________________
उद्देशक ः १, मूलं-६, [भा. १६७१]
४२५ निर्गतस्तस्यामेव भूयः 'आलयम् उपाश्रयमुपैति, तृतीयस्यामित्यर्थः । एवमेवचक्षेत्रसङ्क्रमणेऽपि द्रष्टव्यम्, क्षेत्रात् क्षेत्रान्तरगमनमपितृतीय्यां करोतीति भावः । स्थविरकल्पिका अपिनिष्कारणे तृतीयस्यामेव निर्गत्य भिक्षामटित्वाप्रतिश्रये समुद्दिश्य संज्ञाभूमिंगत्वा तस्यामेव प्रत्यागच्छन्ति। क्षेत्रसङ्कमप्येवमेव । कारणतस्तु न कोऽपि प्रतिनियमः ॥ तथा चाह[भा.१६७२] अतरंत-बाल-बुट्टे, तवस्सि-आएसमाइकज्जेसु ।
बहुसो वि होज विसणं, कुलाइकज्जेसुय विभासा वृ-अतरन्तः-ग्लानस्तस्य तथा बाल-वृद्धयोः तपस्विनः-क्षपकस्य आदेशस्य-प्राधूर्णकस्य आदिशब्दादाचार्योपाध्याय-शैक्षका-ऽलब्धिमप्रभृतीनां यानि कार्याणि-तप्रायोग्यभक्तपानीषधादिग्रहणरूपाणि तेषु 'बहुशोऽपि' बहूनपि वारान् गृपतिगृहेषु प्रवेशनं गच्छसाधूनां भवति । तथा कुलादिकार्येषु, आदिग्रहणाद् गण-सङ्घपरिग्रहः । कुलं-नागेन्द्र-चन्द्रादि, गणःकुलसमुदायः, गणसमुदायः सङ्घः चतुर्वर्णरूपो वा, तत्कार्येषु च विभाषा कर्तव्या । सा चेयम्कुले गणे सङ्घ वा आभाव्या-ऽनाभाव्यविषयः कोऽपि व्यवहारः समुपस्थितः तस्य यथावत् परिच्छेदनं कर्त्तव्यम्, प्रत्यनीको वा कोऽपि साधूनामुपस्थितः तस्य शिक्षणं विधेयम्, चैत्यद्रव्यं वा कश्चिद् निशङ्ख मुष्णाति स शासितव्यो वर्तत इत्यादि । तथा[भा.१६७३] उच्चार-विहारादी, संभम-भय-चेइवंदणाईया ।
आयपरोभयहेउं, विनिग्गमा वन्निया गच्छे ।। वृ-उच्चाचारः-पुरीषं तस्य उपलक्षणत्वात् प्रश्रवण-खेलादेश व्युत्सर्जनार्थं बहिर्गन्तव्यम् । विहारो नाम-वसतावस्वाध्यायिके समुत्पन्ने सति स्वाध्यायनिमित्तमन्यत्र गमनम्, आदिग्रहणात् पूर्वृहीतपीठफलक-शय्या-संस्तारकप्रत्यर्पणप्रभृतिपरिग्रहः । सम्भ्रमो नाम-उदका-ऽग्निहस्त्याद्यागमनसमुत्थ आकस्मिकः संत्रासः, भयं तु-सामान्येन दुष्टस्तेनाद्युपद्रवप्रभवम्, चैत्यानिजिनबिम्बानि तेषां वन्दनम्, आदिशब्दादपूर्वबहुश्रुताचार्यन्दनादिपरिग्रहः एवमादीनि यान्यात्मनः परेषामुभयस्य वा हेतोः कार्याणि तन्निमित्तं गच्छे बहुशोऽपि प्रतिश्रयाद् विनिर्गमाः 'वर्णिताः' प्रतिपादिता इति । गतं निष्क्रमणद्वारम् । अथ प्राभृतिकाद्वारं विभावयिषुराह[भा.१६७४] पाहुडिया विय दुविहा, बायर सुहुमा य होइ नायव्वा ।
एकेका वि य एत्ते, पंचविहा होइ नायव्वा ॥ वृ-'प्राभृतिका' वसतेश्छादन-लेपनादिरूपा, सा द्विविधा-बादरा सूक्ष्मा च भवति ज्ञातव्या । एकैकाऽपि चेत उद्धं पञ्चविधा भवति ज्ञातव्या ।। तत्र बादरां पञ्चविधामपि तावदाह[भा.१६७५] विद्धंसण छायम लेवणे य, भूमीकम्मे पडुच्च पाहुडिया।
ओसक्कण अहिसक्कण, देसे सव्वे य नायव्वा ।। वृ-'विध्वंसनं सतेभञ्जनम्। 'छादनं दर्भादिभिराच्छादनम्। 'लेपन' कुड्यानांकर्दमेन गोमयेन च लेपप्रदानम् । 'भूमिकर्म' सम-विषमाया भूमेः परिकर्मणम् । “पडुच्च"त्ति 'प्रतीत्यकरणं' त्रिशालं गृहं कर्तुकामः साधून्प्रतीत्य चतुःशालंकरोति,आत्मीयंवा गृहंसाधूनांदत्त्वाआत्मार्थमपरं कारयतीत्यादि । एषा पञ्चविधाऽपिबादरप्राभृतिका प्रत्येकं द्विधा-अवष्वष्कणतोऽभिष्वष्कणतश्च । अवष्वष्कणं नाम-ववक्षितविध्वंसनादिकालस्य हासकरणम्, अकिरणमित्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org