________________
४२६
बृहत्कल्प-छेदसूत्रम् -१-१/६ अभिष्वष्कणं-तस्यैवविवक्षितकालस्य संवर्द्धनम्, परतः करणमित्यर्थः । पुनरेकैके विध्वंसनादयो द्विधा देशतः सर्वतश्च ज्ञातव्याः । तत्र देशतः सर्वतो वा विध्वंसनमभिष्वष्कणतो भाव्यतेकेनचिद् गृहपतिना चिन्तितम्-यथेदं गृहंज्येष्ठमासे भक्त्वा ततोऽभिनवं करिष्याम इति । इतश्च ज्येष्ठमासे तत्र गृहे साधवो मासकल्पेन स्थिताः, ततोऽसौ चिन्तयति[भा.१६७६] अच्छंतु ताव समणा, गएसु भंतूण पच्छ काहामो।
ओभासिए व संते, न एंति जा भंतुणं कुणिमो ।। वृ-इदानीं तावद् आसतां तिष्ठन्तु श्रमणाः, गतेषुतेषु ‘पश्चाद्' आषाढमासे भक्त्वा करिष्याम इति, एतदभिष्वष्कणम् ।अथाष्वष्कणमाह-"ओभासिएव" इत्यादि । क्षेत्रप्रत्युपेक्षकैरवभाषिते प्रदत्ते चोपाश्रये सति स गृहपतिश्चिन्तयति-ज्येष्ठमासे तावदत्र साधवः स्थास्यन्ति, अतो यावत् ते नागच्छन्ति तावद् वैशाखे मासे भक्त्वा कुर्म इति, एतदवष्वष्कणम् ।। भावितं विध्वंसनपदम्।
अथ च्छादनादीन्यतिदिशन्नाह[भा.१६७७] एसेव कमो नियमा, छज्जे लेवे य भूमिकम्मे य।
तेसाल चाउसालं, पडुच्चकरणं जईनिस्सा ।। वृ- एष एवाभिष्वष्कणतोऽवष्वष्कणतश्च क्रमो नियमाद् मन्तव्यः । क्व ? इत्याह-'छज्जे' छादने ‘लेपे' लिम्पने भूमिकर्मणि च । तिष्ठन्तु तावदिदानीं श्रमणाः, पश्चाद् गतेषु सत्सु गृहं छादयिष्यामो लेप्स्यामोभूमिंवा परिकर्मयिष्यामइति, एतदभिष्वष्कणम् । एतान्येवच्छादनादीनि यद्यनागतमेव करोति तदाऽवष्कष्कणम्।अथ प्रतीत्यकरणंभाव्यते-“तेसाल" इत्यादि । त्रिशालं गृहं कर्तुकामो यतीनां निश्रया तान्प्रतीत्येति भावः चतुःशालं यत् करोतितत्प्रतीत्यकरणमुच्यते अथवा[भा.१६७८] पुवघरं दाऊण व, जईण अन्नं करिति सट्टाए ।
काउमणा वा अन्न, पहाणाइसु कालमोसक्के ।। वृ- 'पूर्वगृहं' स्वार्थ पूर्वं कृतं यद् गृहं तद्यतीनां दत्त्वा स्वार्थम् ‘अन्यद्' अभिनवं यदगारिणः कुर्वन्ति तद् वा प्रतीत्यकरणम् । अथवा केऽपि श्राद्धाः स्वार्थमन्यद् गृहं ज्येष्ठमासे कर्तुमनसः परं तत्र वैशाखमासि स्नानादिकं जैनचैत्येषु भविता ततस्ते चिन्तयन्ति-अनागतमेव गृहं कुर्मो येन तत्र साधवो वैशाखमासिस्नानादिषु समायातास्तिष्ठन्ति । एवं साधून्प्रतीत्य कालभवष्वष्कयेयुः एतदवष्वष्कणतः प्रतीत्यत्करणमुक्तम् ॥अथाभिष्वष्कणतस्तदेवाह[भा.१६७९] एमेव यण्हाणाइसु, सीयलकज्जट्ट कोइ उस्सक्के ।
मंगलबुद्धी सो पुन, गएसु तहियं वसिउकामो॥ वृ-'एवमेव' अवष्वष्कणवत्कोऽपि श्राद्धः शीतकाले गृहं कर्तुकामश्चन्तयति- वैशाखमासि स्नानं रथयात्रा वेह भविष्यति, तत्र च साधवः समागमिष्यन्ति तच्च तदानीमेव कृतं नवगृहं शीतलं भवति, शीतले च तस्मिन् साधवः सुखमासिष्यन्ते, अथः स्नानादिप्रत्यासन्न एव समये करिष्यामि' इति साधून्प्रतीत्यस्नानादिषुशीतलकार्यार्थ यत् कोऽष्युत्ष्वष्कतेएतदभिष्वष्कणतः प्रतीत्यकरणम्।सपुनरवष्वष्कणमभिष्वष्कणं वा मङ्गलबुध्धा करोति, यथा-पूर्वं साधवो मदीयं नवगृहं यदि परिभुञ्जतेततः पवित्रं भवतीति।गतेषु च तेषतत्र नवगृहे स्वयमेव स्वयमेव वस्तुकाम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org