________________
४३८
बृहत्कल्प-छेदसूत्रम् - १-१/६
'अगन्धं' नञः कुत्सार्थत्वादतीवदुर्गन्धि भाजनं भवति । तादृशे च भाजने गृहीतस्य द्रव्यस्यओदनादेर्विनाशो भवति । तस्मिन् भुञ्जानस्य च विरसगन्धाघ्राणत ऊद्धर्वादीनि भवन्ति । ऊर्द्धवमनम्, आदिशब्दादरोचक-मान्द्यादिपरिग्रहः । 'अवर्णश्च' प्रवचनस्योड्डाहो भवति । तथाहिलोको भिक्षां ददानो दुर्गन्धि भाजनं दृष्टवा गर्हते - ईशा एवैते अशुचयः पापोपहता इति । “संसज्जुणाऽऽहारे”त्ति दुर्गन्धिनाऽऽहारे पनक-कुन्थुप्रभृतयः प्राणिनः संसजेयुः ॥ यत एवमतः[भा. १७१९ ] लेवकडे कायव्वं, परवयणे तिनि वार गंतव्वं । एवं अप्पा य परो, य पवयणं होंति चत्ताइं ।।
वृ-लेपकृतभाजे कर्त्तव्य कल्पकरणम् । अत्र परः - प्रेरकस्तस्य वचने त्रीन् वारान् कल्पप्रायोग्यपानकग्रहणार्थं गृहपतिगृहे गन्तव्यमिति । सूरिराह एवंक्रियमाणे आत्मा च परश्च प्रवचनं च भवन्ति परित्यक्तानीति नियुक्तिगाथासमासार्थ ॥ अथैनामेव विवरीषुराह
[ भा. १७२०] गोउल विरूवसंखडि, अलंभे साधारणं च सव्वेसिं । गहियं संती य तहिं, तक्कुच्छुरसादि लग्गट्ठा ॥
वृ- गच्छे साधवः सुबहवो भवेयुः, तैश्च भिक्षां हिण्डमानैर्गोकुले दुग्ध-दध्यादीनि प्राचुर्येण लब्धानि, 'विरूपायांवा' अनेकमक्ष्य-भोज्यप्रकारायां सङ्खड्यामुत्कृष्टमशनादिद्रव्यं लभ्येत, तैश्च साधुभिः 'अलाभे' अन्यत्र तथाविधस्य दुर्लभद्रव्यस्यासम्प्राप्तौ सर्वेषां साधारणमुपष्टम्भकारकमिदमिति मत्वा सर्वाण्यपि भक्तभाजनानि भृत्या पानकप्रतिग्रहेष्वपि गृहीतम् । ततः प्रतिश्रयमागता यावत् पानकेन विना न शक्यते समुद्देष्टुम् आहारस्य गलके विलगनात्, ततः किं कर्त्तव्यम् ? इत्याह- सन्ति च तत्र तक्रेक्षुरसादीनि, आदिशब्दाद् दुग्धादीनि च तान्यपान्तराले आपिबेत् । किमर्थम् ? इत्याह- "लग्गड "त्ति लगनं लग्नम्, भावे क्तप्रत्ययः, आहारस्य गलके विलगनमुत्तूहणं कथं भाजनानि कल्पयितव्यानि ? इत्युच्यते
[भा. १७२१]
मंडलितक्की खमए, गुरुभाणेणं व आनयंति दवं ।
अपरीभोगऽतिरित्ते, लहुओऽनाजीविभाणे य ।।
वृ- यः क्षपकः " मण्डलितक्की" मण्डल्युपजीवकस्तस्य भाजनेन गुरूणां भाजनेन वा 'द्रवं' पानकमानयन्ति । अथापरिभोग्येषु भाजनेषु भाजनेषु 'अतिरिक्ते वा' नन्दीभाजने मण्डल्यनुपजीविक्षपकभाजने वाद्रवमानयन्ति तदा लघुको मासः ॥ अथ "परवचने त्रीन् वारान् गन्तव्यम्”
इति पदं व्याख्यानयति
[भा. १७२२ ] भणइ जइ एस दोसो, तो आइमकप्पमाण संलिहिउं । अन्नेसि तदं दाउं, तो गच्छइ बिइय-तइयाणं ।।
वृ- 'भणति' परः प्रेरयति - यद्येषः 'दोष' प्रायश्चित्तापत्तिलक्षणस्ततोऽहं विधिं भणामि-प्रतिग्रहं संलिख्य तत एकाकी गृहपतिगृहे प्रविश्य 'आदिमकल्पमानं' यावता सर्वसाधुभिरादिमः कल्पः क्रियते तावन्मात्रं द्रवं गृहीत्वाऽन्येषां साधूनां 'तत्' पानकं दत्त्वा ततः स्वयं प्रथमकल्पं करोतु । कृत्वा च ततो गच्छति द्वितीय-तृतीययोः कल्पयोः । इदमुक्तं भवति-द्वितीयकल्पकरणार्थं द्वितीयं वारं तत्र गृहे प्रविश्य तावन्मात्रं द्रवं गृहीत्वा प्राग्वदन्यसाधूनां दत्त्वा द्वितीयकल्पं करोतु, ततः तृतीयं वारं भूयः प्रविश्य तावन्मात्रं गृहीत्वा तथैव तृतीयं कल्पं कृत्वा यावन्मात्रेण शेषभाजनानि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org