________________
उद्देशक : १, मूलं-६, [भा. १७५८]
४४७
ततश्च यदा सप्ताम्लिन्यः सप्त च भरणानि गृह्यन्ते तदा एकनोपञ्चाशद् ‘भेदाः' भङ्गका भवन्ति । अथान्यानप्युद्गमदोषान प्रक्षिप्य बहुतराः सौवीरिण्यो बहतराणि च भरणानि विवक्ष्यन्ते ततः 'शताग्रशः' शतसङ्घयापरिच्छिन्ना अपि भेदा मन्तव्याः ॥अथाधाकर्मिकभरणं भावयति
मूलभरणं तु बीया, तहि छम्मासा न कप्पए जाव।
तिनि दिणा कड्डियए, चाउलउदए तहाऽऽयामे ।। 'मूलमरणं नाम' प्राशुकायामम्लिन्यां राजिकादीनि बीजानि संयतार्थं यत् प्रक्षिप्यन्ते तच्चाधाकर्मिकम् । अतस्तत्र यदन्यत्प्राशुकमपि क्षिप्यते तत्पन्नासान् यावत्र कल्पते परतस्तु कल्पते । अथतस्यारसिन्याः सकाशात् तदाधाकर्मिकमाकर्षितंततस्तस्मिन्नाकर्षिते 'चाउलोदगं' तन्दुलधावनंतथा आयामम्' अवावणं यत्तत्र क्षिप्यते तत्त्री दिनान्न कल्पते पूतिकर्मत्वात्, तत ऊर्ध्वं कल्पते ॥ अथ स्वगृहमिश्रादिभरणान्यतिदिशन्नाह
एमेव सघर-पासंडमीस जाव कीय-पूइ-अत्तकडे ।
कय कीयकडे ठविए, तहेव वत्थाइणं गहणं ।। ‘एवमेव' आधार्मिकभरणवत्स्वगृहमिश्रं पाषण्डमिश्रं यावदर्थिकमिश्रक्रीतकृतं पूतिकर्म आत्मार्थकृतं च भरणं मन्तव्यम् । वस्त्रादिविषयमप्यतिदेशमाह-"कय" इत्यादि पश्चार्द्धम् । ‘कृते' संयतार्थं निप्पादिते 'क्रीतकृते' मूल्येन गृहीते 'स्थापिते साध्वर्थ निक्षिप्ते तथैव' पानकवद् वस्त्रादीनां ग्रहणं भावनीयम् । एतच्च पश्चार्द्धमुत्तरत्र भावयिष्यते ।।
अथानन्तरोक्तभङ्गकेषुप्रायश्चित्तमाह[भा.१७५९] जेन असुद्धा रसिणी, भरणं वुभवं व तत्थ जाऽऽरुवणा।
सुद्धभय लहूसित्ते, कम्ममजीवे वि मुनिभरणे ॥ वृ-पूर्वोक्तभङ्गकेषु यत्र 'येन' आधाकर्मादिना दोषेणाशुद्धा रसिनी भरणं वा 'उभयं वा' सौवीरिणी-भरणयुगं यत्र येन दोषेण दूषितं तत्र तद्दोषनिष्पन्ना या काचित् प्रत्येकं संयोगतो वा आरोपणा सा वक्ष्यमाणनीत्या वक्तव्या । तथा यत्र रसिनी भरणं चोभयमपि शुद्धं परं संयतार्थं पानकमुसिक्तं तत्र लघुमासः । “कम्ममजीवे विमुणिभरणे"त्ति यदजीवमपि-प्राशुकमपि मुनीनां हेतोभरणं क्रियते तदप्याधाकर्म मन्तव्यं परं विशोधिकोटिः ।।
अथाधाकर्मादिभेदेष्वारोपणामाह[भा.१७६०] तित्रेव य चउगुरुगा, दो लहुगा गुरुग अंतिमो सुद्धो।
एमेव य भरणे वी, एक्वेक्कीए उ रसिणीए । वृ-आधाकर्मणि स्वगृहमिश्रे पाषण्डमि च प्रत्येकं चतुर्गुरुकमिति त्रयश्चतुर्गुरवो भवन्ति । 'द्वयोः' यावदर्थिक-क्रीतकृतयोश्चतुर्लघवः। भक्तपानपूतिके गुरुमासः। उपकरणपूतिकेलधुमास इत्यनुक्तमपि दृश्यम्। 'अन्तिमः' आत्मार्थकृतलक्षणो भेदः शुद्धः । एवमेकैकस्यां रसिन्यामुक्तम्। भरणेऽप्येकैकस्मिन्नेवमेवमन्तव्यम् ।। अथासामेवाम्लिनीनां मध्ये का विशोधिकोटिः ? कावा अविशोधिकोटिः ? इत्यादिचिन्ताचिकीर्षुराह[भा.१७६१] संजयकडे य देसे, अप्फासुग फासुगे य भरिए अ ।
अत्तकडे वि य ठविएष लहुगो आणाइणो चेव ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org