________________
४२७
उद्देशक : १, मूलं-६, [भा. १६७९] इति । अथात्रैव प्रायश्चित्तमाह[भा.१६८०] सव्वम्मि उचउलहुया, देसम्मी बायराए लहुओ उ ।
सव्वम्मि मासियं खलु, देसे भिन्नो य सुहुमाए । वृ-बादरायांप्राभृतिकायामनन्तरोक्तायामेव सर्वतः करिष्यमाणायांकृतायांवा तिष्ठति चत्वारो लघवः । देशतः करिष्यमाणायांकृतायां वातिष्ठतोमासलघु । सूक्ष्मायांप्राभृतिकायांवक्ष्यमाणायां सर्वतो विधास्यमानायां विहितायां वा तिष्ठतिमासलघु। देशतस्तस्यामेव भिन्नमासः ।। सापुनः सूक्ष्माप्राभृतिका पञ्चविधा । तामेवाह[भा.१६८१] संमजण आवरिसण, उवलेवण सुहुम दीवए चेव ।
ओसक्कण अहिसक्कण, देसे सव्वे य नायव्वा । वृ-'सम्मार्जन' बहुकरिकया प्रमार्जनम्, 'आवर्षणम्' उदकेन च्छटकप्रदानम्, 'उपलेपनं' छगणमृत्तिकया भूमिकाया लेपनम्, “सुहुमे"त्ति सूक्ष्माणि' समयभाषया पुष्पाण्युच्यन्ते, तथा च दशवैकालिकनियुक्तौ पुष्पाणामेकार्थिकानि
पुष्फा य कुसुमा चेव, फुल्ला य कुसुमा विय।
सुमणा चेव सुहुमा य, सुहुमकाइया विय ।। ततश्च पुष्पाणां प्रकरचनेत्यर्थः । 'दीवए चेव" त्ति दीपकप्रज्चालनम् । एतानि पूर्वमात्मार्थं क्रियमाणान्येव विद्यन्ते । नवरं साधून प्रतीत्य देशतः सर्वतो वा यदवष्वष्कणमभिष्वष्कणं वा क्रियते सा सूक्ष्मप्राभृतिका ज्ञातव्या ।। अथास्या एवावष्वष्कणा-ऽभिष्वष्कणे भावयति[भा.१६८२] जावन मंडलिवेला, ताव पमजामो होइओसक्का ।
उडेतु ताव पढिउं, उस्सकण एव सव्वत्थ ॥ वृ-यावत् 'मण्डलीवेला' स्वाध्यायमण्डलीकालो नोपढौकते तावत् प्रमार्जयाम इत्येवं विचिन्यानागतमेव यदि प्रमार्जयन्ति तदाऽवष्वष्कणं भवति । अथ साधवः स्वाध्यायं कुर्वाणास्तदानीं मण्डल्यामुपविष्टाः सन्ति ततश्चिन्तयन्ति-उत्तिष्ठन्तु तावदमी पठित्वा ततः पश्चात् प्रमार्जयिष्यामइति विचिन्त्य तथैव यदि कुर्वतेतदा उत्ष्वष्कणंभवति। एवमवष्वष्कणमभिष्वष्कणं च 'सर्वत्र' आवर्षणोपलेपनादावपि भावनीयम् ।। सा पुनः सूक्ष्मप्राभृतिका द्विविधा[भा.१६८३] छिन्नमछिन्ना काले, पुनो य नियया य अनियया चेव ।
निद्दिद्वाऽनिद्दिवा, पाहुडिया अट्ठ भंगा उ । वृ- ‘काले' कालतश्छिन्ना अच्छिन्ना वा, छिन्नकालिका अच्छिन्नकालिका चेत्यर्थः । यस्यामुपलेपनादिकं छिन्ने-प्रतिनियते मासादौ काले क्रियते सा छिन्नकालिका । या तु यदा तदा वा क्रियते सा अच्छिन्नकालिका । पुनरेकैका द्विधा-नियता अनियता चैव । नियता नामयापूर्वाह्लादावेव वेलायामवश्यमेव वा क्रियते । तद्विपरीता अनियता । पुनरेकैका द्विविधानिर्दिष्टा अनिर्दिष्टा च । तत्र यः प्राभृतिकाकारकः सन निर्दिष्ट:-इन्द्रदत्तादिनाम्नोपलक्षितः तेन क्रियमाणा प्राभृतिका अपि निर्दिया । तद्विपरीता अनिर्दिष्टा । अत्र च त्रिभि पदैरष्टौ भङ्गा भवन्ति, तद्यथा-छिन्नकालिका नियता निर्दिया १ छिन्नकालिका नियता अनिर्दिष्टा २ इत्यादि ॥ अथ च्छिन्नकालिकां व्याख्यानयति
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org