________________
४४६
बृहत्कल्प-छेदसूत्रम् -१-१/६
शीलं येषां ते तथा, नापि च नित्यं पानकार्थमभिपतन्ति, अनियतभिक्षाटनशीलत्वादेषाम् ।। इत्थमुक्ते यद्यसौ गृहस्वामी ब्रूयात्[भा.१७५२] अम्ह वि होहिइ कजं, घिच्छंति बहू य अन्नपासंडा।
पत्तेयं पडिसेहो, साहारे होइ जयणा उ ।। वृ-अस्माकमपि भविष्यति कार्यकालिकेन, ग्रहीष्यन्ति च बहवोऽन्येऽपियुष्मद्यतिरिक्ताः पाषण्डिन इति। तत्र साधारणे यतना कर्त्तव्या, यथा-अस्माकंतावत्र कल्पते । “पत्तेयं पडिसेहो" त्ति अथ गृहपतिर्भणति-अन्येऽपि निर्ग्रन्थाः पानकार्थमायास्यन्ति तेभ्यो दास्यते । इत्थं प्रत्येक निर्ग्रन्थानेवाश्रित्याभिधीयमाने प्रतिषेधः कार्य 'न कल्पते साधूनामित्थं विधीयमानम्' ।। एवंप्रतिषिद्धेऽपि कोऽपि सप्त सौवीरिणीः स्थापयेत्, ताश्चैताः[भा.१७५३]आहाकम्मिय१ सघरपासंडमीसए३ जाव४ कीय५ पूई६ अत्तकडे७।
एकेक्कम्मिय सत्त उ, कए य काराविए चेव ॥ वृ-'आधाकर्मिका' साधूनामेवार्थाय कारिता १ 'स्वगृहयतिमिश्रा' गृहस्य साधूनां चाय निर्मापता २ 'स्वगृहपाषण्डमिश्रा' गृहस्य पाषण्डिनां चाय कारिता ३ यावदर्थिकमिश्रा तु' साध्वर्थं मूल्येन गृहीता 'पूतिकर्मिका' आधाकर्मिकसुधादिना पूरितच्छिद्रा ६ आत्मार्थकृता' स्वगृहार्थमेव स्थापिता७। एतासां सप्तानां सौवीरिणीनामेकैकस्यां सप्त सप्त भरणानि भवन्ति । सप्त च सप्तभिस्ताडिता एकोनपञ्चाशद् भवति । एषाच प्रत्येकं कृते करापिते च सम्भवति । ततो द्वाभ्यां गुण्यते जाता भेदानामष्टानवतिरिति ।। अथ सप्त भरमानि दर्शयति[भा.१७५४] कम्मघरे पासंडे, जावंतिय कीय-पूइ-अत्तकडे ।
भरणं सत्तविकप्पं, एकेकीए उ रसिणीए॥ वृ-आधाकर्मिकं १ स्वगृहयतिमिश्रं २ स्वगृहपापण्डिमिश्रं ३ यावदर्थिकमिश्रं ४ क्रीतकृतं ५ पूतिकर्मिकम् ६ आत्मार्थकृतंचेति७ सप्तविकल्पं सप्तप्रकरांभरणमेकैकस्या रसिन्यां' सौवीरिण्यां भवति । अथ किं सप्तैवाम्लिन्यो भवन्ति नाधिकाः? इत्युच्यते[भा.१७५५] सत्त त्ति नवरि नेम्मं, उग्गमदोसा हवंति अन्ने वि ।
संजोगा कायव्वा, सत्तहि भरणेहि रसिणीणं ।। वृ-सप्तेति यदुक्तं तद् 'नवरं' केवलं "नेम्मं" चिह्नम्-उपलक्षणं द्रष्टव्यम्, तेन 'उद्गमदोषाः' औद्देशिकादयः 'अन्येऽपि यथासम्भवमत्रमन्तव्याः यैः प्रक्षिप्तैरभ्यधिका अप्यम्लिन्यो भवन्ति। अत्रच 'संयोगाः' भङ्गकाः कर्त्तव्याः सप्तभिर्भरणैः सप्तानामेव रसिनीनाम्।तद्यथा-आधार्मिका सौवीरिणी भरणमपि तस्यामाधाकर्मिकम् १ आधाकर्मिका सौवीरिणी भरणं स्वगृहयतिमिश्रम् २ एवं सौवीरिणी सैव भरणंतु पाषण्डिमिश्रं ३ यावदर्थिकमिश्रं ४ क्रीतकृतं ५ पूतिकर्मिकम् ६ आत्मार्धकृतम् ७ । एवं स्वगृहयतिमिश्रादिप्वपि सौवीरिणीषु प्रत्येकं सप्त सप्त भरणानि योजनीयातितश्च कियन्तो भङ्गका उत्तिष्ठन्ते? इत्याह[भा.१७५६] जावइया रसिणीओ, तावइया चेव होंति भरणा वि।
___ अउणापत्रं भेया, सयग्गसो याविणेयव्वा ।। वृ-'यावत्यः' यावत्सङ्क्रयाका रसिन्यः 'तावन्त्येव' तावत्सङ्ख्याकान्येव भवन्ति भरणानि ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org