________________
४५२
शाश्वतचैत्य-भक्तिचैत्यानि दर्शयति
[ भा. १७७७]
बृहत्कल्प - छेदसूत्रम् - १- १/६
निइयाइ सुरलोए, भत्तिकयाइं तु भरहमाईहिं । निस्सा ऽनिस्सकयाई, जहि आएसो चयसु निस्सं ॥
वृ- 'नित्यानि ' शाश्वतचैत्यानि 'सुरलोके' भवनपति व्यन्तर-ज्योतिष्क- वैमानिकदेवानां भवननगर - विमानेषु उपलक्षणत्वाद् मेरुशिखर- वैताढ्यादिकूट- नन्दीश्वर-रुचकवरादिष्वपि भवन्तीति । तथा भक्त्या भरतादिभिर्यानि कारितानि अभूतण्यर्थत्वाद् भक्तिकृतानि । अत्र च “जहि आएसो " त्ति येन भक्तिचैत्येन 'आदेशः' प्रकृतम् तद् द्विधा-निश्राकृतमनिश्राकृतं च । निश्राकृतं नाम - गच्छ्प्रतिवद्धन्, अनिश्राकृतं तद्विपरीतम् सङ्घसाधारणमित्यर्थः । "चयसु निस्सं "ति यद् निश्राकृतं तत् 'त्यज' परिहर । अनिश्राकृतं तु कल्पते ॥
गतं चैत्यद्वारम् । अथाधाकर्मद्वारमाह
[भा. १७७८] जीवं उद्दिस्स कडं, कम्मं सो वि य जया उ साहम्मी ! सो विय तइए भंगे, लिंगादीणं न ससेसु ॥
वृ- जीवमुद्दिश्य यत् षट्कायविराधनया कृतं सोऽपि च यदि जीवः 'साधर्मिकः' समानधर्मा भवति 'सोऽपि च ' साधर्मिकः 'लिङ्गादीनां' 'लिङ्गतः साधर्मिको न प्रवचनतः' इत्यादीनां चतुर्णां भङ्गानां 'तृतीये भङ्गे' 'लिङ्गतः प्रवचनतोऽपि' इत्येवंलक्षणे यदि वर्त्तते न शेषेषु तदेतदाधाकर्म मन्तव्यम् ॥
अथ तीर्थकरप्रतिमार्थं यन्निर्वर्त्तितं तत् किं साधूनां कल्पते न वा ? इत्याशङ्कानिरासार्थमाह[भा. १७७९] संवट्टमेह - पुप्फा, सत्थनिमित्तं कया जइ जईणं । नहु लब्धा पडिसिद्धुं किं पुन पडिमट्ठमारद्धं ।। वृशास्ता तीर्थकरस्तस्य निमित्तं यानि देवैः संवर्त्तकमेघ-पुष्पाणि समवसरणभूमौ कृतानि तानि यीनां यदिप्रतिषेद्धुं न लभ्यानि तेषां तत्रावस्थातुं यदि कल्पते इति भावः तर्हि किं पुनः 'प्रतिमार्धम्' अजीवानां प्रतिमानां हेतोरारब्धम् ?, तत् सुतरां न प्रतिषेधमर्हतीत्यभिप्रायः ।। आह यदि तीर्थकरार्थं संवर्तकमेघ-पुष्पाणि कृतानि तर्हि तस्य भगवतस्तानि प्रतिसेवमानस्य कथं न दोषो भवति ? इति उच्यते
"
[भा. १७८०] तित्थयरनाम - गोयस्स खयट्ठा अवि य दाणि साभव्वा । धम्मं कइ सत्था, पूयं वा सेवई तं तु ॥
वृ- तीर्थकरनाम - गोत्रस्य कर्मणः क्षयार्थं 'शास्ता' भगवान् धर्मं कथयति, 'पूजां च' महिमां तामनन्तरोक्तं संवर्त्तकवातप्रभृतिकामासेवते । भगवता हि तीर्थकरनाम गोत्रं कर्मावश्यवेदनीयम्, विपाकोदयावलिकायामवतीर्णत्वात् । तस्य च वेदनेऽयमेवोपायः यदग्लान्या धर्मदेशनाकरणं सदेव-मनुजा-ऽसुरलोकविरचितायाश्च पूजाया उपजीवनम् । तं च कहं वेइज्जइ, अगिलाए धम्मदेसणाईहि । तथा
उदए जस्स सुरा- सुर-नरवइनिवेहेहि पूइओ लोए । तं तित्थयरं नामं, तस्स विवागो उ केवलिणो ॥
इति वचनप्रामाण्यात्। ‘अपिच' इत्यभ्युच्चये । “दाणि”त्तिनिपातो वाक्यालङ्कारे । “साभव्व"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org