SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १, मूलं-६, [भा. १७०४] ४३५ महता प्रयलेन परिहरेत् । सर्वोपकरणमपि स्तेन-प्रत्यनीकाधुपद्रवभयाद् वृद्धत्वादधुनोत्थिग्लानत्वाद्वा न गृह्णीयात् । इयत् पुनरवश्यमेव ग्रहीतव्यम्-पात्रभाण्डकं चोलपट्टको रजोहरणं मुखवस्त्रिका चेति । मात्रकमप्यनाभोगादिना न गृह्णीयात् । कायोत्सर्गादीन्यपि ग्लानादिकार्येषु त्वरमाणो न कुर्यादिति । उक्तं सप्रतिपक्षद्वारम् । तदुक्तौ च गतं भिक्षाद्वारम् । अथ कल्पकरणद्वारमभिधित्सुराह[भा.१७०५] भाणस्स कप्पकरणे, अलेवडे नत्थि किंचि कायव्द । तम्हा लेवकडस्सउ, कायव्वा मग्गणा होइ॥ वृ-भाजनस्य कल्पकरणे चिन्त्यमाने यदलपकृतं द्रव्यं तद् यत्र प्रक्षिप्तं तस्य भाजनस्य न किञ्चित् कर्त्तव्यम्, कल्पो न विधेय इत्यर्थः । लेपकृतभाजनस्य त्ववश्यं कल्पो दातव्य इत्यतो लेपकृतस्य मार्गणा कर्तव्या, कीशं लेपकृतम् ? अलेपकृतं वा ? इति चिन्तनीयमित्यर्थः ॥ तत्रालेपकृतानि तावदाह[भा.१७०६] कुंजसिण-चाउलोदे, संसट्ठा-ऽऽयाम-कट्ठमूलरसे। कंजियकढिए लोणे, कुट्टा पिज्जा य नित्तुप्पा ।। वृ-कालिकम्-आरनालम्, उष्णोदकम्-उद्वत्तत्रिदण्डम्, “चाउलोदगं" तन्दुलधावनम्, संसृष्टं नाम-गोरससंसृष्टे भाजने प्रक्षिप्तं सद्यदुदकंगोरसरसेन परिणामितम्, 'आयामम्' अवश्रावणम्, “कट्ठमूलरसे" त्ति काष्ठमूलं-चणक-चवलादिकं द्विदलं तदीयेन रसेन यत् परिणामितं तत् काष्ठमूलरसनामपानकम्, तथा यत् कालिकक्कथितम्, “लोणि"त्ति सलवणम्, या च "कुट्टा" चिञ्चिनिका, 'पेया च' प्रतीता 'निस्तुप्पा' अचोप्पडा अवग्घारिता वा ॥ तथा [भा.१७०७] कंजिय-उदगविलेवी, ओदण कुम्मास सत्तुए पिढे । मंडग समिउस्सिने, कंजियपत्ते अलेवकडे ॥ इ-विलेपिका द्विविधा-एका काजिकविलेपिका, द्वितीयाउदकविलेपिका । 'ओदनः तन्दुलादि भक्तम्, 'कुल्माषाः' उडदा राजमाषा वा, 'सक्तवः' भ्रष्टयवक्षोदरूपाः, 'पिष्टं' मुद्गादिचूर्णम्, 'मण्डकाः' कणिक्कामयाः, ‘समितं' अट्टकः, उत्स्विन्त्रम्' उण्डेरकादि, 'काञ्जिकपत्रं' काञ्चिकेन बाष्पितं अरणिकादिशाकम् । एतानि काञ्चिकादीन्यलेपकृतानि मन्तव्यानि ।। अथ लेपकृतानि निरूपयति[भा.१७०८] विगई विगइअवयवा, अविगइपिंडरसएहि जं मीसं । गुल-दहि-तेल्लावयवे, विगडम्मिय सेसएसुंच ॥ धृ. दधि-दुग्ध-घृतादिका या विकृतयो ये च विकृतीनामवयवाः-मन्थुप्रभृतस्तैर्यद् मिश्रं यच्चाविकृतिरूपैः पिण्डरसैः-खर्जूरादिभिर्भिश्रं एतत् सर्वमपि लेपकृतमिति प्रक्रमः । अत्र च गुडदधि-तैलानां येऽवयवाः यश्च विकटे' मद्येऽवयवः 'शेषेषुच' घृतादिषुयेऽवयवास्ते केचिद् विकृतयः केचिच्चाविकृतयः प्रतिपत्तव्याः ॥अथैनामेव नियुक्तिगाथां विवृणोति[भा.१७०९] दहिअवयवो उ मंथू, विगई तकंन होइ विगई उ । खीरंतु निरवयवं, नवनीओगाहिमा चेव।। वृ-दनः सम्बन्धीयोमन्थुइति नाम्ना प्रसिद्धोऽवयवः स विकृति। यत्तु तक्रंतद्दध्यवयवरू For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy