SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ ४४५ उद्देशक : १, मूलं-६, [भा. १७४७] रात्रिन्दिवानि । सुप्रत्युपेक्षितं सुप्रमार्जितमिति चतुर्थो भङ्गः शुद्ध इति ।। गतं कल्पकरणद्वारम् । अथ “गच्छसइए अ कप्पे अंबिलमभरिए अ ऊसित्ते" त्ति द्वारमभिधित्सुः प्रथमतः समबन्धमाह[भा.१७४८] भुत्ते भुंजतम्मि य, जम्हा नियमा दवस उवओगो। समहियतरो पयत्तो, कायव्यो पानए तम्हा॥ वृ-'भुक्ते' भोजनानन्तरंपानार्थं संज्ञाभूमिगमनार्थंचभुआनानांच उत्तूढलग्नरक्षणार्थंयस्माद् नियमाद् 'द्रवस्य' पानकस्योपयोगो भवति तस्माद्' भक्तग्रहणप्रयत्नात् समधि कतरः प्रयत्नः पानकग्रहणे कर्तव्य इति, अतस्तद्रहणविधिरुच्यते ।। इह शतिकेषु सहेषु वा गच्छेषु प्रभूतेन पानकेन कार्यं भवति, तच्च कल्पनीयमेव ग्रहीतव्यम्, अतस्तद्विधिप्रतिबद्धद्वारसङ्क्रामिमां गाथामाह[भा.१७४९] पानगजाइणियाए, आहाकम्मस्स होइ उप्पत्ती। पूती य मीसजाए, कडे य भरिए य ऊसित्ते। -पानकस्य याच्यायामाधाकर्मण उत्पत्तिर्भवति सा वक्तव्या । ततः "पूई"त्ति पूतिका "मीस" त्ति स्वगृहयतिमिश्रा स्वगृहपाषण्डिमिश्रा स्वगृहयावदर्थिकमिश्रा च "कडे य'त्ति आधाकृता क्रीतकृता आत्मार्थकृताच अम्लिनी वक्तव्या । “भरिएय"त्तिभरणं भरितमम्लिनीनामभिधातव्यम् । “ऊसित्ति"त्ति उत्सेचनमुसिक्तं तद् वक्तव्यमिति द्वारगाथा-सार्थ ॥ अथ विस्तरार्थमाह[भा.१७५०] अन्नन्न दवोभासण, संदेसा पुन बेइ घरसामी। कलं ठवेहि अन्नं, महल्लसोवीरिणिं गेहे ॥ वृ-कोऽपि भद्रको गृहपतिरन्यान्यान् सङ्घाटकान् द्रवस्यावभाषणं कुर्वाणान् दृष्टवा तेषां च मध्ये केषाञ्चित् सङ्घाटकानां “सन्देशं' मुत्कलनं-'गृहीतमग्रेतनैः सङ्घाटकैः पानकम्, नास्तीदानी भवद्योग्यम्' इति क्रियमाणं निरीक्ष्य "पुत्रे "ति पुण्यार्थगृहस्वामिनीं ब्रवीति-धर्मप्रिये! मा कञ्चनापि साधुंजङ्गमं निधिमिव गृहाङ्गणमायातं प्रतिषेधयेः, कि भवत्या दानधर्कथायामयं श्लोको नाकर्णितः ?, यथा दातुरुन्नतचित्तस्य, गुणयुक्तस्य चार्थिनः। दुर्लभः खलु संयोगः, सुबीज-क्षेत्रयोरिव ॥ ततः सा ब्रूयात्-नास्त्येतावतां साधूनां योग्यं काञ्जिकम् । ततोऽसौ गृहपतिब्रूयात्- कल्ये स्थापयान्यां महतीं 'सौवीरिणीम्' अम्लिनीं गेहे येन सर्वेषामपि योग्यपानकं पूर्यते ।। एतच्चाकर्ण्य वक्तव्यम्[भा.१७५१] मा काहिसि पडिसिद्धो,जइ बूया कुणसु दानमन्नेसिं। ते वुद्दिविवजी, न यावि निच्चं अहिवडंति ।। वृ-न कल्पते एवं विधीयमानं ग्रहीतुमतोमा कार्षी । यद्येवं प्रतिषिद्धः स गृहस्वामी ब्रूयात्"प्रिये ! कुर्यास्त्वं तावदपरां सौवीरिणीम्, यद्येष न ग्रहीष्यति ततोऽन्येषां साधूनां पानकदानं करिष्यते' ततो वक्तव्यम्-तेऽपि साधवः 'उद्दिष्टविवर्जिनः' साधर्मिकमुद्दिश्य कृतं वर्जयितुं For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy