________________
४४०
बृहत्कल्प-छेदसूत्रम् -१-१/६ सौवीरिण्याउद तं-पृथक् स्थापितं तेन कल्पकरणं कर्त्तव्यम् । तस्य वा' पूर्वोद्व तस्य 'असति' अभावे उत्सेचनमुसिक्तं तदपि कारापणीयम् । एषा पुरातनगाथा ।।
अथैनामेव भाष्यकृद् विवृणोति[भा.१७२७] भावितकुलेसु धोवितु भायणे आनयंति सेसट्ठा ।
तविहकुलाण असई, अपरीभोगादिसुजयंति ॥ वृ-भावितकुलानि नाम-येषु पूर्वोक्ताः शङ्कादयो दोषा न स्युस्तेषु गत्वा गृहस्थभाजने मण्डल्युपजीविक्षपकभाजने गुरुभाजनेवाद्रवंगृहीत्वास्वकीयभाजनानि धौत्वाशेषाणांभाजनानां धावनार्थं संज्ञाभूमिगतानामाचमनार्थंचापरमपि पानकमानयन्ति । तद्विधानां भावितकुलानाम् 'असति' अभाव अपरिभोग्यादिषु यतन्ते, अपरिभोग्यानि नाम अव्यापार्यमाणभाजनानि तेषु, आदिग्रहणामण्डल्यनुपजीविनः क्षपकस्य भाजनेषुनन्दीभाजनेवा, द्रवं गृहीत्वा संसृष्टभाजनानां कल्पं कुर्वन्ति । तच्चपानकंपूर्वोत्सिक्तमेवगृह्णन्ति ॥ननुयदिसौवीरिणीमुदृत्य दीयमानं गृह्णन्ति ततः को दोषः स्यात् ? उच्यते[भा.१७२८] ओअत्तम्मि वहो, पानानं तेण पुन्वउस्सित्तं ।
असती वुस्सिंचणिए, जंपेक्खइ वा असंसत्तं ।। वृ. "ओयत्तंतम्मि"त्ति प्राकृतत्वात् पुंस्त्वनिर्देशः, सौवीरिण्याम् 'उद्वय॑मानायाम्' उत्पट्यमानायां ये तत्र सौवीरगन्धेन कंसारिकादयः प्राणजातीया आयाताः सन्ति तेषां बाधा भवति, तेनाकारणेनपूर्वोत्सिक्तंग्रहीतव्यम्।अथनास्ति पूर्वोसिक्तंततस्तस्यासतिउत्सिञ्चनिकया उत्सिञ्चाप्य यतनया गृह्णन्ति । अथ नास्त्युत्सिञ्चनिका ततो यत् पार्श्व प्राणिभिरसंसक्तं प्रेक्षन्ते तेनोद्वर्त्य गृहिभाजनं प्रातिहारिकं याचित्वा तत्र द्रवं गृहीत्वा भाजनानि कल्पयन्ति । आह च[भा.१७२९] गिहिसंति भाण पेहिय, कयकप्पा सेसगंदवं घेत्तुं ।
धोअण-पियणस्सट्ठा, अह थोवं गिण्हए अन्नं ।। वृ- गृहिसत्कं भाजनं प्रत्युपेक्ष्य यदि निर्जीवं भवति तदा तत्र द्रवं गृहीत्वा 'कृतकल्पाः' स्वकीयभाजनानि कल्पयित्वा शेषं द्रवमन्येषां भाजनानां धावनार्थं भुक्तोत्तरकालं च पानार्थम् उपलक्षणत्वात् संज्ञाभूमिगमनार्थं च गृहीत्वा समायान्ति ! अथ तत्र स्तोकमेव द्रवं लब्धं ततो यावता पर्याप्तं भवति तावदन्यदपरेषु गृहेषु गृह्णन्ति ॥अथ “एगो खमए बिइयपय वुड्डमाइन्ने" त्ति पदं व्याख्यानयति[भा.१७३०] जा भुंजिता वेला, फिट्टइ तो खमग धेरओ वाऽऽणे।
तरुणो वन नायसीलो, नीयल्लग-भावियादीसु॥ वृ-"जा भुंजइ"त्तिप्राकृतत्वादेकवचनेन निर्देशः, यावद् वासाधवो भुञ्जते तावत् पानकस्य वेला “फिट्टति" व्यतिक्रामति ततः 'क्षपकः" उफवासिकाः 'स्थविरो वा' वृद्धोऽशङ्कनीय इति कृत्वा कल्पकरणार्थमेकाक्यपि “आने" त्ति पानकमानयेत् । तरुणो वा यः 'ज्ञातशीलः' ढधर्मा निर्विकारश्च स एकाक्यपि निजकानां-मातृ-पितृपक्षीयस्वजनानां कुलेषु भावितकुलेषु वा आदिशब्दादन्येष्वपि तथाविधकुलेषु प्रविश्य पानकं गृह्णीयात् ।। अथात्रैव कल्पकरणद्वारे विध्यन्तरं बिभणिषुरिगाथामाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org