________________
४३४
बृहत्कल्प-छेदसूत्रम् -१-१/६ पानं वा मात्रकं विना क्व शोधयतु? । यदि मात्रकमभविष्यत् ततस्तत्र शोधयित्वा परिष्ठापयेत् प्रतिग्रहे प्रक्षिपेद्वा । यत् एवमतः कर्त्तव्यंमात्रकग्रहणम् ॥गतं मात्रकद्वारम्।अथ कायोत्सर्गद्वारम्कायोत्सर्गमकृत्वा व्रजतिमासलघु।दोषाश्चात्र-कश्चिद्योगप्रतिपन्नस्तस्य तद्दिवसमाचाम्लम्, स चोपयोगकायोत्सर्गमकृत्वा गतो दनः करम्बंगृहीत्वा समायातः,पश्चादपरैः साधुभिस्तस्याचम्लं स्मारितम् ततः कायोत्सर्गं कृत्वा निर्गच्छेत् । तत्रच कायोत्सर्गे चिन्तयेत्-यथा अद्य किं मे आचाम्लम्? उत निर्विकृतिकम् ? उताहो अभक्तार्थम् ? आहोश्चिदेकाशनकम् ? इति । इत्थमुपयोगं दत्त्वा प्रत्याख्यानानुगणमेवाहारं गृह्णाति॥
गतं कायोत्सर्गद्वारम् । अथ यस्य च योग इति द्वारम्-यस्य-वस्त्र-पात्र-शैक्षादेर्योगः-सम्बन्धो भविष्यति तदपि ग्रहीष्यामीति यदि न भणति तदाऽपि मासलघु । वस्त्र-पात्रादिकं च ग्रहीतुं न कल्पते ।। अथ सप्रतिपक्ष इति द्वारम्-एष द्वारकलापः सप्रतिपक्षः-सापवादो मन्तव्यः । तद्यथाआचार्याद्यर्थं बहूनपि वारान् प्रविशेत् । प्रथम-द्वितीयपरीषहपीडितो यद्यप्यतप्रभातं तदाऽपि निर्गच्छेत्, यत्र च मानुषाणि विबुद्धानि तत्रगत्वा धर्मलाभयेत्, ग्लान-प्राघूर्णकादीनां हेतोरतिक्रान्तेऽपिनिर्गच्छेत् ।अनाभोगतो ग्लानादिषुवा कार्येषुव्यापृतः सन्नावश्यकमप्यविशोध्य निर्गच्छेत् । निर्गतश्च संज्ञया बाध्यमानो यदि प्रतिश्रयः प्रत्यासन्नस्ततो निवर्त्तते । अथ दूरे ततो यदिकालोन पूर्यते तदातयोरेकः पात्रकाणिधारयति इतरः संज्ञाव्युत्सृजति अथसागारिकास्तत्र पश्यन्ति ततः समनोज्ञानां प्रतिश्रयं गत्वा व्युत्सृजति । तदभावे अमनोज्ञानां संविग्नानाम् । तेषामलाभेपार्श्वस्थादीनाम्। तेषामप्यभावेसारूपिकाणाम्।तदसत्त्वेसिद्धपुत्रकाणाम्।तेषामप्राप्तौ श्रावकाणां वैद्यस्य वा गृहे । एतेषामभावे राजमार्गे गृहद्वयमध्यभागे वा गृहस्थसत्के वा अवग्रहे कायिकीवजं व्युत्सृजति । ततो यद्यसौ गृहपतिस्तां संज्ञां त्याजयति तदा राजकुले व्यवहारो लभ्यते । यथा
त्रयः शल्या महाराज!, अस्मिन् देहे प्रतिष्ठिताः।
वायु-मूत्र-पुरीषाणां, प्राप्तं वेगं न धारयेत् ।। तथा सङ्घाटकं विनाऽपि निर्गच्छेत् । कथम् ? इति चेद् उच्यतेयदि दुर्भिक्षे चिरमप्यटित्वा पर्याप्तं लभ्यते ततो द्वावेव पर्यटतां न पुनरेकाकी । अथ द्वयोरप्येकैव भिक्षा लभ्यते न च कालः पूर्यते तत एकोऽपि पर्यटेत् । यदि सर्वेऽपि खग्गूडत्वादात्मलब्धिका भवन्ति तदा प्रतिषेद्धव्याः । अथ कोऽपि प्रियधर्मा मातृस्थानविरहित आत्मलब्धिकत्वं प्रतिपद्यते ततः सोऽनुज्ञातव्यः । यः पुनरमनोज्ञः स अन्यान्यैः साधुभि समं संयोज्य प्रेष्यते । यदि सर्वेऽपि नेच्छन्ति ततः परित्यजनीयोऽसौ । अथ स एवैकः कलहकरणलक्षणस्तस्य दोषः अपरे निर्लोभत्वादयो बहवो गुणा एषणाशुद्धौ चातीव दृढता ततो न परित्यक्तव्य इति । यत्र श्वान-गवादयो दुष्टा भवन्ति तद्गृहं यद्यमानभोगतः प्रविष्टस्ततः कुड्य-कटनिश्रया तिष्ठति, दण्डकेन वा तान् वारयति । यदि काचिदविरतिका तमुपसर्गयेत् ततो धर्मकथा कर्तव्या। तया यधुपशाम्यति ततः सुन्दरम्, नो चेदभिघातव्यम्-एतानि व्रतानि गुरुसमीपे स्थापयित्वा समागच्छामीति । यदि प्रत्यनीकगृहमनाभोगतः प्रविष्टस्ततो महता शब्देन तथा बोलं करोति यथा भूयाँल्लोको मिलति । त्रयाणां गृहाणांमध्ये स्थितः सन्नुपयोगं कृत्वा भिक्षां गृह्णीयात् । पञ्चानामपि महाव्रतानामतिक्रम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org