________________
उद्देशक : १, मूलं- ६, [भा. १७२२]
धाव्यन्ते संज्ञाभूमीपानकं च भवति तावन्मात्रं गृहीत्वा समायातु ॥
आचार्य प्राह-एवंकुर्वता आत्मा च परश्चप्रवचनं च परित्यक्तानि भवन्ति । तत्रात्मा कथं त्यक्तो भवति ? इत्युच्यते
४३९
[भा. १७२३] संदंसणेन बहुसो, संलाव- ऽनुराग-केलि आउभया । देती नु कंजियं णुं, जइस्स इट्ठो त्ति य भांति ॥
वृ- तस्यैकाकिनो भूयो भूयस्तद्गृहं प्रविशतो याऽसौ काञ्जिकदात्री अविरतिका तस्याः सम्बन्धिना बहुशः सन्दर्शनेन संलापा ऽनुराग-केलिप्रभृतय आत्मोभयसमुत्था दोषा भवेयुः । संलापः सङ्कथा, अनुरागः सन्दर्शनेन संलापा ऽनुराग-केलिप्रभृतय आत्मोभयसमुत्था दोषा भवेयुः । संलापः- सङ्कथा, अनुरागः-परस्परमात्यन्तिकी प्रीति, केलि-परिहासः । तथा यद्येष प्रव्रजितकः पुनः पुनरेति याति च तत् किमस्य 'ददती' पानकदायिका इष्टा ? उत काञ्चिकम् ? इत्येवमगारिणस्तमुद्दिश्य भणन्ति । नुशब्द उभयत्रापि वितर्के । प्रवचनं यथा परित्यक्तं भवति तथा दर्शयति
[भा. १७२४]
आयपरोभवदोसा, चउत्थ तेणट्टसंकणा णीए । दोघं णु चारिओ णुं, करेइ आयट्ट गहणाई ||
वृ- 'आत्मपरोभयदोषाः' आत्मनः स्वस्मात्रस्याः - काञ्चिकदायिकायास्तदुभयस्माच्च एते दोषा भवेयुः । तद्यथा चतुर्थे चतुर्थाश्रवद्वारविषया स्तैनार्थविषयाच शङ्का तस्या स्कैर्निजकैः क्रियते। यथा- 'नुः' इति वितर्के, किमेष प्रव्रजितकः, कस्याप्युद्मामकस्य मैथुनदौत्यं करोति यदेवमायाति याति च ? यद्वा चारिको भूत्वा चौराणां हेरिकतां कर्त्तुमित्यमायाति ? यद्वा आत्मार्थमेवायमित्थं करोति ? स्वयमेव मैथुनार्थी हर्तुकामो वेत्यर्थः । इत्थं शङ्क्रमानास्ते तस्य साधोर्ग्रहणाऽऽकर्षणादीनि कुर्यु । ततः प्रवचनं परित्यक्तं भवति ।। परः कथं परित्यक्तो भवति ? इत्युच्यते[ भा. १७२५] गिण्हंति सिज्झियाओ, चिद्दं जाउग सवत्तिणीओ अ । सुत्तत्परिहाणी, निग्गमणे सोहिवुड्डी य ।।
वृ- गृह्णन्ति 'छिद्रं' दूषणं काञ्जिकदायिकायाः, काः ? इत्याह- 'सिज्झिकाः ' सहवासिन्यः, प्रातिवेश्मिकस्त्रिय इत्यर्थः, “जाउग’त्ति 'यातरः' ज्येष्ठ- देवरजायाः 'सपत्यः' प्रतीताः, यथायदेष संयतो भूयो भूयः समायाति तद् नूनमस्या अयमुद्रामक इति । ततो यदा तया सहासवडमुपजायते तदा तत् प्राग्विकल्पितं दूषणं साक्षात् तत्पतेः पुरत उद्गिरन्ति । तथा सूत्रार्थविषया परिहाणि पुनः पुनर्गच्छतो भवि । “निग्गमणे सोहिवुड्डी य" त्ति त्रीन् चतुरो वा वारान् निर्गमने शोधिवृद्धिश्च तथैव द्रष्टव्या यथा भिक्षाद्वारे प्रागुक्तम् । यत एते दोषा अतो नैकाकिना भूयो भूयो गन्तव्यम् ।। कथं पुनस्तर्हि गन्तव्यम् ? इत्याह
[भा. १७२६] संघाइएण एगो, खमए बिइयपय वुढमाइन्ने । पुच्वुद्धि (द्दि) एन करणं, तस्स व असई य उस्सित्ते ।।
वृ सङ्घाटकेन भावितकुलेषु प्रविश्य पानकं ग्रहीतव्यम् । द्वितीयपदे एकोऽपि यः क्षपको वृद्धो वा अशङ्कनीयः स आकीर्णेषु भावितकुलेषु पानकं गृह्णाति । तच्च पानकं यत् पूर्वमेव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org