________________
उद्देश : १, मूलं-६, [भा. १६६४ ]
४२३
दोषाः । वर्षासु पुनरुपधिं न बघनाति प्रतिग्रहं मात्रकं च प्रत्युपेक्ष्य निक्षिपति । अथोपधिं बध्नाति भाजने वा धारयति तदा मासलघु । विशेषचूर्णिकृता त्वस्या एकगाथायाः स्थाने गाथाद्वयं लिखितम् । यथा
गुरु पचखायाऽसहु, गिलाण सरिसखमए य चउगुरुगा । पाहुणग सेह बाले, बुड्ढे खमए अ चउलहुगा ॥ चउभागवसेसाए, पडिग्गहं पच्चुवेक्ख न धरेइ । उडुबद्धे मासलहुं, वासासु धरिति मासलहुं ॥
$
वृ- इदं च भावितार्थमेव ॥ अथ "प्रतिलेखनिका सप्रतिपक्षा" इति पदं भावयति
[ भा. १६६५ ]
असिवे ओमोयरिएष सागार भए व राय गेलने । जो जग्मि जया जुज्जइ, पडिवक्खो तं तहा जोए ॥
वृ- 'प्रतिपक्षो नाम' द्वितीयपदम्, तच्चैदम्- 'अशिवे' अशिवगृहीतः सत्र शक्नोति प्रत्युपेक्षितुम्, अवमौदर्ये तु प्रत्यूष एव भिक्षां हिण्डितुं प्रारब्धवन्तः अतो नासित प्रत्युपेक्षणायाः कालः, सागारिको वा प्रेक्षमाणो मा तं सारमुपधिं द्राक्षीदिति कृत्वा, 'भये वा' बोधिक स्तेनादिसम्बन्धिनि सारोपकरणहरणभयान्न प्रत्युपेक्षन्ते राजा वा प्रत्यनीकस्तद्भयादहर्निशमध्वनि वहन्तो न तयुपेक्षेरन्, ग्लानत्वे वा वर्त्तमान एकाकी तिष्ठन् न प्रत्युपेक्षते । एतैः कारणैर्न वा प्रत्युपेक्षेत, अनागतेऽतीते वा काले प्रत्युपेक्षेत, त्वरमाणो वा आरभडादिभिर्दोषैर्दुष्टां प्रत्युपेक्षणां कुर्वीत,
असमर्थो वा गुर्वादीनामप्युपधिं न प्रत्युपेक्षेत; एवं यः 'यत्र' अशिवादी 'यदा' यस्मिन्नवसरे 'प्रतिपक्षः' अप्रत्युपेक्षणा-ऽकालप्रत्युपेक्षणादिको युज्यते तं तथा तत्र योजयेदिति ॥ अथ षट्सु कायेषु प्रत्युपेक्षमाणस्य प्रायश्चित्तं भवतीत्यर्थात् तत्र प्रत्युपेक्षणा न कर्त्तव्येति यदुक्तं तदपवदति[भा. १६६६] तस-बीयरक्खणट्ठा, कासु वि होज्ज कारणे पेहा । नदिहरणपुत्तनायं, तनू य थूरे य पुत्तम्मि ॥
[भा. १६६७ ]
वृ- साश्च द्वीन्द्रियादयः बीजानि च शाल्यादीनि तेषामस्थिरसंहनिनां रक्षार्थं 'कायेष्वपि ' पृथिव्यादिषु दृढसंहननिषु कारणतः प्रत्युपेक्षणा भवति, न च प्रायश्चित्तम् । आह तेषु प्रतिष्ठितः प्रत्युपेक्षणं कुर्वन् सङ्घट्टनादिबाधाविधानात् कथं न दोषभाग् भवति ? इति उच्यते नदीहरणोपलक्षितं पुत्रज्ञातमत्र भवति । कथम्? इत्याह- "तनू य थूरे य पुत्तम्मि" त्ति यथा कश्चित् पुरुषः, तस्य द्वौ पुत्रौ तयोरेकः तनुकः- कृशशरीरः, द्वितीयस्तु स्थूलः अतीवपीवरगात्रः । स चान्यदा ताभ्यां सहितः कञ्चिद् ग्रामं गच्छन्नपान्तराले एकामपार-गम्भीरां नदीमवतीर्णवान् । स च नदीष्णतया सुखेनैव स्वयं तां तरीतुं शक्तः, परं पुत्रावद्यापि तरण कलायामकोविदाविति कृत्वा तनुके स्थूले च पुत्रे उभयेऽपि तारयितुं प्राप्ते सति स किं करोति ? इत्याह
यदि “से” तस्य पितुः 'शक्ति' सामर्थ्य भवेत् ततः “दुवग्गे वि' त्ति देशीवचनत्वाद् द्वावपि पुत्रावुत्तारयेत्, नैकमप्युपेक्षेत । अथ नास्ति तस्य तथाविधं सामर्थ्य ततो यस्तयोः कृशशरीरस्तं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
जइसे हवेज सत्ती, उत्तारिज्जा तओ दुवग्गे वि । थूरो पुन तणुअतरं, अवलंबतो वि बोलेइ ॥