________________
उद्देशकः १, मूलं-६, [भा. १७६५]
४४९ चाष्टमो भङ्गः शुद्धः, शेषास्तु सर्वेऽप्यशुद्धा इति । पात्रमप्युद्भिन्नं निष्कीर्णं चैवमेव वक्तव्यम् ।
तद्यथा-संयतार्थमुद्भिन्नं संयतार्थं चोत्कीर्णं १ संयतार्थमुद्भिन्नमात्मार्थमुत्कीर्णं २ आत्मार्थमुद्भिनं संयतार्थमुत्कीर्णं ३आत्मार्थमुभिन्नम् आत्मार्थमेव चोत्कीर्णम् ४।अत्र चतुर्थो भङ्गः शुद्धः, शेषास्त्रयोऽप्यशुद्धाः । 'यद् वा' क्रीतकृत-स्थापितादिकं यत्र वस्त्रे पात्रे वा क्रमते' अवतरति तत् तत्र सम्यगुपयुज्य योजनीयम् । अत्र घ तननं वितननं चाविशोधिकोटि पायनं विशोधिकोटिरित्याचार्यस्य मतम् । परस्तु ब्रवीति-पायनमविशोधिकोटि, कन्दादिजीवोपघातनिप्पन्नत्वात् तननं वितननं च विशोधिकोटि, जीवोपघातस्याश्यमानत्वादिति । अत्र सूरिराहनास्माकंजीवोपघातेनैवाधाकर्म किन्तु श्रमणार्थं वस्त्रादेयत् पर्यायान्तरनयनं तदप्याधाकर्ममन्तव्यम्॥
अपि च[भा.१७६६] अत्तट्टियतंतूहिं, समण ततो अपाइय वुतो अ।
किं सो न होइ कम्म, फासूण विपजिओ जोउ। दृ-आत्मार्थिताः-स्वार्थं निष्पादिता ये तन्तवस्तैः श्रमणार्थं यः पटः तत-पायितो व्युतश्च सः 'प्राशुकेनापि' स्वार्थमचित्तीकृतेन खलिकाद्रव्यसम्भारेण पायितः सन् किमाधाकर्म न भवति? त्वदुक्तनीत्या भवतीति भावः॥ [भा.१७६७] जइ पजणंतु कम्मं, इतरमकम्मं स कप्पऊ धोओ।
अह धोओ विन कप्पइ, तणणं विणणंच तो कम्मं ॥ वृ-ततो यदि जीवोपधातनिष्पन्नत्वात् पायनमाधाकर्म 'इतरत्' तननं वितननं च 'अकर्म' न आधाकर्मेति तर्हि सपटो धौतः सन् कल्पतां भवतः, अपनीतपायनिकालेपत्वात्। अथ ब्रवीथाः 'धौतोऽप्यसौ न कल्पते' ततस्तननं वितननं चार्थादाधाकर्म संवृत्तमिति सिद्धं नः समीहितम् ।।
गतं “गच्छसइए अकप्पे अंबिलभरिए अऊसित्ते" इतिद्वारम् अथ "परिहरणा अनुजाणे" त्ति द्वारं व्याख्यानयति[भा.१७६८] चोअग जिनकालम्,ि किह परिहरणा जहेव अनुजाणे ।
अइगमणम्मिय पुच्छा, निकारण कारणे लहुगा ॥ वृ-नोदकः प्रश्नयति-यदि शतिकेष्वपि गच्छेषु साम्प्रतमित्थमाधाकर्मादयो दोषा जायन्ते तर्हि जिनः-तीर्थकरस्तस्य काले साहेषु गच्छेषु साधवः कथमाधाकर्मादीनांपरिहरणं कृतवन्तः? इति । सूरिराह-यथैव अनुयाने' रथयात्रायां साम्प्रतमपिपरिहरन्तितथा पूर्वमपिपरिहृत-वन्तः। "अतिगमणम्मिय पुच्छ"त्ति शिष्यः पृच्छति-किमनुयाने 'अतिगमनं प्रवेशनं कर्त-व्यम् ? उत न? इति । आचार्य प्राह-“निक्कारण कारणे लहुग" त्ति निष्कारणे यदि गच्छति तदा चत्वारो लघवः, कारणे यदि न गच्छति तदाऽपि चत्वारो लघवः ।।
अथैतदेव भावयति[भा.१७६९] ण्हाणा-ऽनुजाणमाइसु, जतंति जह संपयं समोसरिया।
सतंसो सहस्ससो वा, तह जिनकले विसोहिंसु॥ [18]29
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org