________________
४३६
बृहत्कल्प-छेदसूत्रम् - १-१/६
पमपि विकृतिर्न भवति । 'क्षीरं तु' दुग्धं पुनः 'निरवयवम्' अवयवरहितम्, नवनीतं प्रक्षणम् अवगाहिमं पक्वान्नम् एते अपि निरवयवे, एतद्विषयाणामवयवानां पृथगव्यवहियमाणत्वादिति ।। [ भा. १७१०] घयघट्टो पुन विगई, वीसंदण मो य केइ इच्छति । तेल्ल-गुलाण अविगई, सूमालिय-खंडमाईणि ॥
वृ- 'घृतघट्टः पुनः' घृतस्य सम्बन्धी यः किट्टी महियाडुकमित्यर्थः स विकृतिर्व्यवहियते । विस्पन्दनं नाम- अर्द्धनिर्दग्धघृतमध्यक्षिप्ततन्दुलनिष्पन्नम् । उक्तञ्च पञ्चवस्तुकटीकायाम्-वीसंदणं अद्धनिद्दवघयमज्झछूढतंदुलनिफन्नं ति । "भो” इति पादपूरणे । चशब्दोऽपिशब्दार्थे । विस्पन्दनमपि केचिद् विकृतिमिच्छन्ति न पुनर्वयम् । यदाह चूर्णिकृत्- अम्हाणं पुम वीसंदणं अविगइ त्ति । तैलगुलयोर्यथाक्रमं यानि सुकुमारिका-खण्डादीनि तानि 'अविकृति' विकृतिर्न भवतीत्यर्थः । सुकुमारिका - तैलकिट्टविशेषः, खण्डः प्रतीतः, आदिशब्दात् शर्करा-मत्स्यण्डिकदिपरिग्रहः ॥ [ भा. १७११] महुणो मयणमविगई, खोलो मज्जस्स पोग्गले पिउडं । रसओ पुन तदवयवो, सो पुन नियमा भवे विगई ||
कृ- 'मधुनः माक्षिकादिभेदभिन्नस्यावयवो यद् मदनं तदविकृति । मद्यस्य यः 'खोलः” किट्टविशेषः सोऽपि न विकृति । पुद्गलस्य यत् 'पिटकम्' उज्झम् अस्थि वा तदप्यविकृति । 'रसकः पुनः' वसा मेद यस्तस्य - पुद्गस्यावयवः स पुनर्नियमाद् भवेद् विकृतिः ॥
अथ पिण्डरसपदं व्याख्यानयति
[भा. १७१२]
अंबाड-कवि, मुद्दीया माउलिंग कयले य ।
खजूर - नालिएरे, कोले चिंचा य बोधव्वा ॥
वृ- आम्रं आम्रातकं कपित्थं 'मुद्रिका' द्राक्षा 'मातुलिङ्गं' बीजपूरकं "कयलं" कदलीफलं 'खर्जूरं नालिकेरम्' उभयमपि सुप्रसिद्धं 'कोलः' बदरचूर्णं 'चिञ्चा' अम्लिका चशब्दादन्यान्यप्येवंविधानि पिण्डरसद्रव्याणि बोद्धव्यानि । एतानि च विकृतयो न भवन्ति ॥ यत आहखजूर - मुद्दिया- दाडिमाण पीलुच्छु- चिंचमाईणं । पिंडरसन विगईओ, नियमा पुन होंति लेवाडा ||
[भा. १७१३]
वृ- खर्जूर-मुद्रिका - दाडिमानां पीलु इक्षु-चिञ्चादीनां च सम्बन्धिनौ यौ पिण्डरसौ तौ 'अविकृती' विकृती न भवतः, नियमात् पुनर्लेपकृतौ भवत इति । उक्तानि लेपकृतानि । लेपकृतैः संसृष्टस्य भाजनस्य कल्पः करणीयः । यदि पुनरस्य भाजनस्य लेपः स्फटितो भवति ततः कल्पत्रये कृते ऽपि लेपकृतमेव तद् मन्तव्यम् । अतस्तद्दोषपरिहारार्थमाह
[भा. १७१४] कुट्टिमतलसंकासो, भिसिणीपुक्खलपलाससरिसो वा । सामास धुवण सुक्खावणा य सुहमेरिसे होंति ।
वृ- यथा कुट्टिमतलंनिम्नोत्रमतप्रदेशरहितं सर्वतः सममेव भवते एवं पात्रकस्य लेपोऽपि कुट्टिमतलसङ्काशः सर्वतः सम एव कर्त्तव्यः । तथा बिसिनी पद्मिनी स्या यत् पुष्कलं विस्तीर्णं पलाशं पत्रं तत्र पतितं जलं यथा नावतिष्ठते एवं यत्र सूक्ष्मसिक्थाद्यवयवा लग्ना अपि न स्थितिं कुर्वन्ति स बिसिनीपुष्कलपलाशसदृशः । ईशे लेपे पात्रसय् समास-धावन - शोषणाः सुखमेव कर्तु शक्यन्ते । सम् इति सम्यक् प्रवचनोक्तेन विधिना आङ इति मर्यादया पात्रकलेपमवधीकृत्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org