानमपि साध्यते इति शास्त्रे लोके च स्थिति । तथाहि-खुर-ककुद-लाल-सास्नाद्यवयवोपलक्षितमध्यक्षवीक्षितं गवादि वस्तु दृष्टान्ततयोपदय गवयादिकं परोक्षमपि प्रतीतिपथमारोप्यते । एवमत्रापि प्रत्यक्षवीक्ष्यमाणेन साम्प्रतकालीनसमवसरणसत्केनैषणाशोधनेन परोक्षमपि तीर्थकरकालभाविसमवसरणसाधूनामेषणाशोधनं साध्यते इति "नेव एस हीनुवम"तिन चेयंसर इव सागर इत्यादिवद् हीनोपमा, तीर्थकरकालेऽपि हि सहसङ्ख्या एव साधव एकत्र क्षेत्रे समवसरन्ति स्म, एतावन्तश्चते साम्प्रतमपि स्नाना-ऽनुयानादीपर्वणि समवसरन्त उपलभ्यन्ते शोधयन्तश्चैषणाम्, ततोऽनुमीयते तीर्थकरकालेऽप्येवमेव दोषान् शोधितवन्त इति । अपि च श्रीमन्महावीरस्वामी १ श्रीसुधर्मस्वामी २ जम्बूस्वामी ३ चेति त्रीणि पुरुषयुगानि यावदनगाराणां निर्वाणपदवीगमनमभवत्। तृतीयेचपुरुषयुगेनिरवृतेसति 'सिद्धिमार्ग' क्षपकश्रेणि-केवलोत्पत्त्यादिरूपो व्यवच्छिन्नः, न पुनर्ज्ञान-दर्शन-चारित्ररूपः शास्त्रपरिभाषितः, तस्येदानीमप्यनुवर्तमानत्वात् । ततश्च यदि तेषांसाधूनामुद्गमादिदोषशोधनं नाभविष्यत ततस्ते सिद्धिमार्गमपि नासादयिष्यन्। अतो निश्चीयते-तेऽपि भगवन्त इत्यमेवैषणाशुद्धिं कृतवन्त इति ।
अथानुयानविषयो विधिरुच्यते[भा.१७७१] आणाइणो य दोसा, विराहणा होइ संजमा-ऽऽयाए।
एवं ता वच्चंते, दोसात्ते अनेगविहा॥ वृ-निष्कारणे अनुयानं गच्छत आज्ञादयश्च दोषाः, विराधना च संयमा-ऽऽत्मनोभवति । एवं तावद् व्रजतो मार्गे दोषाः । तत्र प्राप्तानां पुनरनेकविधा दोषाः॥
तत्र संयमा-ऽऽत्मविराधनां भावयति[भा.१७७२] महिमाउस्सुयभूए, रीयादी न विसोहए।
तत्थ आया य काया य, न सुत्तं नेव पेहणा।। १. महिमा नाम-भगवत्प्रतिमायाः पुष्पारोपणादिपूजात्मकः सातिशय उत्सवस्तस्या दर्शनार्थमुत्सुकभूत ईर्यादिसमितीन विशोधयति, आदिशब्दादेषणादिपरिग्रहः । तत्र च' ईर्यादीनामशोधने आत्मा च कायाश्च विराध्यन्ते । आत्मविराधना कण्टक-स्थाण्वाद्युपधातेन,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org