________________
४२४
बृहत्कल्प-छेदसूत्रम् -१-१/६
तारयति, लघुभूतशरीरतया तस् सुखेनैव तारणीयत्वात्।यस्तु स्थूरः' शरीरजडुः सः 'तनुकतरं' स्तोकमात्रमप्यवलम्बमानो निजशरीरभारिकतयैवात्मानंतंच नन्द्यांबोलयति, अतस्तमुपेक्षेत। एष दृष्टान्तोऽमर्थोपनयः-पितृस्थानीयः साधुः, पुत्द्वयस्थानीयाः स्थिरा-ऽस्थिरसंहनिनः पृथिवीकायादयः, ततः साधुना प्रथमतो निर्विशेषषडपिकायाः स्थिरसंहनिनोऽस्थिरसंहनिनश्च रक्षणीयाः अथान्यतरेषांविराधनामन्तरेणाध्वगमनादिषुप्रत्युपेक्षणादीनांप्रवृत्तिरेव न घटामञ्चति ततः स्थिरसहनिनां पृथिव्यादीनां विराधनामभ्युपेत्याप्यस्थिरसंहननिनस्त्रसादयो रक्षणीया इति।
अस्यैवार्थस्य समर्थनाय द्वितीयं दृष्टान्तमाह[भा.१६६८] अंगारखडुपडियं, दद्दूण सुयं सुयं बिइयमन्नं ।
पवलिते नीणितो, किं पुत्ते नो कुणइ पायं ।। वृ- यथा नाम कश्चित् पुरुषस्तस्य पुत्रद्वयम्, अन्यदा च रात्रौ तद्गृहे प्रदीपनकं लग्नम्, तद्भयादेकः पुत्रः पलायमानः सहसैवाङ्गारभृतायां गर्तायां निपतितः, स च गृहपतिर्द्वितीयं पुत्रमादाय गृहा निर्गतो यावत् पश्यतिपुरतः स्वपुत्रमङ्गारगर्तायांपतितम्, ततश्चतंसुतं तथाभूतं घटवा द्वितीयमन्यं सुतं “पवलित्ते नीणितो"त्ति पञ्चम्यर्थे सप्तमी प्रदीप्ताद् गृहानिष्काशयन् निजसहजपारिणामिकमत्या विचार्य परिच्छेदकुशलः सन् किमगारगर्तायां निपतितपूर्वे पुत्रे पादं न करोति ? अपि तु करोत्येव, कृत्वा च तदुपरि पादं सुखेनैव तां लक्ष्यतीति भावः ।।अ तदुपरि पादं न दद्यात् 'स्वपुत्रं कथं पादेनाक्रामामि?' इति कृत्वा ततः को दोषः स्याद् ? इत्याह[मा.१६६९] तंवा अणक्कम, चयइ सुयं तं च अप्पगं चेव ।
निथिन्नो हु कदाई, तं पिहुतारिज जो पडिओ। वृ-वाशब्दः पातायाम्, सा च कृतैव । 'त' गर्तानिपतितं पुत्रं पादेनानाक्रामन् स पिता त्यजति सुतं 'तंच' स्वहस्तगृहीतमात्मानं च, उभयोरप्यङ्गारगर्तापातेन विनाशसद्भावात् । अपि च स स्वयं निस्तीर्ण सन् कदाचित् तमपि पुत्रं तारयेद् यः पूर्वं गर्तायां निपतित इति । एष द्वितीयो दृष्टान्तः । उपनययोजना तु प्रागुक्तोपनयानुसारेण कर्त्तव्येति ॥ गतं प्रत्युपेक्षणाद्वारम् । अथ निष्क्रमणद्वारमाह{भा.१६७०] निरवेक्खो तइयाए, गच्छे निक्कारणम्म तह चेव ।
बहुवक्खेवदसविहे, साविक्खे निग्गमो भइओ। वृ. 'निरपेक्षः' जिनकल्पिक-प्रतिमाप्रतिपनकादिर्गच्छसत्कापेक्षारहितः स तृतीयस्यामेव पौरुष्यामुपाश्रया निर्गच्छति। 'गच्छे' गच्छवासिनोऽपि साधवो निष्कारणे तथैव निर्गच्छन्ति, तृतीयस्यां पौरुष्यामित्यर्थः । परं गच्छे यद् आचार्योपाध्यायादिविषयभेदाद् दशविधं वैयावृत्त्यं तेनयोबहुविधो व्याक्षेपस्तेन सापेक्षे गच्छवासिनिनिर्गमो भजनीयः, कदाचित् तृतीयस्यां कदाचित् प्रथम-द्वितीय-चतुर्थीषु वा पौरुषीष्विति ।। अथैनामेव नियुक्तिगाथा व्याख्याति[भा.१६७१] गहिए भिक्खे भोत्तुं, सोहिय आवास आलयमुवेइ ।
जहि निग्गओ तहिं चिय, एमेव य खेत्तसंकमणे ।। वृ-निरपेक्षो भगवान् तृतीयपौरुष्यामुपाश्रयान्निर्गत्यभिक्षामटित्वा गृहीते सति भैक्षे अनापाते असंलोके च स्थाने भुक्त्वा 'आवश्यकंच' संज्ञा-कायिकीलक्षणं शोधयित्वा यस्यामेव पौरुष्यां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org