________________
४४८
बृहत्कल्प-छेदसूत्रम् -१-१/६ वृ-संयतानेव केवलानाश्रित्य कृतं संयतकृतम् आधाकर्म । “देसि"त्ति देशतः' त्ति 'देशतः' एकदेशेन संयतादीनाश्रित्य कृतं देशकृतम्, स्वगृहमिश्रादिकमित्यर्थः । अप्राशुकेन प्राशुकेन वा संयतार्थं यद्भरणंतदप्याधाकर्म । “अत्तकडे विय ठविए"त्तिआत्मार्थकृतायामम्लिन्यां यदात्मार्थं भरणं तदपि यदि श्रमणार्थमुत्सिच्य बहि स्थापयति तदा स्थापनादोष इति कृत्वा न ग्रहीतव्यम् । यदि गृह्णाति तदा लधुको मास आज्ञादयश्च दोषाः । एषा नियुक्तिगाथा ।।
अथैनामेव व्याख्यानयति[भा.१७६२] देसकडा मज्झपदा, आदिपदं अंतिमंच पत्तेयं ।
उग्गमकोडी व भवे, विसोहिकोडी व जो देसो।। वृ-यानि मध्यपदानि स्वगृहमिश्र-पाषण्डमिश्र-यावदर्थिकमिश्र-क्रीतकृत-पूतिकर्मलक्षणानि तानि देशकृतान्युच्यन्ते, देशतः स्वगृहार्थं देशतस्तु साध्वाद्यर्थममीषां क्रियमाणत्वात् । यत् पुनः 'आदिपदम्' आधाकर्म 'अन्तिमपदं च' आत्मार्थकृतं तद् द्वितयमपि 'प्रत्येकं' एकपक्षविषयम्, केवलमेव साधुपक्षं स्वगृहपक्षं चोद्दिश्य प्रवृत्तत्वात्।अत्र च यः 'देशः' देशकृतः स्वगृहमिश्रादिको दोषः स उद्गमकोटिर्वा भवेत्, अविशोधिकोटिरित्यर्थः, विशोधिकोटिर्वा । तत्र स्वगृहमिश्र पाषण्डमिश्रं च नियमादविशोधिकोटी, पूतिकर्म यावदर्धिकमिश्रं क्रीतकृतं चेति त्रीणि विशोधिकोटयः आधाकर्मिकं पुनरेकान्तेनाविशोधिकोटि, आत्मार्थकृतं तु निरवद्यभेवेति ॥ [भा.१७६३] जंजीवजुयं भरणं, तदफासुंफासुयं तु तदभावा। .
तंपिय हु होइ कर्म, न केवलं जीवघाएण॥ वृ-यद् ‘जीवयुतं' राजिकादिबीजसहितं भरणं तदप्राशुकम् । तदभावात्' राजिकादिबीजाभावाद्यद्भरणंतत् प्राशुकम्। तदपिचनिर्जीवंभरणं हुनिश्चितंसंयतार्थं क्रियमाणमाधाकर्म भवति, न केवलं जीवघातेन' राजिकादिबीजजन्तूपघातेन निष्पन्नमिति ।।
अथोत्सिक्तपदं भावयति[भा.१७६४] समणे घर पासंडे, जावंतिय अत्तणो य मुत्तूणं ।
छट्ठो नस्थि विकप्पो, उसिंचणमो जयहाए । वृ- काञ्जिकस्य सौवीरिणीतो यद् निष्काशनं तद् उत्सिक्तम् । तच्च पञ्चधा-श्रमणार्थं साधूनामर्थायेत्यर्थः १ स्वगृहयतिमिश्रं २ पाषण्डिमिश्रं ३ यावदर्थिकमिश्रं ४ आत्मार्थकृतम् ५। एतान् पञ्च भेदान् मुक्त्वा अपरः षष्ठो विकल्पो नास्ति यदर्थमुत्सेचनं भवेत् । अत्र चात्मार्थ यद् गृहिभिरुत्सिक्तं तदेव ग्रहीतुं कल्पते न शेषाणीति ।।उक्त आहारविषयो विधइः ।
अथोपधिविषयं तमेवाह[भा.१७६५] तत पाइयं वियं पि य, वत्थं एकेक्कगस्स अट्ठाए।
पाउब्भिन्न निकोरियं च जंजत्थ वा कमइ।। वृ- वस्त्रमेकैकस्यार्थाय ततं पायितं विततं च वक्तव्यम् । तद्यथा-संयतार्थं ततं संयतार्थं पायितं संयतार्थमेव च विततं १ संयतार्थं ततमात्मार्थं पायितं आत्मार्थमेव विततम् ४, एवमात्मार्थततेनापि चत्वारो भङ्गा लभ्यन्ते, जाता अष्टौ भङ्गाः । अत्र घाष्टमो भङ्ग- शुद्धः, त्रयाणामप्यात्मार्थंकृतत्वात्। एवंस्वगृहमिश्र-पाषण्डमिश्र-यावदर्थिकमिश्रेष्वपि द्रष्टव्यम्, सर्वत्रापि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org