________________
४२८
बृहत्कल्प - छेदसूत्रम् - १-१/६
[ भा. १६८४] मासे पक्खे दसराय य पणए अ एगदिवसे य । वाघाइमपाहुडिया, होड़ पवाया निवाया य ॥
वृ- या प्राभृतिका 'मासे' मासस्यान्ते 'पक्षे' पक्षस्यान्ते 'दशरात्रे' दशानामहोरात्राणां पर्यन्ते 'पञ्चके' पञ्चरात्रिन्दिवान्ते 'एकदिवसे' एकान्तरिते दिने चशब्दाद् निरन्तरं दिने दिने इत्यर्थः, एवं प्रतिनियते काले या क्रियते सा छित्रकालिका । या तुन ज्ञायते कस्मिन् दिवसे विधीयते सा अच्छिन्नकालिकेति । व्याघातिप्राभृतिका नाम या सूत्रार्थपौरुषीवेलायां क्रियते । भवति प्रवाता निवाता चेति । प्रवाता नाम-या ग्रीष्मकाले अपराह्ने उपलेपनादिकरणेन धर्मं नाशयति । या तु शीतकाले पूर्वाह्ने उपलेपनकरणेन रात्रौ व्यपगतत्रेहा जायते सा निवाता भण्यते ।।
अथ कस्यां प्राभृतिकायां वस्तुं कल्पते ? कस्यां वा न ? इति अत आह
[भा. १६८५ ] पुव्वण्हे अवरण्हे, सूरम्मि अनुग्गए व अत्यमिए । मज्झतिए व वसही, सेसं कालं पडिक्कुट्टा ॥
वृ- पूर्वाह्णे अनुद्गते सूर्ये, अपराह्णेतु अस्तमिते, 'मध्यान्ते वा' मध्याह्नवेलायाम् अर्थपीरुष्या उत्थितेषु इत्यर्थः, एतेषु कालेषु यस्यां प्राभृतिका क्रियते सा वसतिरनुज्ञाता, सूत्रार्थव्याघाताभावात् । " सेसं कालं " ति सप्तम्यर्थे द्वितीया, 'शेषे' उद्गतसूर्यादौ काले यस्यां प्राभृतिका विधीयते सा प्रतिक्रुष्टा, न कल्पते तस्यां वस्तुम्, सूत्रार्थव्याघातसम्भवात् ॥ अथ निर्दिष्टा ऽनिर्दिष्प्रामृतिके भावयति
[ भा. १६८६ ] पुरिसज्जाओ अमुगो, पाहुडियाकारओ उ निद्दिट्ठो । सेसा उ अनिद्दिट्ठा, पाहुडिया होइ नायव्वा ॥
वृ- अमुकः 'पुरुषजातः ' पुरुषप्रकारः प्राभृतिकाकारक इन्द्रदत्तादिनाम्ना यस्यां निर्दिष्टः सा निर्दिष्टा । शेषा तु सर्वाऽप्यनिर्दिष्टा प्राभृतिका भवति ज्ञातव्या ॥
अथ पूर्वोक्तभङ्गाष्टकविषयं विधिमाह[भा. १६८७]
काऊण मासकप्पं, वयंति जा कीरई उ मासस्स । सा खलु निव्वाघाया, तंवेलारेण निंताणं ॥
वृ- इह प्रथमे भङ्गे या मासस्यान्ते क्रियत इति कृत्वा च्छिन्नकालिका, तत्राप्यपराह्न एव विधीयमानत्वाद् नियता, अमुकपुरुषकर्तृकत्वेन च निर्दिष्टा । तस्यां कृतायां प्रथमतः प्रविष्टास्ततो मासकल्पं कृत्वा यदि व्रजन्ति । कथम् ? इत्याह- "तंवेलारेण निंताणं” ति तस्याः प्राभृतिकाकरणवेलाया अर्वाग् निर्गच्छतां सा प्राभृतिका निव्यार्घाता मन्तव्या सूत्रार्थव्याघाताभावात्, कल्पते तस्यां वस्तुमिति भावः । शेषा द्वितीयादयो भङ्गाः कापि कथञ्चित् सव्याघाता इति कृत्वा तेषु न कल्पते ॥ अथ प्रवाता निवातेति च पदद्वयं भावयति
[ भा. १६८८ ] अवरण्हे गिम्ह करणे, पवाय सा जेण नासयइ धम्मं । पुव्वण्हे जा सिसिरे, निव्वाय निवाय सा रत्तिं ॥
वृ-ग्रीष्मे अपराह्णे यदुपलेपनस्य करणं सा प्रवाता। कुतः ? इत्याह-येना सा रात्रौ 'नाशयति' व्यपनयति 'धर्म' ग्रीष्मर्तुसम्भवं तापम् । या तु 'शिशिरे शीतकाले पूर्वाह्न उपलेपनकरणेन दिवसस्य चतुर्भिः प्रहरै: 'निवाता' शुष्का इत्यर्थः सारात्रौनियाता भवति । एतयोः कारणतोऽवस्थातुं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org