SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ ४२२ बृहत्कल्प-छेदसूत्रम् -१-१/६ सुज्झइ, तम्हा इमोपडिलेहणाकालो-आवस्सए कए तिहिं थुईहिं दिनियाहिं जहा पडिलेहणाकालो भवइ तहा आवस्सयं कायव्यं, इमेहि य दसहि पडिलेहिएहिं जहा सूरो उठेइ मुहपुत्ती रयहरणं, दुन्नि निसिज्जा य चोलपट्टो य। संथारुत्तरपट्टो, तिन्नि य कप्पा मनणेयव्वा ।। जीवदयटुं पेह, एसो कालो इमीइ ता नेओ । आवस्सगथुइअंते, दसपेहा उट्ठए सूरो॥ चूर्णिकृत् पुनराह-यथाऽऽवश्यके कृते एकद्वित्रिश्लोकस्तुतित्रये गृहीते एकादशभिः प्रतिलेखितैरादित्य उत्तिष्ठते स प्रारम्भकालः प्रतिलेखनिकायाः । कतरे पुनरेकादश? पंच अहाजातानि, तिनिकप्पा, तेसिंएगोउनिओदो सुत्तिया, संथारपट्टओत्तरपट्टओदंडओएगारसमो त्ति ।। गतं "प्रतिलेखना तु काले" इति द्वारम् । अथ प्रत्युपेक्षणादोषद्वारं विवृणोति[भा.१६६२] लहुगा लहुगो पनगं, उककोसादुवहिअपडिलेहाए। दोसेहि उपेहंते, लहुओ भिन्नो य पनगंच ॥ वृ- उत्कृष्टाद्युपधीनामप्रत्युपेक्षणे प्रायश्चित्तं लघुका लघुकः पञ्चकं चेति । उत्कृष्टमुपधिं न प्रत्युपेक्षते चत्वारो लघुकाः, मध्यमंन प्रत्युपेक्षतेतत उत्कृष्टे मासलघु, मध्यमे भिन्नमासः, जघन्ये रात्रिन्दिवपञ्चकम् ॥अथ “षट्सुकायेषु" इति पदं व्याचष्टे[भा.१६६३] काएसु अप्पणा वा, उवही व पइडिओऽत्य चउभंगो। मीस सचित्त अनंतर-परंपरपइट्ठिए चेव ।। वृ-प्रत्युपेक्षमाणः षट्सु कायेष्वात्मना प्रतिष्ठित उपधिर्वा तेषु प्रतिष्ठित इत्यत्र चतुर्भङ्गी । तद्यथा-स्वयं कायेषु प्रतिष्ठितो नोपधि १ उपधि प्रतिष्ठितो न स्वयं २ स्वयमपिप्रतिष्ठित उपधिरपि प्रतिष्ठितः ३ स्वयमप्यप्रतिष्ठित उपधिरप्यप्रतिष्ठितः ४ इति । एते च षट् काया मिश्रा वा भवेयुः सचित्ता वा । एतेषु साधुरुपधिर्वा अनन्तरं वा परम्परं वा प्रतिष्ठितो भवेत् । अत्र च प्रायश्चित्तं "छक्काय चउसु लहुगा" इत्यादिगाथानुसारेणावगन्तव्यम् । यस्तु द्वाभ्यामप्यप्रतिष्ठितः स शुद्ध इति ।। अथ दोषद्वारस्य वक्तव्यताशेषं प्रतिग्रहनिक्षेपणपदं च व्याख्यानयति[भा.१६६४] आयरिए य परित्रा, गिलाण सरिसखमए य चउगुरुगा। उडु अधरऽबंध लहुओ, बंधण धरणे य वासासु ।। वृ-"आयरिए"त्ति षष्ठी-सप्तम्योरर्थं प्रत्यभेदादाचार्यस्य “परिन्न"त्ति मत्वर्थीयप्रत्युयलोपात् 'परिज्ञावतः' कृतभक्तप्रत्याख्यानस्य "गिलाण सरिसखमएय"त्तिग्लानस्य ग्लानसशश्चयः क्षपकः-विकृष्टतपस्वी तस्य, एतेषांचतुर्णामुपर्धियदिनप्रत्युपेक्षते तदा चत्वारो गुरवः । चशब्दात् प्राघूर्णक-स्थविर-शैक्षाणामग्लानोपमस्य च क्षपकस्योपधिमप्रत्युपेक्षमाणानां चतुर्लघवः । “उडु" इत्यादि पश्चार्द्धम्।यदा सर्वाण्यपि वस्त्राणि प्रत्युपेक्षितानि भवन्ति तदायान्यतिरिक्तानि भाजनानि तानि प्रत्युपेक्ष्यन्ते । प्रतिग्रहं मात्रकं च यदि तदानीमेव प्रत्युपेक्षते तदा मासलघु, असामाचारीनिष्पत्रमिति भावः । अतः सूत्रपौरुषीं कृत्वा चतुर्भागावशेषायां पौरुष्यां प्रत्युपेक्ष्य द्वेअपि ऋतुबद्धे काले धारमीये न निक्षेप्तव्ये ।अथऋतुबद्ध प्रतिग्रहं मात्रकंवान धारयत्युपकरणंवा दवरकेण न बघ्नाति तदा मासलघु, अग्नि-स्तेन-दण्डिकक्षोभादयश्च ओघनियुक्तिप्रतिपादिता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003371
Book TitleAgam Sutra Satik 35 Bruhatkalpa ChhedSutra 2
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 35, & agam_bruhatkalpa
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy